प्रत्येकं बालकं ईश्वरस्य अद्भुतं अनन्यं च सृष्टिः अस्ति। तेषां जीवने सः आनन्दं अनुभवति। अतः बालकाः भाररूपेण क्लेशकारिणा वा दायित्वेन न दृष्टव्याः। ते वरदानं, ईश्वरस्य धरोहरः, अस्माकं जीवनस्य उपहारः च। तेषां विकासं द्रष्टुं, भगवतः पथि च नेतुं महान् सौभाग्यं गौरवं च अस्ति।
ईश्वरः तेषां शरीरस्य प्रत्येकं भागं निर्मितवान्। तेषां कृते प्रार्थनाः कुर्मः। स्वेच्छया एव सः तान् निर्मितवान्। तेषां जीवनाय कृतज्ञतां ज्ञापयामः। यतः तेषां जन्म, विकासः, प्रतिभा-प्रयोगः, कल्याणार्थं च सामर्थ्य-प्रयोगः दृष्ट्वा सः एव प्रसन्नः भवति। "त्वया मे अन्तःकरणं निर्मितम्, मातुः गर्भे मां रचितवान्; अद्भुतरचनाय ते नमः। तव कार्याणि अद्भुतानि, इदं मया भूयो जानामि।" (भजनसंहिता १३९:१३-१४)
किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा ईश्वरराज्याधिकारिणः।
किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।
युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।
ततो यीशुः क्षुद्रमेकं बालकं स्वसमीपमानीय तेषां मध्ये निधाय जगाद, यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि। तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये? किं सप्तकृत्वः? यीशुस्तं जगाद, त्वां केवलं सप्तकृत्वो यावत् न वदामि, किन्तु सप्तत्या गुणितं सप्तकृत्वो यावत्। अपरं निजदासैः सह जिगणयिषुः कश्चिद् राजेव स्वर्गराजयं। आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि। तस्य परिशोधनाय द्रव्याभावात् परिशोधनार्थं स तदीयभार्य्यापुत्रादिसर्व्वस्वञ्च विक्रीयतामिति तत्प्रभुरादिदेश। तेन स दासस्तस्य पादयोः पतन् प्रणम्य कथितवान् , हे प्रभो भवता घैर्य्ये कृते मया सर्व्वं परिशोधिष्यते। तदानीं दासस्य प्रभुः सकरुणः सन् सकलर्णं क्षमित्वा तं तत्याज। किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय। तदा तस्य सहदासस्तत्पादयोः पतित्वा विनीय बभाषे, त्वया धैर्य्ये कृते मया सर्व्वं परिशोधिष्यते। युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ। तथापि स तत् नाङगीकृत्य यावत् सर्व्वमृणं न परिशोधितवान् तावत् तं कारायां स्थापयामास। तदा तस्य सहदासास्तस्यैतादृग् आचरणं विलोक्य प्रभोः समीपं गत्वा सर्व्वं वृत्तान्तं निवेदयामासुः। तदा तस्य प्रभुस्तमाहूय जगाद, रे दुष्ट दास, त्वया मत्सन्निधौ प्रार्थिते मया तव सर्व्वमृणं त्यक्तं; यथा चाहं त्वयि करुणां कृतवान्, तथैव त्वत्सहदासे करुणाकरणं किं तव नोचितं? इति कथयित्वा तस्य प्रभुः क्रुद्ध्यन् निजप्राप्यं यावत् स न परिशोधितवान्, तावत् प्रहारकानां करेषु तं समर्पितवान्। यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति। यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः। यः कश्चिद् एतादृशं क्षुद्रबालकमेकं मम नाम्नि गृह्लाति, स मामेव गृह्लाति।
तदा स बालकमेकं गृहीत्वा मध्ये समुपावेशयत् ततस्तं क्रोडे कृत्वा तानवादात् यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।
