प्रथमं सर्वस्मात् पूर्वं, भवतः हृदये पवित्रात्मा नः आगमनं स्वीकर्तव्यम्। तस्य पवित्रतायाः सौन्दर्यं, तस्य उपस्थितिं च भजत। सर्वे मिलित्वा, एकचित्ताः भूत्वा, ईश्वराय कृतज्ञतां प्रदर्शयन्तु, हस्तौ स्वर्गं प्रति उन्नीय। ईश्वरस्य दया, अनुग्रहः च अस्माकं जीवने स्मर्यमाणः तस्य दिव्यसान्निध्यं अनुभवितुं द्वारम् उद्घाटयति। अत्रैव चमत्काराः, दिव्याः घटनाः च घटन्ते। यत्र तस्य उपस्थितिः पूज्यते, तत्र सः उपस्थितः भवति।
भवतः जीवनस्य प्रभुं, त्राणकर्तां च ईश्वरं स्वीकृत्य तस्मै यशः ददतु। सः सत्यः न्याय्यः च अस्ति, तस्य दया प्रतिदिनं नवीना भवति। पवित्रग्रन्थे, गिरिजाघरे प्रार्थना आरभितुं सुन्दराणि वचनानि सन्ति। अधो लिखितानि वचनानि भजनसभा आरम्भाय उत्तमानि सन्ति। (सन्दर्भग्रन्थः - पवित्रबाइबल्)
अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति ख्रीष्टयीशुना समिते र्मध्ये सर्व्वेषु युगेषु तस्य धन्यवादो भवतु। इति।
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
इत्यनेन किं करणीयं? अहम् आत्मना प्रार्थयिष्ये बुद्ध्यापि प्रार्थयिष्ये; अपरं आत्मना गास्यामि बुद्ध्यापि गास्यामि।
अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।
अपरं स्वर्गमर्त्त्यपातालसागरेषु यानि विद्यन्ते तेषां सर्व्वेषां सृष्टवस्तूनां वागियं मया श्रुता, प्रशंसां गौरवं शौर्य्यम् आधिपत्यं सनातनं। सिंहसनोपविष्टश्च मेषवत्सश्च गच्छतां।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
अनादिरक्षयोऽदृश्यो राजा योऽद्वितीयः सर्व्वज्ञ ईश्वरस्तस्य गौरवं महिमा चानन्तकालं यावद् भूयात्। आमेन्।
सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।
यतः प्रत्ययस्य समपरिमाणम् ईश्वरदत्तं पुण्यं तत्सुसंवादे प्रकाशते। तदधि धर्म्मपुस्तकेपि लिखितमिदं "पुण्यवान् जनो विश्वासेन जीविष्यति"।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।
प्रभो र्योग्यं सर्व्वथा सन्तोषजनकञ्चाचारं कुर्य्यातार्थत ईश्वरज्ञाने वर्द्धमानाः सर्व्वसत्कर्म्मरूपं फलं फलेत,
विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।
विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः। फलतो वयं यदा रिपव आस्म तदेश्वरस्य पुत्रस्य मरणेन तेन सार्द्धं यद्यस्माकं मेलनं जातं तर्हि मेलनप्राप्ताः सन्तोऽवश्यं तस्य जीवनेन रक्षां लप्स्यामहे। तत् केवलं नहि किन्तु येन मेलनम् अलभामहि तेनास्माकं प्रभुणा यीशुख्रीष्टेन साम्प्रतम् ईश्वरे समानन्दामश्च। तथा सति, एकेन मानुषेण पापं पापेन च मरणं जगतीं प्राविशत् अपरं सर्व्वेषां पापित्वात् सर्व्वे मानुषा मृते र्निघ्ना अभवत्। यतो व्यवस्थादानसमयं यावत् जगति पापम् आसीत् किन्तु यत्र व्यवस्था न विद्यते तत्र पापस्यापि गणना न विद्यते। तथाप्यादमा यादृशं पापं कृतं तादृशं पापं यै र्नाकारि आदमम् आरभ्य मूसां यावत् तेषामप्युपरि मृत्यू राजत्वम् अकरोत् स आदम् भाव्यादमो निदर्शनमेवास्ते। किन्तु पापकर्म्मणो यादृशो भावस्तादृग् दानकर्म्मणो भावो न भवति यत एकस्य जनस्यापराधेन यदि बहूनां मरणम् अघटत तथापीश्वरानुग्रहस्तदनुग्रहमूलकं दानञ्चैकेन जनेनार्थाद् यीशुना ख्रीष्टेन बहुषु बाहुल्यातिबाहुल्येन फलति। अपरम् एकस्य जनस्य पापकर्म्म यादृक् फलयुक्तं दानकर्म्म तादृक् न भवति यतो विचारकर्म्मैकं पापम् आरभ्य दण्डजनकं बभूव, किन्तु दानकर्म्म बहुपापान्यारभ्य पुण्यजनकं बभूव। यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति। एकोऽपराधो यद्वत् सर्व्वमानवानां दण्डगामी मार्गो ऽभवत् तद्वद् एकं पुण्यदानं सर्व्वमानवानां जीवनयुक्तपुण्यगामी मार्ग एव। अपरम् एकस्य जनस्याज्ञालङ्घनाद् यथा बहवो ऽपराधिनो जातास्तद्वद् एकस्याज्ञाचरणाद् बहवः सपुण्यीकृता भवन्ति। अपरं वयं यस्मिन् अनुग्रहाश्रये तिष्ठामस्तन्मध्यं विश्वासमार्गेण तेनैवानीता वयम् ईश्वरीयविभवप्राप्तिप्रत्याशया समानन्दामः।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
ततस्तस्मै यीशुनाम्ने स्वर्गमर्त्यपातालस्थितैः सर्व्वै र्जानुपातः कर्त्तव्यः, तातस्थेश्वरस्य महिम्ने च यीशुख्रीष्टः प्रभुरिति जिह्वाभिः स्वीकर्त्तव्यं।
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि। अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्। यतो मम युगम् अनायासं मम भारश्च लघुः।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम। यतोऽस्माकम् ईश्वरः संहारको वह्निः।
सर्व्वदानन्दत। निरन्तरं प्रार्थनां कुरुध्वं। सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।
अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्
अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।
यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति। अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति। येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।
अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः। परमेश्वरस्य सङ्कल्पं को ज्ञातवान्? तस्य मन्त्री वा कोऽभवत्? को वा तस्योपकारी भृत्वा तत्कृते तेन प्रत्युपकर्त्तव्यः? यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति।
सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्। परमेश्वरो दिने दिने परित्राणभाजनै र्मण्डलीम् अवर्द्धयत्।
वयं ख्रीष्टस्य प्रेम्ना समाकृष्यामहे यतः सर्व्वेषां विनिमयेन यद्येको जनोऽम्रियत तर्हि ते सर्व्वे मृता इत्यास्माभि र्बुध्यते। अपरञ्च ये जीवन्ति ते यत् स्वार्थं न जीवन्ति किन्तु तेषां कृते यो जनो मृतः पुनरुत्थापितश्च तमुद्दिश्य यत् जीवन्ति तदर्थमेव स सर्व्वेषां कृते मृतवान्।
सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्; यूयञ्च सर्व्व एकचित्ता भूत्वा मुखैकेनेवास्मत्प्रभुयीशुख्रीष्टस्य पितुरीश्वरस्य गुणान् कीर्त्तयेत।