प्रिय, भगवद्वचनानां दिनः अतीव महत्त्वपूर्णः अवसरः अस्ति यत्र वयं भगवतः वचनस्य महिमानं प्रकाशयितुं शक्नुमः, तस्य अनुवादस्य च प्रसारकार्ये योगदानं दातुं शक्नुमः। पौलुसः ख्रीष्टभक्तान् एकतायां जीवितुं प्रेरयति, यतः वयं सर्वे एकस्मिन् एव विश्वासे स्थिताः स्मः। एषा एकता एव अस्मान् ख्रीष्टसेवाकार्यार्थं, सुसमाजनिर्माणार्थं च प्रस्तुतं करोति, यत् येशोः सुसंवादद्वारा सम्भवति। "ईश्वरस्य वचनं जीवन्तं, सक्रियं च अस्ति, द्विधारं खड्गं अपि तीक्ष्णतरम्। तत् प्राणं, आत्मानं च, सन्धिं, मज्जां च भेदयति, हृदयस्य विचारान्, भावनाः च विविच्य परीक्षते।" (इब्रीयाः ४:१२) अस्य विशेषदिवसस्य स्मरणार्थम् उत्तमः उपायः अस्ति यत् सर्वे भक्ताः मिलित्वा समाजं प्रति गच्छन्ति, येषां समीपे धर्मग्रन्थः नास्ति, तेभ्यः भगवद्वचनानि ददति। एवं ते अपि ख्रीष्टस्य सत्यमार्गे प्रेरिताः भवन्तु, जीवनं निर्मातुं शक्नुवन्तु च।
अपरञ्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे।
ये यिहूदीया व्यश्वसन् यीशुस्तेभ्योऽकथयत् मम वाक्ये यदि यूयम् आस्थां कुरुथ तर्हि मम शिष्या भूत्वा सत्यत्वं ज्ञास्यथ ततः सत्यतया युष्माकं मोक्षो भविष्यति।
ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"
किन्तु वाक्यं परेशस्यानन्तकालं वितिष्ठते। तदेव च वाक्यं सुसंवादेन युष्माकम् अन्तिके प्रकाशितं।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
यदि यूयं मयि तिष्ठथ मम कथा च युष्मासु तिष्ठति तर्हि यद् वाञ्छित्वा याचिष्यध्वे युष्माकं तदेव सफलं भविष्यति।
यस्माद् यूयं क्षयणीयवीर्य्यात् नहि किन्त्वक्षयणीयवीर्य्याद् ईश्वरस्य जीवनदायकेन नित्यस्थायिना वाक्येन पुनर्जन्म गृहीतवन्तः। सर्व्वप्राणी तृणैस्तुल्यस्तत्तेजस्तृणपुष्पवत्। तृणानि परिशुष्यति पुष्पाणि निपतन्ति च। किन्तु वाक्यं परेशस्यानन्तकालं वितिष्ठते। तदेव च वाक्यं सुसंवादेन युष्माकम् अन्तिके प्रकाशितं।
अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।
तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति।
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।