अथ स यथा शिशून् स्पृशेत्, तदर्थं लोकैस्तदन्तिकं शिशव आनीयन्त, किन्तु शिष्यास्तानानीतवतस्तर्जयामासुः। यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा ईश्वरराज्याधिकारिणः। युष्मानहं यथार्थं वच्मि, यः कश्चित् शिशुवद् भूत्वा राज्यमीश्वरस्य न गृह्लीयात् स कदापि तद्राज्यं प्रवेष्टुं न शक्नोति। अननतरं स शिशूनङ्के निधाय तेषां गात्रेषु हस्तौ दत्त्वाशिषं बभाषे।
किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः। अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।
हे बालकाः, यूयं प्रभुम् उद्दिश्य पित्रोराज्ञाग्राहिणो भवत यतस्तत् न्याय्यं। अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत। यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं। यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते। अतो हेतो र्यूयं यया संकुेले दिनेऽवस्थातुं सर्व्वाणि पराजित्य दृढाः स्थातुञ्च शक्ष्यथ ताम् ईश्वरीयसुसज्जां गृह्लीत। वस्तुतस्तु सत्यत्वेन शृङ्खलेन कटिं बद्ध्वा पुण्येन वर्म्मणा वक्ष आच्छाद्य शान्तेः सुवार्त्तया जातम् उत्साहं पादुकायुगलं पदे समर्प्य तिष्ठत। येन च दुष्टात्मनोऽग्निबाणान् सर्व्वान् निर्व्वापयितुं शक्ष्यथ तादृशं सर्व्वाच्छादकं फलकं विश्वासं धारयत। शिरस्त्रं परित्राणम् आत्मनः खङ्गञ्चेश्वरस्य वाक्यं धारयत। सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं। अहञ्च यस्य सुसंवादस्य शृङ्खलबद्धः प्रचारकदूतोऽस्मि तम् उपयुक्तेनोत्साहेन प्रचारयितुं यथा शक्नुयां त्वं निजपितरं मातरञ्च सम्मन्यस्वेति यो विधिः स प्रतिज्ञायुक्तः प्रथमो विधिः तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृाता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं। अपरं मम यावस्थास्ति यच्च मया क्रियते तत् सर्व्वं यद् युष्माभि र्ज्ञायते तदर्थं प्रभुना प्रियभ्राता विश्वास्यः परिचारकश्च तुखिको युष्मान् तत् ज्ञापयिष्यति। यूयं यद् अस्माकम् अवस्थां जानीथ युष्माकं मनांसि च यत् सान्त्वनां लभन्ते तदर्थमेवाहं युष्माकं सन्निधिं तं प्रेषितवान। अपरम् ईश्वरः प्रभु र्यीशुख्रीष्टश्च सर्व्वेभ्यो भ्रातृभ्यः शान्तिं विश्वाससहितं प्रेम च देयात्। ये केचित् प्रभौ यीशुख्रीष्टेऽक्षयं प्रेम कुर्व्वन्ति तान् प्रति प्रसादो भूयात्। तथास्तु। फलतस्तस्मात् तव कल्याणं देशे च दीर्घकालम् आयु र्भविष्यतीति।
बाल्यकालेऽहं बाल इवाभाषे बाल इवाचिन्तयञ्च किन्तु यौवने जाते तत्सर्व्वं बाल्याचरणं परित्यक्तवान्।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।
पश्यत वयम् ईश्वरस्य सन्ताना इति नाम्नाख्यामहे, एतेन पितास्मभ्यं कीदृक् महाप्रेम प्रदत्तवान्, किन्तु संसारस्तं नाजानात् तत्कारणादस्मान् अपि न जानाति।
अतो हे बालक त्वन्तु सर्व्वेभ्यः श्रेष्ठ एव यः। तस्यैव भाविवादीति प्रविख्यातो भविष्यसि। अस्माकं चरणान् क्षेमे मार्गे चालयितुं सदा। एवं ध्वान्तेऽर्थतो मृत्योश्छायायां ये तु मानवाः।
एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।
ततो यीशुस्तेषां मनोभिप्रायं विदित्वा बालकमेकं गृहीत्वा स्वस्य निकटे स्थापयित्वा तान् जगाद, यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।