Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অপৰম্ অস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য দিৱসে যূযং যন্নিৰ্দ্দোষা ভৱেত তদৰ্থং সএৱ যাৱদন্তং যুষ্মান্ সুস্থিৰান্ কৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অপরম্ অস্মাকং প্রভো র্যীশুখ্রীষ্টস্য দিৱসে যূযং যন্নির্দ্দোষা ভৱেত তদর্থং সএৱ যাৱদন্তং যুষ্মান্ সুস্থিরান্ করিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အပရမ် အသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ ဒိဝသေ ယူယံ ယန္နိရ္ဒ္ဒေါၐာ ဘဝေတ တဒရ္ထံ သဧဝ ယာဝဒန္တံ ယုၐ္မာန် သုသ္ထိရာန် ကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 aparam asmAkaM prabhO ryIzukhrISTasya divasE yUyaM yannirddOSA bhavEta tadarthaM saEva yAvadantaM yuSmAn susthirAn kariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 અપરમ્ અસ્માકં પ્રભો ર્યીશુખ્રીષ્ટસ્ય દિવસે યૂયં યન્નિર્દ્દોષા ભવેત તદર્થં સએવ યાવદન્તં યુષ્માન્ સુસ્થિરાન્ કરિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:8
29 अन्तरसन्दर्भाः  

यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।


तद्वन् मानवपुत्रप्रकाशदिनेपि भविष्यति।


हे परदासस्य दूषयितस्त्वं कः? निजप्रभोः समीपे तेन पदस्थेन पदच्युतेन वा भवितव्यं स च पदस्थ एव भविष्यति यत ईश्वरस्तं पदस्थं कर्त्तुं शक्नोति।


पूर्व्वकालिकयुगेषु प्रच्छन्ना या मन्त्रणाधुना प्रकाशिता भूत्वा भविष्यद्वादिलिखितग्रन्थगणस्य प्रमाणाद् विश्वासेन ग्रहणार्थं सदातनस्येश्वरस्याज्ञया सर्व्वदेशीयलोकान् ज्ञाप्यते,


यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते।


तर्ह्येकैकस्य कर्म्म प्रकाशिष्यते यतः स दिवसस्तत् प्रकाशयिष्यति। यतो हतोस्तन दिवसेन वह्निमयेनोदेतव्यं तत एकैकस्य कर्म्म कीदृशमेतस्य परीक्षा बह्निना भविष्यति।


स नरः शरीरनाशार्थमस्माभिः शयतानो हस्ते समर्पयितव्यस्ततोऽस्माकं प्रभो र्यीशो र्दिवसे तस्यात्मा रक्षां गन्तुं शक्ष्यति।


युष्माभि र्यद् यत् पठ्यते गृह्यते च तदन्यत् किमपि युष्मभ्यम् अस्माभि र्न लिख्यते तच्चान्तं यावद् युष्माभि र्ग्रहीष्यत इत्यस्माकम् आशा।


यूयमितः पूर्व्वमप्यस्मान् अंशतो गृहीतवन्तः, यतः प्रभो र्यीशुख्रीष्टस्य दिने यद्वद् युष्मास्वस्माकं श्लाघा तद्वद् अस्मासु युष्माकमपि श्लाघा भविष्यति।


युष्मान् अस्मांश्चाभिषिच्य यः ख्रीष्टे स्थास्नून् करोति स ईश्वर एव।


अपरं तिलकवल्यादिविहीनां पवित्रां निष्कलङ्काञ्च तां समितिं तेजस्विनीं कृत्वा स्वहस्ते समर्पयितुञ्चाभिलषितवान्।


ज्ञानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु,


युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।


यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।


तस्मिन् बद्धमूलाः स्थापिताश्च भवत या च शिक्षा युष्माभि र्लब्धा तदनुसाराद् विश्वासे सुस्थिराः सन्तस्तेनैव नित्यं धन्यवादं कुरुत।


अपरमस्माकं प्रभु र्यीशुख्रीष्टः स्वकीयैः सर्व्वैः पवित्रलोकैः सार्द्धं यदागमिष्यति तदा यूयं यथास्माकं तातस्येश्वरस्य सम्मुखे पवित्रतया निर्दोषा भविष्यथ तथा युष्माकं मनांसि स्थिरीक्रियन्तां।


यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ।


प्रभेस्तद् दिनं प्रायेणोपस्थितम् इति यदि कश्चिद् आत्मना वाचा वा पत्रेण वास्माकम् आदेशं कल्पयन् युष्मान् गदति तर्हि यूयं तेन चञ्चलमनस उद्विग्नाश्च न भवत।


किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।


तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।


अतो विचारदिने स यथा प्रभोः कृपाभाजनं भवेत् तादृशं वरं प्रभुस्तस्मै देयात्। इफिषनगरेऽपि स कति प्रकारै र्माम् उपकृतवान् तत् त्वं सम्यग् वेत्सि।


क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।


किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।


अतएव हे प्रियतमाः, तानि प्रतीक्षमाणा यूयं निष्कलङ्का अनिन्दिताश्च भूत्वा यत् शान्त्याश्रितास्तिष्ठथैतस्मिन् यतध्वं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्