Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 12:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 युष्माकं समीपे वयं पुन र्दोषक्षालनकथां कथयाम इति किं बुध्यध्वे? हे प्रियतमाः, युष्माकं निष्ठार्थं वयमीश्वरस्य समक्षं ख्रीष्टेन सर्व्वाण्येतानि कथयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যুষ্মাকং সমীপে ৱযং পুন ৰ্দোষক্ষালনকথাং কথযাম ইতি কিং বুধ্যধ্ৱে? হে প্ৰিযতমাঃ, যুষ্মাকং নিষ্ঠাৰ্থং ৱযমীশ্ৱৰস্য সমক্ষং খ্ৰীষ্টেন সৰ্ৱ্ৱাণ্যেতানি কথযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যুষ্মাকং সমীপে ৱযং পুন র্দোষক্ষালনকথাং কথযাম ইতি কিং বুধ্যধ্ৱে? হে প্রিযতমাঃ, যুষ্মাকং নিষ্ঠার্থং ৱযমীশ্ৱরস্য সমক্ষং খ্রীষ্টেন সর্ৱ্ৱাণ্যেতানি কথযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယုၐ္မာကံ သမီပေ ဝယံ ပုန ရ္ဒောၐက္ၐာလနကထာံ ကထယာမ ဣတိ ကိံ ဗုဓျဓွေ? ဟေ ပြိယတမား, ယုၐ္မာကံ နိၐ္ဌာရ္ထံ ဝယမီၑွရသျ သမက္ၐံ ခြီၐ္ဋေန သရွွာဏျေတာနိ ကထယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yuSmAkaM samIpE vayaM puna rdOSakSAlanakathAM kathayAma iti kiM budhyadhvE? hE priyatamAH, yuSmAkaM niSThArthaM vayamIzvarasya samakSaM khrISTEna sarvvANyEtAni kathayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 યુષ્માકં સમીપે વયં પુન ર્દોષક્ષાલનકથાં કથયામ ઇતિ કિં બુધ્યધ્વે? હે પ્રિયતમાઃ, યુષ્માકં નિષ્ઠાર્થં વયમીશ્વરસ્ય સમક્ષં ખ્રીષ્ટેન સર્વ્વાણ્યેતાનિ કથયામઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 12:19
20 अन्तरसन्दर्भाः  

हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।


अतएव येनास्माकं सर्व्वेषां परस्परम् ऐक्यं निष्ठा च जायते तदेवास्माभि र्यतितव्यं।


अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थञ्च तस्यैवेष्टाचारम् आचरतु।


अहं काञ्चिद् कल्पितां कथां न कथयामि, ख्रीष्टस्य साक्षात् सत्यमेव ब्रवीमि पवित्रस्यात्मनः साक्षान् मदीयं मन एतत् साक्ष्यं ददाति।


हे प्रियभ्रातरः, देवपूजातो दूरम् अपसरत।


अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।


हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।


युष्माकं निपाताय तन्नहि किन्तु निष्ठायै प्रभुना दत्तं यदस्माकं सामर्थ्यं तेन यद्यपि किञ्चिद् अधिकं श्लाघे तथापि तस्मान्न त्रपिष्ये।


ख्रीष्टस्य सत्यता यदि मयि तिष्ठति तर्हि ममैषा श्लाघा निखिलाखायादेशे केनापि न रोत्स्यते।


मया मृषावाक्यं न कथ्यत इति नित्यं प्रशंसनीयोऽस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो जानाति।


अपरञ्च युष्मासु बहु प्रीयमाणोऽप्यहं यदि युष्मत्तोऽल्पं प्रम लभे तथापि युष्माकं प्राणरक्षार्थं सानन्दं बहु व्ययं सर्व्वव्ययञ्च करिष्यामि।


अतो हेतोः प्रभु र्युष्माकं विनाशाय नहि किन्तु निष्ठायै यत् सामर्थ्यम् अस्मभ्यं दत्तवान् तेन यद् उपस्थितिकाले काठिन्यं मयाचरितव्यं न भवेत् तदर्थम् अनुपस्थितेन मया सर्व्वाण्येतानि लिख्यन्ते।


अन्ये बहवो लोका यद्वद् ईश्वरस्य वाक्यं मृषाशिक्षया मिश्रयन्ति वयं तद्वत् तन्न मिश्रयन्तः सरलभावेनेश्वरस्य साक्षाद् ईश्वरस्यादेशात् ख्रीष्टेन कथां भाषामहे।


वयं किम् आत्मप्रशंसनं पुनरारभामहे? युष्मान् प्रति युष्मत्तो वा परेषां केषाञ्चिद् इवास्माकमपि किं प्रशंसापत्रेषु प्रयोजनम् आस्ते?


अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।


हे मदीयानन्दमुकुटस्वरूपाः प्रियतमा अभीष्टतमा भ्रातरः, हे मम स्नेहपात्राः, यूयम् इत्थं पभौ स्थिरास्तिष्ठत।


अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।


हे प्रियतमाः, यद्यपि वयम् एतादृशं वाक्यं भाषामहे तथापि यूयं तत उत्कृष्टाः परित्राणपथस्य पथिकाश्चाध्व इति विश्वसामः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्