ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?
एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं।
अपरं पिता यथा मदन्तिकं स्वर्गीयदूतानां द्वादशवाहिनीतोऽधिकं प्रहिणुयात् मया तमुद्दिश्येदानीमेव तथा प्रार्थयितुं न शक्यते, त्वया किमित्थं ज्ञायते?
यतो यस्येश्वरस्य लोकोऽहं यञ्चाहं परिचरामि तदीय एको दूतो ह्यो रात्रौ ममान्तिके तिष्ठन् कथितवान्, हे पौल मा भैषीः कैसरस्य सम्मुखे त्वयोपस्थातव्यं; तवैतान् सङ्गिनो लोकान् ईश्वरस्तुभ्यं दत्तवान्।
सति सिखरियो यस्यां वेद्यां धूपं ज्वालयति तद्दक्षिणपार्श्वे परमेश्वरस्य दूत एक उपस्थितो दर्शनं ददौ। तं दृष्ट्वा सिखरिय उद्विविजे शशङ्के च। तदा स दूतस्तं बभाषे हे सिखरिय मा भैस्तव प्रार्थना ग्राह्या जाता तव भार्य्या इलीशेवा पुत्रं प्रसोष्यते तस्य नाम योेहन् इति करिष्यसि।
अपरञ्च तस्या गर्ब्भस्य षष्ठे मासे जाते गालील्प्रदेशीयनासरत्पुरे दायूदो वंशीयाय यूषफ्नाम्ने पुरुषाय या मरियम्नामकुमारी वाग्दत्तासीत् तस्याः समीपं जिब्रायेल् दूत ईश्वरेण प्रहितः। स गत्वा जगाद हे ईश्वरानुगृहीतकन्ये तव शुभं भूयात् प्रभुः परमेश्वरस्तव सहायोस्ति नारीणां मध्ये त्वमेव धन्या।
ततः परम् ईश्वरस्य दूतः फिलिपम् इत्यादिशत्, त्वमुत्थाय दक्षिणस्यां दिशि यो मार्गो प्रान्तरस्य मध्येन यिरूशालमो ऽसानगरं याति तं मार्गं गच्छ।
यत् प्रकाशितं वाक्यम् ईश्वरः स्वदासानां निकटं शीघ्रमुपस्थास्यन्तीनां घटनानां दर्शनार्थं यीशुख्रीष्टे समर्पितवान् तत् स स्वीयदूतं प्रेष्य निजसेवकं योहनं ज्ञापितवान्।
अपरं निरीक्षमाणेन मया सिंहासनस्य प्राणिचतुष्टयस्य प्राचीनवर्गस्य च परितो बहूनां दूतानां रवः श्रुतः, तेषां संख्या अयुतायुतानि सहस्रसहस्त्राणि च। तैरुच्चैरिदम् उक्तं, पराक्रमं धनं ज्ञानं शक्तिं गौरवमादरं। प्रशंसाञ्चार्हति प्राप्तुं छेदितो मेषशावकः॥
एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय। तदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्, हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्। अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूायय; ततः स आगत्य त्वाम् उपदेक्ष्यति। इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः। तदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती सन् यस्य कस्यचिद् देशस्य यो लोकास्तस्माद्भीत्वा सत्कर्म्म करोति स तस्य ग्राह्यो भवति, एतस्य निश्चयम् उपलब्धवानहम्। सर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः। यतो योहना मज्जने प्रचारिते सति स गालीलदेशमारभ्य समस्तयिहूदीयदेशं व्याप्नोत्; फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्; वयञ्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः, किन्तु स तं दृष्ट्वा भीतोऽकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।
इत्थं तौ प्रथमां द्वितीयाञ्च कारां लङ्घित्वा येन लौहनिर्म्मितद्वारेण नगरं गम्यते तत्समीपं प्राप्नुतां; ततस्तस्य कवाटं स्वयं मुक्तमभवत् ततस्तौ तत्स्थानाद् बहि र्भूत्वा मार्गैकस्य सीमां यावद् गतौ; ततोऽकस्मात् स दूतः पितरं त्यक्तवान्। तदा स चेतनां प्राप्य कथितवान् निजदूतं प्रहित्य परमेश्वरो हेरोदो हस्ताद् यिहूदीयलोकानां सर्व्वाशायाश्च मां समुद्धृतवान् इत्यहं निश्चयं ज्ञातवान्।
तदा महान् भूकम्पोऽभवत्; परमेश्वरीयदूतः स्वर्गादवरुह्य श्मशानद्वारात् पाषाणमपसार्य्य तदुपर्य्युपविवेश। पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति। तद्वदनं विद्युद्वत् तेजोमयं वसनं हिमशुभ्रञ्च।
तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।
अनन्तरम् आकाशमध्येनोड्डीयमानो ऽपर एको दूतो मया दृष्टः सो ऽनन्तकालीयं सुसंवादं धारयति स च सुसंवादः सर्व्वजातीयान् सर्व्ववंशीयान् सर्व्वभाषावादिनः सर्व्वदेशीयांश्च पृथिवीनिवासिनः प्रति तेन घोषितव्यः।
ततः परं स्वर्गे संग्राम उपापिष्ठत् मीखायेलस्तस्य दूताश्च तेन नागेन सहायुध्यन् तथा स नागस्तस्य दूताश्च संग्रामम् अकुर्व्वन्, किन्तु प्रभवितुं नाशक्नुवन् यतः स्वर्गे तेषां स्थानं पुन र्नाविद्यत। अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।
अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य
