प्राणिनां मैथुनं ईश्वरेच्छया सृष्टं गर्भधारणार्थं दम्पत्योः समीपतायै च, न केवलं शारीरिकायै अपि तु मानसिकायै आध्यात्मिकायै च। विवाहबन्धनं विना मैथुनं व्यभिचारः कथ्यते। "व्यभिचारात् पलायत। मानवः यत् किञ्चिद् अन्यत् पापं करोति तत् शरीरस्य बहिः अस्ति; किन्तु यः व्यभिचारं करोति सः स्वशरीरस्य विरुद्धं पापं करोति" (१ कुरुन्थीयाः ६:१८)। व्यभिचारः पापत्वेन दृश्यते, न च भगवते रोचते। भगवान् इच्छति यत् त्वं तस्य शिक्षाः अनुसरेः पूर्णं जीवनं च उपभुञ्जीथाः, शारीरिकं मानसिकं च। विवाहबन्धनात् बहिः मैथुनस्य घोराणि फलानि भवन्ति, मृत्युपर्यन्तमपि। यदि त्वं एतत् पापं कुर्वन् आसीः, तर्हि अपि अधुना एतस्मात् विरक्तः भूत्वा येशोः क्षमां याचयितुं शक्नोषि। वयं श्रद्धालवः, अस्माभिः अवगन्तव्यं यत् मानवी कामवासना ईश्वरेण सृष्टा गर्भधारणार्थं दम्पत्योः घनिष्ठतायै, न केवलं शारीरिकायै अपि तु भावनात्मक-आध्यात्मिक-समीपतायै च।
अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः
ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।
यतोऽन्तःकरणात् कुचिन्ता बधः पारदारिकता वेश्यागमनं चैर्य्यं मिथ्यासाक्ष्यम् ईश्वरनिन्दा चैतानि सर्व्वाणि निर्य्यान्ति।
अपरं युष्माकं मध्ये व्यभिचारो विद्यते स च व्यभिचारस्तादृशो यद् देवपूजकानां मध्येऽपि तत्तुल्यो न विद्यते फलतो युष्माकमेको जनो विमातृगमनं कृरुत इति वार्त्ता सर्व्वत्र व्याप्ता।
वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां।
अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्याङ्गानि युष्माभि र्निहन्यन्तां। यत एतेभ्यः कर्म्मभ्य आज्ञालङ्घिनो लोकान् प्रतीश्वरस्य क्रोधो वर्त्तते।
यतोऽन्तराद् अर्थान् मानवानां मनोभ्यः कुचिन्ता परस्त्रीवेश्यागमनं नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।
इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः;
किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।
अतो युष्मानहं वदामि, व्यभिचारं विना यो निजजायां त्यजेत् अन्याञ्च विवहेत्, स परदारान् गच्छति; यश्च त्यक्तां नारीं विवहति सोपि परदारेषु रमते।
किन्त्वहं युष्मान् व्याहरामि, व्यभिचारदोषे न जाते यदि कश्चिन् निजजायां परित्यजति, तर्हि स तां व्यभिचारयति; यश्च तां त्यक्तां स्त्रियं विवहति, सोपि व्यभिचरति।
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।
विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।
ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा
ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत। युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु, ये च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु।
मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते।
तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।
यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां।
किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।
उदराय भक्ष्याणि भक्ष्येभ्यश्चोदरं, किन्तु भक्ष्योदरे ईश्वरेण नाशयिष्येते; अपरं देहो न व्यभिचाराय किन्तु प्रभवे प्रभुश्च देहाय।
कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।
यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।
किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु। यो जनो यस्यामवस्थायामाह्वायि स तस्यामेवावतिष्ठतां। दासः सन् त्वं किमाहूतोऽसि? तन्मा चिन्तय, तथाच यदि स्वतन्त्रो भवितुं शक्नुयास्तर्हि तदेव वृणु। यतः प्रभुनाहूतो यो दासः स प्रभो र्मोचितजनः। तद्वद् तेनाहूतः स्वतन्त्रो जनोऽपि ख्रीष्टस्य दास एव। यूयं मूल्येन क्रीता अतो हेतो र्मानवानां दासा मा भवत। हे भ्रातरो यस्यामवस्थायां यस्याह्वानमभवत् तया स ईश्वरस्य साक्षात् तिष्ठतु। अपरम् अकृतविवाहान् जनान् प्रति प्रभोः कोऽप्यादेशो मया न लब्धः किन्तु प्रभोरनुकम्पया विश्वास्यो भूतोऽहं यद् भद्रं मन्ये तद् वदामि। वर्त्तमानात् क्लेशसमयात् मनुष्यस्यानूढत्वं भद्रमिति मया बुध्यते। त्वं किं योषिति निबद्धोऽसि तर्हि मोचनं प्राप्तुं मा यतस्व। किं वा योषितो मुक्तोऽसि? तर्हि जायां मा गवेषय। विवाहं कुर्व्वता त्वया किमपि नापाराध्यते तद्वद् व्यूह्यमानया युवत्यापि किमपि नापराध्यते तथाच तादृशौ द्वौ जनौ शारीरिकं क्लेशं लप्स्येते किन्तु युष्मान् प्रति मम करुणा विद्यते। हे भ्रातरोऽहमिदं ब्रवीमि, इतः परं समयोऽतीव संक्षिप्तः, भार्य्यायै भर्त्रा यद्यद् वितरणीयं तद् वितीर्य्यतां तद्वद् भर्त्रेऽपि भार्य्यया वितरणीयं वितीर्य्यतां। अतः कृतदारैरकृतदारैरिव रुदद्भिश्चारुदद्भिरिव सानन्दैश्च निरानन्दैरिव क्रेतृभिश्चाभागिभिरिवाचरितव्यं ये च संसारे चरन्ति तै र्नातिचरितव्यं यत इहलेाकस्य कौतुको विचलति। किन्तु यूयं यन्निश्चिन्ता भवेतेति मम वाञ्छा। अकृतविवाहो जनो यथा प्रभुं परितोषयेत् तथा प्रभुं चिन्तयति, किन्तु कृतविवाहो जनो यथा भार्य्यां परितोषयेत् तथा संसारं चिन्तयति। तद्वद् ऊढयोषितो ऽनूढा विशिष्यते। यानूढा सा यथा कायमनसोः पवित्रा भवेत् तथा प्रभुं चिन्तयति या चोढा सा यथा भर्त्तारं परितोषयेत् तथा संसारं चिन्तयति। अहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते। कस्यचित् कन्यायां यौवनप्राप्तायां यदि स तस्या अनूढत्वं निन्दनीयं विवाहश्च साधयितव्य इति मन्यते तर्हि यथाभिलाषं करोतु, एतेन किमपि नापरात्स्यति विवाहः क्रियतां। किन्तु दुःखेनाक्लिष्टः कश्चित् पिता यदि स्थिरमनोगतः स्वमनोऽभिलाषसाधने समर्थश्च स्यात् मम कन्या मया रक्षितव्येति मनसि निश्चिनोति च तर्हि स भद्रं कर्म्म करोति। अतो यो विवाहं करोति स भद्रं कर्म्म करोति यश्च विवाहं न करोति स भद्रतरं कर्म्म करोति। यावत्कालं पति र्जीवति तावद् भार्य्या व्यवस्थया निबद्धा तिष्ठति किन्तु पत्यौ महानिद्रां गते सा मुक्तीभूय यमभिलषति तेन सह तस्या विवाहो भवितुं शक्नोति, किन्त्वेतत् केवलं प्रभुभक्तानां मध्ये। भार्य्यायाः स्वदेहे स्वत्वं नास्ति भर्त्तुरेव, तद्वद् भर्त्तुरपि स्वदेहे स्वत्वं नास्ति भार्य्याया एव। तथाच सा यदि निष्पतिका तिष्ठति तर्हि तस्याः क्षेमं भविष्यतीति मम भावः। अपरम् ईश्वरस्यात्मा ममाप्यन्त र्विद्यत इति मया बुध्यते। उपोषणप्रार्थनयोः सेवनार्थम् एकमन्त्रणानां युष्माकं कियत्कालं यावद् या पृथक्स्थिति र्भवति तदन्यो विच्छेदो युष्मन्मध्ये न भवतु, ततः परम् इन्द्रियाणाम् अधैर्य्यात् शयतान् यद् युष्मान् परीक्षां न नयेत् तदर्थं पुनरेकत्र मिलत।
बहुतरा यामिनी गता प्रभातं सन्निधिं प्राप्तं तस्मात् तामसीयाः क्रियाः परित्यज्यास्माभि र्वासरीया सज्जा परिधातव्या। अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः। यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।
