Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 3:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 तर्ह्येकैकस्य कर्म्म प्रकाशिष्यते यतः स दिवसस्तत् प्रकाशयिष्यति। यतो हतोस्तन दिवसेन वह्निमयेनोदेतव्यं तत एकैकस्य कर्म्म कीदृशमेतस्य परीक्षा बह्निना भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তৰ্হ্যেকৈকস্য কৰ্ম্ম প্ৰকাশিষ্যতে যতঃ স দিৱসস্তৎ প্ৰকাশযিষ্যতি| যতো হতোস্তন দিৱসেন ৱহ্নিমযেনোদেতৱ্যং তত একৈকস্য কৰ্ম্ম কীদৃশমেতস্য পৰীক্ষা বহ্নিনা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তর্হ্যেকৈকস্য কর্ম্ম প্রকাশিষ্যতে যতঃ স দিৱসস্তৎ প্রকাশযিষ্যতি| যতো হতোস্তন দিৱসেন ৱহ্নিমযেনোদেতৱ্যং তত একৈকস্য কর্ম্ম কীদৃশমেতস্য পরীক্ষা বহ্নিনা ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တရှျေကဲကသျ ကရ္မ္မ ပြကာၑိၐျတေ ယတး သ ဒိဝသသ္တတ် ပြကာၑယိၐျတိ၊ ယတော ဟတောသ္တန ဒိဝသေန ဝဟ္နိမယေနောဒေတဝျံ တတ ဧကဲကသျ ကရ္မ္မ ကီဒၖၑမေတသျ ပရီက္ၐာ ဗဟ္နိနာ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tarhyEkaikasya karmma prakAziSyatE yataH sa divasastat prakAzayiSyati| yatO hatOstana divasEna vahnimayEnOdEtavyaM tata Ekaikasya karmma kIdRzamEtasya parIkSA bahninA bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તર્હ્યેકૈકસ્ય કર્મ્મ પ્રકાશિષ્યતે યતઃ સ દિવસસ્તત્ પ્રકાશયિષ્યતિ| યતો હતોસ્તન દિવસેન વહ્નિમયેનોદેતવ્યં તત એકૈકસ્ય કર્મ્મ કીદૃશમેતસ્ય પરીક્ષા બહ્નિના ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 3:13
28 अन्तरसन्दर्भाः  

युष्मानहं तथ्यं वच्मि विचारदिने तत्पुरस्य दशातः सिदोममोरापुरयोर्दशा सह्यतरा भविष्यति।


मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।


तस्मात् तवापि प्राणाः शूलेन व्यत्स्यन्ते।


यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।


तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?


अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।


एतद्भित्तिमूलस्योपरि यदि केचित् स्वर्णरूप्यमणिकाष्ठतृणनलान् निचिन्वन्ति,


अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।


तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।


अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरेऽपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि।


किन्तु ते बहुदूरम् अग्रसरा न भविष्यन्ति यतस्तयो र्मूढता यद्वत् तद्वद् एतेषामपि मूढता सर्व्वदृश्या भविष्यति।


शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।


अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।


यतो वह्निना यस्य परीक्षा भवति तस्मात् नश्वरसुवर्णादपि बहुमूल्यं युष्माकं विश्वासरूपं यत् परीक्षितं स्वर्णं तेन यीशुख्रीष्टस्यागमनसमये प्रशंसायाः समादरस्य गौरवस्य च योग्यता प्राप्तव्या।


हे प्रियतमाः, युष्माकं परीक्षार्थं यस्तापो युष्मासु वर्त्तते तम् असम्भवघटितं मत्वा नाश्चर्य्यं जानीत,


किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।


किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते।


अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्