Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 প্ৰাচীনগণহস্তাৰ্পণসহিতেন ভৱিষ্যদ্ৱাক্যেন যদ্দানং তুভ্যং ৱিশ্ৰাণিতং তৱান্তঃস্থে তস্মিন্ দানে শিথিলমনা মা ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 প্রাচীনগণহস্তার্পণসহিতেন ভৱিষ্যদ্ৱাক্যেন যদ্দানং তুভ্যং ৱিশ্রাণিতং তৱান্তঃস্থে তস্মিন্ দানে শিথিলমনা মা ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပြာစီနဂဏဟသ္တာရ္ပဏသဟိတေန ဘဝိၐျဒွါကျေန ယဒ္ဒါနံ တုဘျံ ဝိၑြာဏိတံ တဝါန္တးသ္ထေ တသ္မိန် ဒါနေ ၑိထိလမနာ မာ ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 prAcInagaNahastArpaNasahitEna bhaviSyadvAkyEna yaddAnaM tubhyaM vizrANitaM tavAntaHsthE tasmin dAnE zithilamanA mA bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 પ્રાચીનગણહસ્તાર્પણસહિતેન ભવિષ્યદ્વાક્યેન યદ્દાનં તુભ્યં વિશ્રાણિતં તવાન્તઃસ્થે તસ્મિન્ દાને શિથિલમના મા ભવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:14
18 अन्तरसन्दर्भाः  

बर्णब्बाशौलयो र्द्वारा प्राचीनलोकानां समीपं तत् प्रेषितवन्तः।


ततस्तैरुपवासप्रार्थनयोः कृतयोः सतोस्ते तयो र्गात्रयो र्हस्तार्पणं कृत्वा तौ व्यसृजन्।


ततः पौलेन तेषां गात्रेषु करेऽर्पिते तेषामुपरि पवित्र आत्मावरूढवान्, तस्मात् ते नानादेशीया भाषा भविष्यत्कथाश्च कथितवन्तः।


महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।


प्रेरितानां समक्षम् आनयन्, ततस्ते प्रार्थनां कृत्वा तेषां शिरःसु हस्तान् आर्पयन्।


किन्तु प्रेरिताभ्यां तेषां गात्रेषु करेष्वर्पितेषु सत्सु ते पवित्रम् आत्मानम् प्राप्नुवन्।


पवित्रम् आत्मानं न निर्व्वापयत।


हे पुत्र तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायोऽयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि


एतेषु मनो निवेशय, एतेषु वर्त्तस्व, इत्थञ्च सर्व्वविषये तव गुणवृद्धिः प्रकाशतां।


ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।


द्वौ त्रीन् वा साक्षिणो विना कस्याचित् प्राचीनस्य विरुद्धम् अभियोगस्त्वया न गृह्यतां।


कस्यापि मूर्द्धि हस्तापर्णं त्वरया माकार्षीः। परपापानाञ्चांशी मा भव। स्वं शुचिं रक्ष।


विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्।


अतो हेतो र्मम हस्तार्पणेन लब्धो य ईश्वरस्य वरस्त्वयि विद्यते तम् उज्ज्वालयितुं त्वां स्मारयामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्