Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 5:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 अतएव प्रभो र्भयानकत्वं विज्ञाय वयं मनुजान् अनुनयामः किञ्चेश्वरस्य गोचरे सप्रकाशा भवामः, युष्माकं संवेदगोचरेऽपि सप्रकाशा भवाम इत्याशंसामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতএৱ প্ৰভো ৰ্ভযানকৎৱং ৱিজ্ঞায ৱযং মনুজান্ অনুনযামঃ কিঞ্চেশ্ৱৰস্য গোচৰে সপ্ৰকাশা ভৱামঃ, যুষ্মাকং সংৱেদগোচৰেঽপি সপ্ৰকাশা ভৱাম ইত্যাশংসামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতএৱ প্রভো র্ভযানকৎৱং ৱিজ্ঞায ৱযং মনুজান্ অনুনযামঃ কিঞ্চেশ্ৱরস্য গোচরে সপ্রকাশা ভৱামঃ, যুষ্মাকং সংৱেদগোচরেঽপি সপ্রকাশা ভৱাম ইত্যাশংসামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတဧဝ ပြဘော ရ္ဘယာနကတွံ ဝိဇ္ဉာယ ဝယံ မနုဇာန် အနုနယာမး ကိဉ္စေၑွရသျ ဂေါစရေ သပြကာၑာ ဘဝါမး, ယုၐ္မာကံ သံဝေဒဂေါစရေ'ပိ သပြကာၑာ ဘဝါမ ဣတျာၑံသာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 ataEva prabhO rbhayAnakatvaM vijnjAya vayaM manujAn anunayAmaH kinjcEzvarasya gOcarE saprakAzA bhavAmaH, yuSmAkaM saMvEdagOcarE'pi saprakAzA bhavAma ityAzaMsAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અતએવ પ્રભો ર્ભયાનકત્વં વિજ્ઞાય વયં મનુજાન્ અનુનયામઃ કિઞ્ચેશ્વરસ્ય ગોચરે સપ્રકાશા ભવામઃ, યુષ્માકં સંવેદગોચરેઽપિ સપ્રકાશા ભવામ ઇત્યાશંસામહે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 5:11
39 अन्तरसन्दर्भाः  

ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।


पश्चादम्यनन्तशास्तिं किन्तु धार्म्मिका अनन्तायुषं भोक्तुं यास्यन्ति।


तर्हि कस्माद् भेतव्यम् इत्यहं वदामि, यः शरीरं नाशयित्वा नरकं निक्षेप्तुं शक्नोति तस्मादेव भयं कुरुत, पुनरपि वदामि तस्मादेव भयं कुरुत।


तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।


सभाया भङ्गे सति बहवो यिहूदीयलोका यिहूदीयमतग्राहिणो भक्तलोकाश्च बर्णब्बापौलयोः पश्चाद् आगच्छन्, तेन तौ तैः सह नानाकथाः कथयित्वेश्वरानुग्रहाश्रये स्थातुं तान् प्रावर्त्तयतां।


मानुष एष व्यवस्थाय विरुद्धम् ईश्वरभजनं कर्त्तुं लोकान् कुप्रवृत्तिं ग्राहयतीति निवेदितवन्तः।


पौलः प्रतिविश्रामवारं भजनभवनं गत्वा विचारं कृत्वा यिहूदीयान् अन्यदेशीयांश्च प्रवृत्तिं ग्राहितवान्।


किन्तु हस्तनिर्म्मितेश्वरा ईश्वरा नहि पौलनाम्ना केनचिज्जनेन कथामिमां व्याहृत्य केवलेफिषनगरे नहि प्रायेण सर्व्वस्मिन् आशियादेशे प्रवृत्तिं ग्राहयित्वा बहुलोकानां शेमुषी परावर्त्तिता, एतद् युष्माभि र्दृश्यते श्रूयते च।


यस्य साक्षाद् अक्षोभः सन् कथां कथयामि स राजा तद्वृत्तान्तं जानाति तस्य समीपे किमपि गुप्तं नेति मया निश्चितं बुध्यते यतस्तद् विजने न कृतं।


तैस्तदर्थम् एकस्मिन् दिने निरूपिते तस्मिन् दिने बहव एकत्र मिलित्वा पौलस्य वासगृहम् आगच्छन् तस्मात् पौल आ प्रातःकालात् सन्ध्याकालं यावन् मूसाव्यवस्थाग्रन्थाद् भविष्यद्वादिनां ग्रन्थेभ्यश्च यीशोः कथाम् उत्थाप्य ईश्वरस्य राज्ये प्रमाणं दत्वा तेषां प्रवृत्तिं जनयितुं चेष्टितवान्।


अन्ये बहवो लोका यद्वद् ईश्वरस्य वाक्यं मृषाशिक्षया मिश्रयन्ति वयं तद्वत् तन्न मिश्रयन्तः सरलभावेनेश्वरस्य साक्षाद् ईश्वरस्यादेशात् ख्रीष्टेन कथां भाषामहे।


अतो वयं ख्रीष्टस्य विनिमयेन दौत्यं कर्म्म सम्पादयामहे, ईश्वरश्चास्माभि र्युष्मान् यायाच्यते ततः ख्रीष्टस्य विनिमयेन वयं युष्मान् प्रार्थयामहे यूयमीश्वरेण सन्धत्त।


तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां।


साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।


यूयम् ईश्वराद् भीताः सन्त अन्येऽपरेषां वशीभूता भवत।


अमरेश्वरस्य करयोः पतनं महाभयानकं।


यतोऽस्माकम् ईश्वरः संहारको वह्निः।


कांश्चिद् अग्नित उद्धृत्य भयं प्रदर्श्य रक्षत, शारीरिकभावेन कलङ्कितं वस्त्रमपि ऋतीयध्वं।


यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्