ईश्वरस्य गृहं स्वर्गः इव, आश्रयः, सुरक्षा, आनन्दश्च वर्तते। अत्रैव तं जानीमः, शिक्षां प्राप्नुमः, च धरित्रीं धर्मं कर्तुं सज्जीभवामः। अतः सर्वे अस्मिन् गृहे भवितुम् इच्छेयुः, तच्च तस्य उपस्थितेः स्थानत्वेन पूजयेयुः।
भगवान् अस्माकं परमं धनम् अस्ति, तस्मात् यत् सर्वं दत्तवान् अस्ति तस्य वयं सु-प्रबन्धकाः भवेम। तस्य गृहं प्रति सदा आदरेण गच्छन्तु, इति भवतः आह्वानं करोमि। इदं पवित्रं स्थानं यत्र तस्य महिमा निवसति।
यथा भक्तः दाऊदः उक्तवान् - "तव प्राङ्गणे एकोऽपि दिवसः सहस्रदिवसेभ्यः श्रेष्ठः। दुष्टानां निवासस्थानं न कामये, किन्तु भगवतः गृहस्य द्वारपालः भवितुम् इच्छामि।" (भजनसंहिता ८४.१०)
यूयम् ईश्वरस्य मन्दिरं युष्मन्मध्ये चेश्वरस्यात्मा निवसतीति किं न जानीथ? ईश्वरस्य मन्दिरं येन विनाश्यते सोऽपीश्वरेण विनाशयिष्यते यत ईश्वरस्य मन्दिरं पवित्रमेव यूयं तु तन्मन्दिरम् आध्वे।
अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
यदि वा विलम्बेय तर्हीश्वरस्य गृहे ऽर्थतः सत्यधर्म्मस्य स्तम्भभित्तिमूलस्वरूपायाम् अमरेश्वरस्य समितौ त्वया कीदृश आचारः कर्त्तव्यस्तत् ज्ञातुं शक्ष्यते।
अपरं तानुवाच, एषा लिपिरास्ते, "मम गृहं प्रार्थनागृहमिति विख्यास्यति", किन्तु यूयं तद् दस्यूनां गह्वरं कृतवन्तः।
तथापि यः सर्व्वोपरिस्थः स कस्मिंश्चिद् हस्तकृते मन्दिरे निवसतीति नहि, भविष्यद्वादी कथामेतां कथयति, यथा,
एकैकस्य निवेशनस्य परिजनानां स्थापयिता कश्चिद् विद्यते यश्च सर्व्वस्थापयिता स ईश्वर एव।
वणिजां मुद्रादि विकीर्य्य आसनानि न्यूब्जीकृत्य पारावतविक्रयिभ्योऽकथयद् अस्मात् स्थानात् सर्वाण्येतानि नयत, मम पितुगृहं वाणिज्यगृहं मा कार्ष्ट। तस्मात् तन्मन्दिरार्थ उद्योगो यस्तु स ग्रसतीव माम्। इमां शास्त्रीयलिपिं शिष्याःसमस्मरन्।
अत इदानीं यूयम् असम्पर्कीया विदेशिनश्च न तिष्ठनतः पवित्रलोकैः सहवासिन ईश्वरस्य वेश्मवासिनश्चाध्वे। अर्थतः साम्प्रतम् आज्ञालङ्घिवंशेषु कर्म्मकारिणम् आत्मानम् अन्वव्रजत। अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः। तेन कृत्स्ना निर्म्मितिः संग्रथ्यमाना प्रभोः पवित्रं मन्दिरं भवितुं वर्द्धते। यूयमपि तत्र संग्रथ्यमाना आत्मनेश्वरस्य वासस्थानं भवथ।
यूयमपि जीवत्प्रस्तरा इव निचीयमाना आत्मिकमन्दिरं ख्रीष्टेन यीशुना चेश्वरतोषकाणाम् आत्मिकबलीनां दानार्थं पवित्रो याजकवर्गो भवथ।
सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्। परमेश्वरो दिने दिने परित्राणभाजनै र्मण्डलीम् अवर्द्धयत्।
अपरं भाविमङ्गलानां महायाजकः ख्रीष्ट उपस्थायाहस्तनिर्म्मितेनार्थत एतत्सृष्टे र्बहिर्भूतेन श्रेष्ठेन सिद्धेन च दूष्येण गत्वा छागानां गोवत्सानां वा रुधिरम् अनादाय स्वीयरुधिरम् आदायैककृत्व एव महापवित्रस्थानं प्रविश्यानन्तकालिकां मुक्तिं प्राप्तवान्।
यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते। यतो वृष्टौ सत्याम् आप्लाव आगते वायौ वाते च तेषु तद्गेहं लग्नेषु पाषाणोपरि तस्य भित्तेस्तन्न पततिl
यतो विचारस्यारम्भसमये ईश्वरस्य मन्दिरे युज्यते यदि चास्मत्स्वारभते तर्हीश्वरीयसुसंवादाग्राहिणां शेषदशा का भविष्यति?
युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते?
किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते। ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।
हे भ्रातरः, सम्मिलितानां युष्माकम् एकेन गीतम् अन्येनोपदेशोऽन्येन परभाषान्येन ऐश्वरिकदर्शनम् अन्येनार्थबोधकं वाक्यं लभ्यते किमेतत्? सर्व्वमेव परनिष्ठार्थं युष्माभिः क्रियतां।
अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति, यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्। यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्, अपरञ्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजकोऽस्माकमस्ति। अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।
मम मेषा मम शब्दं शृण्वन्ति तानहं जानामि ते च मम पश्चाद् गच्छन्ति। अहं तेभ्योऽनन्तायु र्ददामि, ते कदापि न नंक्ष्यन्ति कोपि मम करात् तान् हर्त्तुं न शक्ष्यति। यो मम पिता तान् मह्यं दत्तवान् स सर्व्वस्मात् महान्, कोपि मम पितुः करात् तान् हर्त्तुं न शक्ष्यति।
अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।
अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।
तस्या अन्तर एकमपि मन्दिरं मया न दृष्टं सतः सर्व्वशक्तिमान् प्रभुः परमेश्वरो मेषशावकश्च स्वयं तस्य मन्दिरं।
तथापि यः सर्व्वोपरिस्थः स कस्मिंश्चिद् हस्तकृते मन्दिरे निवसतीति नहि, भविष्यद्वादी कथामेतां कथयति, यथा, परेशो वदति स्वर्गो राजसिंहासनं मम। मदीयं पादपीठञ्च पृथिवी भवति ध्रुवं। तर्हि यूयं कृते मे किं प्रनिर्म्मास्यथ मन्दिरं। विश्रामाय मदीयं वा स्थानं किं विद्यते त्विह।
लोकानुपदिशन् जगाद, मम गृहं सर्व्वजातीयानां प्रार्थनागृहम् इति नाम्ना प्रथितं भविष्यति एतत् किं शास्त्रे लिखितं नास्ति? किन्तु यूयं तदेव चोराणां गह्वरं कुरुथ।
तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।
मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज्ञापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि।
यच्च दूष्यं न मनुजैः किन्त्वीश्वरेण स्थापितं तस्य सत्यदूष्यस्य पवित्रवस्तूनाञ्च सेवकः स भवति।
यो जनो जयति तमहं मदीयेश्वरस्य मन्दिरे स्तम्भं कृत्वा स्थापयिस्यामि स पुन र्न निर्गमिष्यति। अपरञ्च तस्मिन् मदीयेश्वरस्य नाम मदीयेश्वरस्य पुर्य्या अपि नाम अर्थतो या नवीना यिरूशानम् पुरी स्वर्गात् मदीयेश्वरस्य समीपाद् अवरोक्ष्यति तस्या नाम ममापि नूतनं नाम लेखिष्यामि।