योहनहम् एतानि श्रुतवान् दृष्टवांश्चास्मि श्रुत्वा दृष्ट्वा च तद्दर्शकदूतस्य प्रणामार्थं तच्चरणयोरन्तिके ऽपतं। ततः स माम् अवदत् सावधानो भव मैवं कृरु, त्वया तव भ्रातृभि र्भविष्यद्वादिभिरेतद्ग्रन्थस्थवाक्यपालनकारिभिश्च सहदासो ऽहं। त्वम् ईश्वरं प्रणम।
ततः परं स्वर्गाद् अवरोहन् एको दूतो मया दृष्टस्तस्य करे रमातलस्य कुञ्जिका महाशृङ्खलञ्चैकं तिष्ठतः।
ततः सर्व्वे दूताः सिंहासनस्य प्राचीनवर्गस्य प्राणिचतुष्टयस्य च परितस्तिष्ठन्तः सिंहासनस्यान्तिके न्यूब्जीभूयेश्वरं प्रणम्य वदन्ति,
स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।
पत यतो लिपिरास्ते, आज्ञापयिष्यति स्वीयान् दूतान् स परमेश्वरः। रक्षितुं सर्व्वमार्गे त्वां तेन त्वच्चरणे यथा। न लगेत् प्रस्तराघातस्त्वां धरिष्यन्ति ते तथा।
व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ इत्युक्त्वा स हस्तपादान् दर्शयामास। तेऽसम्भवं ज्ञात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं किञ्चिदस्ति? ततस्ते कियद्दग्धमत्स्यं मधु च ददुः स तदादाय तेषां साक्षाद् बुभुजे कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्। अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्, ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति; तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः, एषु सर्व्वेषु यूयं साक्षिणः। अपरञ्च पश्यत पित्रा यत् प्रतिज्ञातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत। तस्मात्ताः शङ्कायुक्ता भूमावधोमुख्यस्यस्थुः। तदा तौ ता ऊचतु र्मृतानां मध्ये जीवन्तं कुतो मृगयथ?
दिव्यदतगणेभ्यः स किञ्चिन् न्यूनः कृतस्त्वया। तेजोगौरवरूपेण किरीटेन विभूषितः। सृष्टं यत् ते कराभ्यां स तत्प्रभुत्वे नियोजितः।
ततः परम् अन्य एको दूत आगतः स स्वर्णधूपाधारं गृहीत्वा वेदिमुपातिष्ठत् स च यत् सिंहासनस्यान्तिके स्थितायाः सुवर्णवेद्या उपरि सर्व्वेषां पवित्रलोकानां प्रार्थनासु धूपान् योजयेत् तदर्थं प्रचुरधूपास्तस्मै दत्ताः। ततस्तस्य दूतस्य करात् पवित्रलोकानां प्रार्थनाभिः संयुक्तधूपानां धूम ईश्वरस्य समक्षं उदतिष्ठत्।
किन्तु प्रधानदिव्यदूतो मीखायेलो यदा मूससो देहे शयतानेन विवदमानः समभाषत तदा तिस्मन् निन्दारूपं दण्डं समर्पयितुं साहसं न कृत्वाकथयत् प्रभुस्त्वां भर्त्सयतां।
तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।
अपरं जगति स्वकीयाद्वितीयपुत्रस्य पुनरानयनकाले तेनोक्तं, यथा, "ईश्वरस्य सकलै र्दूतैरेष एव प्रणम्यतां।"
ततो दूतोऽकथयत् पवित्र आत्मा त्वामाश्रायिष्यति तथा सर्व्वश्रेष्ठस्य शक्तिस्तवोपरि छायां करिष्यति ततो हेतोस्तव गर्ब्भाद् यः पवित्रबालको जनिष्यते स ईश्वरपुत्र इति ख्यातिं प्राप्स्यति। अपरञ्च पश्य तव ज्ञातिरिलीशेवा यां सर्व्वे बन्ध्यामवदन् इदानीं सा वार्द्धक्ये सन्तानमेकं गर्ब्भेऽधारयत् तस्य षष्ठमासोभूत्। किमपि कर्म्म नासाध्यम् ईश्वरस्य।
किन्तु साम्प्रतं युष्मान् विनीय ब्रवीम्यहं, यूयं न क्षुभ्यत युष्माकम् एकस्यापि प्राणिनो हानि र्न भविष्यति, केवलस्य पोतस्य हानि र्भविष्यति। यतो यस्येश्वरस्य लोकोऽहं यञ्चाहं परिचरामि तदीय एको दूतो ह्यो रात्रौ ममान्तिके तिष्ठन् कथितवान्, हे पौल मा भैषीः कैसरस्य सम्मुखे त्वयोपस्थातव्यं; तवैतान् सङ्गिनो लोकान् ईश्वरस्तुभ्यं दत्तवान्।
दूतान् अधि तेनेदम् उक्तं, यथा, "स करोति निजान् दूतान् गन्धवाहस्वरूपकान्। वह्निशिखास्वरूपांश्च करोति निजसेवकान्॥"
यतो यस्येश्वरस्य लोकोऽहं यञ्चाहं परिचरामि तदीय एको दूतो ह्यो रात्रौ ममान्तिके तिष्ठन् कथितवान्,
कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः।
अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।
एतादृशभयङ्करात् मृत्यो र्यो ऽस्मान् अत्रायतेदानीमपि त्रायते स इतः परमप्यस्मान् त्रास्यते ऽस्माकम् एतादृशी प्रत्याशा विद्यते।
हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।
यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।
किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।
किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।
लोचने परमेशस्योन्मीलिते धार्म्मिकान् प्रति। प्रार्थनायाः कृते तेषाः तच्छ्रोत्रे सुगमे सदा। क्रोधास्यञ्च परेशस्य कदाचारिषु वर्त्तते।