अपरं त्वं मा व्यभिचर, यदेतद् वचनं पूर्व्वकालीनलोकेभ्यः कथितमासीत्, तद् यूयं श्रुतवन्तः; किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।
तदा स पृष्टवान्, काः का आज्ञाः? ततो यीशुः कथितवान्, नरं मा हन्याः, परदारान् मा गच्छेः, मा चोरयेः, मृषासाक्ष्यं मा दद्याः,
यतोऽन्तराद् अर्थान् मानवानां मनोभ्यः कुचिन्ता परस्त्रीवेश्यागमनं नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति। एतानि सर्व्वाणि दुरितान्यन्तरादेत्य नरममेध्यं कुर्व्वन्ति।
ततः सोवदत् कश्चिद् यदि स्वभार्य्यां त्यक्तवान्याम् उद्वहति तर्हि स स्वभार्य्यायाः प्रातिकूल्येन व्यभिचारी भवति। काचिन्नारी यदि स्वपतिं हित्वान्यपुंसा विवाहिता भवति तर्हि सापि व्यभिचारिणी भवति।
यः कश्चित् स्वीयां भार्य्यां विहाय स्त्रियमन्यां विवहति स परदारान् गच्छति, यश्च ता त्यक्तां नारीं विवहति सोपि परदारान गच्छति।
तदा अध्यापकाः फिरूशिनञ्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन् तदा तस्यैतानि वाक्यानि श्रुत्वा बहुवस्तास्मिन् व्यश्वसन्। ये यिहूदीया व्यश्वसन् यीशुस्तेभ्योऽकथयत् मम वाक्ये यदि यूयम् आस्थां कुरुथ तर्हि मम शिष्या भूत्वा सत्यत्वं ज्ञास्यथ ततः सत्यतया युष्माकं मोक्षो भविष्यति। तदा ते प्रत्यवादिषुः वयम् इब्राहीमो वंशः कदापि कस्यापि दासा न जातास्तर्हि युष्माकं मुक्त्ति र्भविष्यतीति वाक्यं कथं ब्रवीषि? तदा यीशुः प्रत्यवदद् युष्मानहं यथार्थतरं वदामि यः पापं करोति स पापस्य दासः। दासश्च निरन्तरं निवेशने न तिष्ठति किन्तु पुत्रो निरन्तरं तिष्ठति। अतः पुत्रो यदि युष्मान् मोचयति तर्हि नितान्तमेव मुक्त्ता भविष्यथ। युयम् इब्राहीमो वंश इत्यहं जानामि किन्तु मम कथा युष्माकम् अन्तःकरणेषु स्थानं न प्राप्नुवन्ति तस्माद्धेतो र्मां हन्तुम् ईहध्वे। अहं स्वपितुः समीपे यदपश्यं तदेव कथयामि तथा यूयमपि स्वपितुः समीपे यदपश्यत तदेव कुरुध्वे। तदा ते प्रत्यवोचन् इब्राहीम् अस्माकं पिता ततो यीशुरकथयद् यदि यूयम् इब्राहीमः सन्ताना अभविष्यत तर्हि इब्राहीम आचारणवद् आचरिष्यत। हे गुरो योषितम् इमां व्यभिचारकर्म्म कुर्व्वाणां लोका धृतवन्तः। ईश्वरस्य मुखात् सत्यं वाक्यं श्रुत्वा युष्मान् ज्ञापयामि योहं तं मां हन्तुं चेष्टध्वे इब्राहीम् एतादृशं कर्म्म न चकार। यूयं स्वस्वपितुः कर्म्माणि कुरुथ तदा तैरुक्त्तं न वयं जारजाता अस्माकम् एकएव पितास्ति स एवेश्वरः ततो यीशुना कथितम् ईश्वरो यदि युष्माकं तातोभविष्यत् तर्हि यूयं मयि प्रेमाकरिष्यत यतोहम् ईश्वरान्निर्गत्यागतोस्मि स्वतो नागतोहं स मां प्राहिणोत्। यूयं मम वाक्यमिदं न बुध्यध्वे कुतः? यतो यूयं ममोपदेशं सोढुं न शक्नुथ। यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च। अहं तथ्यवाक्यं वदामि कारणादस्माद् यूयं मां न प्रतीथ। मयि पापमस्तीति प्रमाणं युष्माकं को दातुं शक्नोति? यद्यहं तथ्यवाक्यं वदामि तर्हि कुतो मां न प्रतिथ? यः कश्चन ईश्वरीयो लोकः स ईश्वरीयकथायां मनो निधत्ते यूयम् ईश्वरीयलोका न भवथ तन्निदानात् तत्र न मनांसि निधद्वे। तदा यिहूदीयाः प्रत्यवादिषुः त्वमेकः शोमिरोणीयो भूतग्रस्तश्च वयं किमिदं भद्रं नावादिष्म? ततो यीशुः प्रत्यवादीत् नाहं भूतग्रस्तः किन्तु निजतातं सम्मन्ये तस्माद् यूयं माम् अपमन्यध्वे। एतादृशलोकाः पाषाणाघातेन हन्तव्या इति विधिर्मूसाव्यवस्थाग्रन्थे लिखितोस्ति किन्तु भवान् किमादिशति?
देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्यञ्च एतानि परित्यक्तुं लिखामः।
अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्।
भिन्नदेशीयानां विश्वासिलोकानां निकटे वयं पत्रं लिखित्वेत्थं स्थिरीकृतवन्तः, देवप्रसादभोजनं रक्तं गलपीडनमारितप्राणिभोजनं व्यभिचारश्चैतेभ्यः स्वरक्षणव्यतिरेकेण तेषामन्यविधिपालनं करणीयं न।
ईश्वरेण तेषु क्वभिलाषे समर्पितेषु तेषां योषितः स्वाभाविकाचरणम् अपहाय विपरीतकृत्ये प्रावर्त्तन्त; तथा पुरुषा अपि स्वाभाविकयोषित्सङ्गमं विहाय परस्परं कामकृशानुना दग्धाः सन्तः पुमांसः पुंभिः साकं कुकृत्ये समासज्य निजनिजभ्रान्तेः समुचितं फलम् अलभन्त।
यावत्कालं पति र्जीवति तावत्कालम् ऊढा भार्य्या व्यवस्थया तस्मिन् बद्धा तिष्ठति किन्तु यदि पति र्म्रियते तर्हि सा नारी पत्यु र्व्यवस्थातो मुच्यते। अतएव यद्यत् कर्म्म कर्त्तुं ममेच्छा न भवति तद् यदि करोमि तर्हि तत् मया न क्रियते, ममान्तर्वर्त्तिना पापेनैव क्रियते। भद्रं कर्त्तुम् इच्छुकं मां यो ऽभद्रं कर्त्तुं प्रवर्त्तयति तादृशं स्वभावमेकं मयि पश्यामि। अहम् आन्तरिकपुरुषेणेश्वरव्यवस्थायां सन्तुष्ट आसे; किन्तु तद्विपरीतं युध्यन्तं तदन्यमेकं स्वभावं मदीयाङ्गस्थितं प्रपश्यामि, स मदीयाङ्गस्थितपापस्वभावस्यायत्तं मां कर्त्तुं चेष्टते। हा हा योऽहं दुर्भाग्यो मनुजस्तं माम् एतस्मान् मृताच्छरीरात् को निस्तारयिष्यति? अस्माकं प्रभुणा यीशुख्रीष्टेन निस्तारयितारम् ईश्वरं धन्यं वदामि। अतएव शरीरेण पापव्यवस्थाया मनसा तु ईश्वरव्यवस्थायाः सेवनं करोमि। एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूढापि व्यभिचारिणी न भवति।
अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः। यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।
मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते। युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते? जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः? यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।
किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु।
किञ्च यदि तैरिन्द्रियाणि नियन्तुं न शक्यन्ते तर्हि विवाहः क्रियतां यतः कामदहनाद् व्यूढत्वं भद्रं।
यावत्कालं पति र्जीवति तावद् भार्य्या व्यवस्थया निबद्धा तिष्ठति किन्तु पत्यौ महानिद्रां गते सा मुक्तीभूय यमभिलषति तेन सह तस्या विवाहो भवितुं शक्नोति, किन्त्वेतत् केवलं प्रभुभक्तानां मध्ये।
अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति? बिलीयालदेवेन साकं ख्रीष्टस्य वा का सन्धिः? अविश्वासिना सार्द्धं वा विश्वासिलोकस्यांशः कः?
अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन
अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु। यत इतः पूर्व्वम् अपि काश्चित् शयतानस्य पश्चाद्गामिन्यो जाताः।
चरमदिनेषु क्लेशजनकाः समया उपस्थास्यन्तीति जानीहि। ममोपदेशः शिष्टताभिप्रायो विश्वासो र्धर्य्यं प्रेम सहिष्णुतोपद्रवः क्लेशा आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्। परन्तु यावन्तो लोकाः ख्रीष्टेन यीशुनेश्वरभक्तिम् आचरितुम् इच्छन्ति तेषां सर्व्वेषाम् उपद्रवो भविष्यति। अपरं पापिष्ठाः खलाश्च लोका भ्राम्यन्तो भ्रमयन्तश्चोत्तरोत्तरं दुष्टत्वेन वर्द्धिष्यन्ते। किन्तु त्वं यद् यद् अशिक्षथाः, यच्च त्वयि समर्पितम् अभूत् तस्मिन् अवतिष्ठ, यतः कस्मात् शिक्षां प्राप्तोऽसि तद् वेत्सि; यानि च धर्म्मशास्त्राणि ख्रीष्टे यीशौ विश्वासेन परित्राणप्राप्तये त्वां ज्ञानिनं कर्त्तुं शक्नुवन्ति तानि त्वं शैशवकालाद् अवगतोऽसि। तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति तेन चेश्वरस्य लोको निपुणः सर्व्वस्मै सत्कर्म्मणे सुसज्जश्च भवति। यतस्तात्कालिका लोका आत्मप्रेमिणो ऽर्थप्रेमिण आत्मश्लाघिनो ऽभिमानिनो निन्दकाः पित्रोरनाज्ञाग्राहिणः कृतघ्ना अपवित्राः प्रीतिवर्जिता असन्धेया मृषापवादिनो ऽजितेन्द्रियाः प्रचण्डा भद्रद्वेषिणो विश्वासघातका दुःसाहसिनो दर्पध्माता ईश्वराप्रेमिणः किन्तु सुखप्रेमिणो भक्तवेशाः किन्त्वस्वीकृतभक्तिगुणा भविष्यन्ति; एतादृशानां लोकानां संमर्गं परित्यज।
स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः,
किन्तु यः कश्चित् स्वीयमनोवाञ्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति। तस्मात् सा मनोवाञ्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति।
हे प्रियतमाः, यूयं प्रवासिनो विदेशिनश्च लोका इव मनसः प्रातिकूल्येन योधिभ्यः शारीरिकसुखाभिलाषेभ्यो निवर्त्तध्वम् इत्यहं विनये।
आयुषो यः समयो व्यतीतस्तस्मिन् युष्माभि र्यद् देवपूजकानाम् इच्छासाधनं कामकुत्सिताभिलाषमद्यपानरङ्गरसमत्तताघृणार्हदेवपूजाचरणञ्चाकारि तेन बाहुल्यं।
विशेषतो ये ऽमेध्याभिलाषात् शारीरिकसुखम् अनुगच्छन्ति कर्तृत्वपदानि चावजानन्ति तानेव (रोद्धुं पारयति।) ते दुःसाहसिनः प्रगल्भाश्च।
ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे ऽपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति। तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः।
यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।
यस्माद् एतद्रूपदण्डप्राप्तये पूर्व्वं लिखिताः केचिज्जना अस्मान् उपसृप्तवन्तः, ते ऽधार्म्मिकलोका अस्माकम् ईश्वरस्यानुग्रहं ध्वजीकृत्य लम्पटताम् आचरन्ति, अद्वितीयो ऽधिपति र्यो ऽस्माकं प्रभु र्यीशुख्रीष्टस्तं नाङ्गीकुर्व्वन्ति।
अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।
तथापि तव विरुद्धं मम किञ्चिद् वक्तव्यं यतो देवप्रसादादनाय परदारगमनाय चेस्रायेलः सन्तानानां सम्मुख उन्माथं स्थापयितुं बालाक् येनाशिक्ष्यत तस्य बिलियमः शिक्षावलम्बिनस्तव केचित् जनास्तत्र सन्ति।
