प्रिय, यद्यपि ईश्वरस्य वचनं हैलोवीन-उत्सवस्य विषये न किञ्चित् वदति, तथापि अस्य उत्सवस्य मूलम्, अस्य सम्बद्धाः प्रथाः च यदि विश्लेष्यामः, तर्हि मृतात्मभिः, पिशाचैः च सह अस्य घनिष्ठः सम्बन्धः दृश्यते। बहवः जनाः हैलोवीन-उत्सवं निरपराधं मनोरञ्जनं मत्वा आचरन्ति, परन्तु यथार्थे अस्य सम्बद्धाः प्रथाः निरपराधाः न सन्ति। पवित्रग्रन्थे स्पष्टं उक्तम् - "न ते भविष्यति यः पुत्रं स्वसुतां वा अग्नौ प्रवेशयति, न भविष्यति यः शकुनं पश्यति, न ज्योतिषी, न शुभशुभफलवादी, न मन्त्रवादी, न यक्षिणी-प्रेत-आदि-सम्बन्धी, न भविष्यद्वक्ता, न मृतक-पृच्छकः। यः एतानि करोति स सर्वः परमेश्वरस्य दृष्टौ घृणितः, एतेषां घृणितकर्मणां कारणादेव परमेश्वरः तान् देशान् तव पुरतः निष्कासयति।" (व्यवस्था. १८.१०-१२)
तन्नहि किन्तु भिन्नजातिभि र्ये बलयो दीयन्ते त ईश्वराय तन्नहि भूतेभ्यएव दीयन्ते तस्माद् यूयं यद् भूतानां सहभागिनो भवथेत्यहं नाभिलषामि। प्रभोः कंसेन भूतानामपि कंसेन पानं युष्माभिरसाध्यं; यूयं प्रभो र्भोज्यस्य भूतानामपि भोज्यस्य सहभागिनो भवितुं न शक्नुथ।
अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति? बिलीयालदेवेन साकं ख्रीष्टस्य वा का सन्धिः? अविश्वासिना सार्द्धं वा विश्वासिलोकस्यांशः कः?
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।
अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं। यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।
यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
बहुतरा यामिनी गता प्रभातं सन्निधिं प्राप्तं तस्मात् तामसीयाः क्रियाः परित्यज्यास्माभि र्वासरीया सज्जा परिधातव्या। अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः। यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।
युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते? जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः? यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।
सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।
युष्माकम् आज्ञाग्राहित्वं सर्व्वत्र सर्व्वै र्ज्ञातं ततोऽहं युष्मासु सानन्दोऽभवं तथापि यूयं यत् सत्ज्ञानेन ज्ञानिनः कुज्ञानेे चातत्परा भवेतेति ममाभिलाषः।
जगतो मध्ये ज्योतिः प्राकाशत किन्तु मनुष्याणां कर्म्मणां दृष्टत्वात् ते ज्योतिषोपि तिमिरे प्रीयन्ते एतदेव दण्डस्य कारणां भवति। यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते। यः कुकर्म्म करोति तस्याचारस्य दृष्टत्वात् स ज्योतिर्ॠतीयित्वा तन्निकटं नायाति; किन्तु यः सत्कर्म्म करोति तस्य सर्व्वाणि कर्म्माणीश्वरेण कृतानीति सथा प्रकाशते तदभिप्रायेण स ज्योतिषः सन्निधिम् आयाति।
अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति। वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः। किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।
अतो युष्माकं या क्षमता सा दुर्ब्बलानाम् उन्माथस्वरूपा यन्न भवेत् तदर्थं सावधाना भवत।
कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
यतः सोऽस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्।
पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।
यत ईश्वरस्य प्रतिमूर्त्ति र्यः ख्रीष्टस्तस्य तेजसः सुसंवादस्य प्रभा यत् तान् न दीपयेत् तदर्थम् इह लोकस्य देवोऽविश्वासिनां ज्ञाननयनम् अन्धीकृतवान् एतस्योदाहरणं ते भवन्ति।
क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।
हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।
प्रभोः कंसेन भूतानामपि कंसेन पानं युष्माभिरसाध्यं; यूयं प्रभो र्भोज्यस्य भूतानामपि भोज्यस्य सहभागिनो भवितुं न शक्नुथ।
अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?
अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
हे प्रिय, त्वया दुष्कर्म्म नानुक्रियतां किन्तु सत्कर्म्मैव। यः सत्कर्म्माचारी स ईश्वरात् जातः, यो दुष्कर्म्माचारी स ईश्वरं न दृष्टवान्।
तस्माद् यूयं तैः सहभागिनो न भवत। पूर्व्वं यूयम् अन्धकारस्वरूपा आध्वं किन्त्विदानीं प्रभुना दीप्तिस्वरूपा भवथ तस्माद् दीप्तेः सन्ताना इव समाचरत।
अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।
यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।
सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत। यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत।
कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।
अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि,
जगतो मध्ये ज्योतिः प्राकाशत किन्तु मनुष्याणां कर्म्मणां दृष्टत्वात् ते ज्योतिषोपि तिमिरे प्रीयन्ते एतदेव दण्डस्य कारणां भवति। यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते। यः कुकर्म्म करोति तस्याचारस्य दृष्टत्वात् स ज्योतिर्ॠतीयित्वा तन्निकटं नायाति;
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,
हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।