Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 9:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 अहं किम् एकः प्रेरितो नास्मि? किमहं स्वतन्त्रो नास्मि? अस्माकं प्रभु र्यीशुः ख्रीष्टः किं मया नादर्शि? यूयमपि किं प्रभुना मदीयश्रमफलस्वरूपा न भवथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অহং কিম্ একঃ প্ৰেৰিতো নাস্মি? কিমহং স্ৱতন্ত্ৰো নাস্মি? অস্মাকং প্ৰভু ৰ্যীশুঃ খ্ৰীষ্টঃ কিং মযা নাদৰ্শি? যূযমপি কিং প্ৰভুনা মদীযশ্ৰমফলস্ৱৰূপা ন ভৱথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অহং কিম্ একঃ প্রেরিতো নাস্মি? কিমহং স্ৱতন্ত্রো নাস্মি? অস্মাকং প্রভু র্যীশুঃ খ্রীষ্টঃ কিং মযা নাদর্শি? যূযমপি কিং প্রভুনা মদীযশ্রমফলস্ৱরূপা ন ভৱথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အဟံ ကိမ် ဧကး ပြေရိတော နာသ္မိ? ကိမဟံ သွတန္တြော နာသ္မိ? အသ္မာကံ ပြဘု ရျီၑုး ခြီၐ္ဋး ကိံ မယာ နာဒရ္ၑိ? ယူယမပိ ကိံ ပြဘုနာ မဒီယၑြမဖလသွရူပါ န ဘဝထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 ahaM kim EkaH prEritO nAsmi? kimahaM svatantrO nAsmi? asmAkaM prabhu ryIzuH khrISTaH kiM mayA nAdarzi? yUyamapi kiM prabhunA madIyazramaphalasvarUpA na bhavatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અહં કિમ્ એકઃ પ્રેરિતો નાસ્મિ? કિમહં સ્વતન્ત્રો નાસ્મિ? અસ્માકં પ્રભુ ર્યીશુઃ ખ્રીષ્ટઃ કિં મયા નાદર્શિ? યૂયમપિ કિં પ્રભુના મદીયશ્રમફલસ્વરૂપા ન ભવથ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 9:1
37 अन्तरसन्दर्भाः  

ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।


तद्वार्त्तां श्रुत्वा बर्णब्बापौलौ स्वीयवस्त्राणि छित्वा लोकानां मध्यं वेगेन प्रविश्य प्रोच्चैः कथितवन्तौ,


किन्तु कियन्तो लोका यिहूदीयानां सपक्षाः कियन्तो लोकाः प्रेरितानां सपक्षा जाताः, अतो नागरिकजननिवहमध्ये भिन्नवाक्यत्वम् अभवत्।


रात्रो प्रभुस्तस्य समीपे तिष्ठन् कथितवान् हे पौल निर्भयो भव यथा यिरूशालम्नगरे मयि साक्ष्यं दत्तवान् तथा रोमानगरेपि त्वया दातव्यम्।


किन्तु प्रभुरकथयत्, याहि भिन्नदेशीयलोकानां भूपतीनाम् इस्रायेल्लोकानाञ्च निकटे मम नाम प्रचारयितुं स जनो मम मनोनीतपात्रमास्ते।


ततो ऽननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्।


गच्छन् तु दम्मेषक्नगरनिकट उपस्थितवान्; ततोऽकस्माद् आकाशात् तस्य चतुर्दिक्षु तेजसः प्रकाशनात् स भूमावपतत्।


स पृष्टवान्, हे प्रभो भवान् कः? तदा प्रभुरकथयत् यं यीशुं त्वं ताडयसि स एवाहं; कण्टकस्य मुखे पदाघातकरणं तव कष्टम्।


ईश्वरो निजपुत्रमधि यं सुसंवादं भविष्यद्वादिभि र्धर्म्मग्रन्थे प्रतिश्रुतवान् तं सुसंवादं प्रचारयितुं पृथक्कृत आहूतः प्रेरितश्च प्रभो र्यीशुख्रीष्टस्य सेवको यः पौलः


अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते ऽन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति


अतो हे अन्यदेशिनो युष्मान् सम्बोध्य कथयामि निजानां ज्ञातिबन्धूनां मनःसूद्योगं जनयन् तेषां मध्ये कियतां लोकानां यथा परित्राणं साधयामि


यावन्तः पवित्रा लोकाः स्वेषाम् अस्माकञ्च वसतिस्थानेष्वस्माकं प्रभो र्यीशोः ख्रीष्टस्य नाम्ना प्रार्थयन्ते तैः सहाहूतानां ख्रीष्टेन यीशुना पवित्रीकृतानां लोकानां य ईश्वरीयधर्म्मसमाजः करिन्थनगरे विद्यते


सत्यमेतत्, किन्तु मया यः संवेदो निर्द्दिश्यते स तव नहि परस्यैव।


अनुग्रहपात्रेण मया धन्यवादं कृत्वा यद् भुज्यते तत्कारणाद् अहं कुतो निन्दिष्ये?


अत्र यदि कश्चिद् विवदितुम् इच्छेत् तर्ह्यस्माकम् ईश्वरीयसमितीनाञ्च तादृशी रीति र्न विद्यते।


अहं रोपितवान् आपल्लोश्च निषिक्तवान् ईश्वरश्चावर्द्धयत्।


सर्व्वेषाम् अनायत्तोऽहं यद् भूरिशो लोकान् प्रतिपद्ये तदर्थं सर्व्वेषां दासत्वमङ्गीकृतवान्।


यद् दृष्टिगोचरं तद् युष्माभि र्दृश्यतां। अहं ख्रीष्टस्य लोक इति स्वमनसि येन विज्ञायते स यथा ख्रीष्टस्य भवति वयम् अपि तथा ख्रीष्टस्य भवाम इति पुनर्विविच्य तेन बुध्यतां।


किन्तु मुख्येभ्यः प्रेरितेभ्योऽहं केनचित् प्रकारेण न्यूनो नास्मीति बुध्ये।


तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां।


मनुष्येभ्यो नहि मनुष्यैरपि नहि किन्तु यीशुख्रीष्टेन मृतगणमध्यात् तस्योत्थापयित्रा पित्रेश्वरेण च प्रेरितो योऽहं पौलः सोऽहं


ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।


वयं ख्रीष्टस्य प्रेरिता इव गौरवान्विता भवितुम् अशक्ष्याम किन्तु युष्मत्तः परस्माद् वा कस्मादपि मानवाद् गौरवं न लिप्समाना युष्मन्मध्ये मृदुभावा भूत्वावर्त्तामहि।


तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि।


तस्य घोषयिता दूतश्चान्यजातीयानां शिक्षकश्चाहं नियुक्तोऽस्मि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्