तथापि तव विरुद्धं मया किञ्चिद् वक्तव्यं यतो या ईषेबल्नामिका योषित् स्वां भविष्यद्वादिनीं मन्यते वेश्यागमनाय देवप्रसादाशनाय च मम दासान् शिक्षयति भ्रामयति च सा त्वया न निवार्य्यते। अहं मनःपरिवर्त्तनाय तस्यै समयं दत्तवान् किन्तु सा स्वीयवेश्याक्रियातो मनःपरिवर्त्तयितुं नाभिलषति। पश्याहं तां शय्यायां निक्षेप्स्यामि, ये तया सार्द्धं व्यभिचारं कुर्व्वन्ति ते यदि स्वक्रियाभ्यो मनांसि न परावर्त्तयन्ति तर्हि तानपि महाक्लेशे निक्षेप्स्यामि
इमे योषितां सङ्गेन न कलङ्किता यतस्ते ऽमैथुना मेषशावको यत् किमपि स्थानं गच्छेत् तत्सर्व्वस्मिन् स्थाने तम् अनुगच्छन्ति यतस्ते मनुष्याणां मध्यतः प्रथमफलानीवेश्वरस्य मेषशावकस्य च कृते परिक्रीताः।
तदनन्तरं तेषां सप्तकंसधारिणां सप्तदूतानाम् एक आगत्य मां सम्भाष्यावदत्, अत्रागच्छ, मेदिन्या नरपतयो यया वेश्यया सार्द्धं व्यभिचारकर्म्म कृतवन्तः, तेषां पञ्च पतिता एकश्च वर्त्तमानः शेषश्चाद्याप्यनुपस्थितः स यदोपस्थास्यति तदापि तेनाल्पकालं स्थातव्यं। यः पशुरासीत् किन्त्विदानीं न वर्त्तते स एवाष्टमः, स सप्तानाम् एको ऽस्ति विनाशं गमिष्यति च। त्वया दृष्टानि दशशृङ्गाण्यपि दश राजानः सन्तिः, अद्यापि तै राज्यं न प्राप्तं किन्तु मुहूर्त्तमेकं यावत् पशुना सार्द्धं ते राजान इव प्रभुत्वं प्राप्स्यन्ति। त एकमन्त्रणा भविष्यन्ति स्वकीयशक्तिप्रभावौ पशवे दास्यन्ति च। ते मेषशावकेन सार्द्धं योत्स्यन्ति, किन्तु मेषशावकस्तान् जेष्यति यतः स प्रभूनां प्रभू राज्ञां राजा चास्ति तस्य सङ्गिनो ऽप्याहूता अभिरुचिता विश्वास्याश्च। अपरं स माम् अवदत् सा वेश्या यत्रोपविशति तानि तोयानि लोका जनता जातयो नानाभाषावादिनश्च सन्ति। त्वया दृष्टानि दश शृङ्गाणि पशुश्चेमे तां वेश्याम् ऋतीयिष्यन्ते दीनां नग्नाञ्च करिष्यन्ति तस्या मांसानि भोक्ष्यन्ते वह्निना तां दाहयिष्यन्ति च। यत ईश्वरस्य वाक्यानि यावत् सिद्धिं न गमिष्यन्ति तावद् ईश्वरस्य मनोगतं साधयितुम् एकां मन्त्रणां कृत्वा तस्मै पशवे स्वेषां राज्यं दातुञ्च तेषां मनांसीश्वरेण प्रवर्त्तितानि। अपरं त्वया दृष्टा योषित् सा महानगरी या पृथिव्या राज्ञाम् उपरि राजत्वं कुरुते। यस्या व्यभिचारमदेन च पृथिवीनिवासिनो मत्ता अभवन् तस्या बहुतोयेषूपविष्टाया महावेश्याया दण्डम् अहं त्वां दर्शयामि।
तस्या भाले निगूढवाक्यमिदं पृथिवीस्थवेश्यानां घृण्यक्रियाणाञ्च माता महाबाबिलिति नाम लिखितम् आस्ते।
यतः सर्व्वजातीयास्तस्या व्यभिचारजातां कोपमदिरां पीतवन्तः पृथिव्या राजानश्च तया सह व्यभिचारं कृतवन्तः पृथिव्या वणिजश्च तस्याः सुखभोगबाहुल्याद् धनाढ्यतां गतवन्तः।
व्यभिचारस्तया सार्द्धं सुखभोगश्च यैः कृतः, ते सर्व्व एव राजानस्तद्दाहधूमदर्शनात्, प्ररोदिष्यन्ति वक्षांसि चाहनिष्यन्ति बाहुभिः।
मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।
हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।
अपरञ्च कुत्सिताभिलाषाान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु। अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।
तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः, यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते, अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।
ये शारीरिकाचारिणस्ते शारीरिकान् विषयान् भावयन्ति ये चात्मिकाचारिणस्ते आत्मनो विषयान् भावयन्ति। शारीरिकभावस्य फलं मृत्युः किञ्चात्मिकभावस्य फले जीवनं शान्तिश्च।
स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।