Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

113 यौन-अनैतिकतायाः विषये बाइबिल-श्लोकाः

113 यौन-अनैतिकतायाः विषये बाइबिल-श्लोकाः

भोः पठितृन्, धर्मग्रन्थे अस्माकं मार्गदर्शनं क्रियते यत् अस्माभिः सर्वप्रकारेभ्यः पापेभ्यः दूरं स्थातव्यम् सर्वदा धर्मेण आचरितव्यं च। अधर्मः, कर्मणा वा मनसा वा, अस्मान् ईश्वरस्य मार्गेभ्यः दूरं नयति संकटपूर्णेषु मार्गेषु प्रवेशयति च।

नीतिवाक्यग्रन्थे (६.३२-३३) अधर्मस्य फलं वर्णितम् अस्ति - "यो व्यभिचरति स मूर्खः अस्ति, स्वात्मानं नाशयति यः एवं करोति। तस्य लज्जा न कदापि नश्यति, तस्यापमानः न कदापि विस्मर्यते।" इमानि वचनानि अस्मभ्यं अधर्मस्य गम्भीरतां दर्शयन्ति, कथं च ते अस्माकं आध्यात्मिकं जीवनं व्यक्तिगतसम्बन्धान् च प्रभावयन्ति।

स्मर्तव्यम् यत् अधर्मः केवलं कर्मसु नास्ति, अपि तु मनसि गुप्तवासनाषु चापि विद्यते। येशुः अस्मान् उपदिष्टवान् मत्तीग्रन्थे (५.२८) - "अहं तु युष्मान् वदामि यः काञ्चित् स्त्रियं पश्यति कामयति च, स हृदयेन तया सह व्यभिचारं कृतवान्।" इदं वचनं अस्मभ्यं दर्शयति यत् कियत् गहनं अस्माकं पश्चात्तापः भवेत्, सर्वेषु जीवनस्य क्षेत्रेषु पवित्रतायाः प्राप्त्यर्थं च यत्नः करणीयः।

अधर्मविषये विचारणीयम् अस्ति यत् ईश्वरस्य आज्ञानां पालनेन जीवनं यातव्यम्। येन केनापि वस्तुना ईश्वरस्य इच्छायाः विरुद्धं गच्छामः तत् सर्वं त्याज्यम्। यत् किञ्चित् कुर्मः, यत् किञ्चित् चिन्तयामः, तत्र पवित्रतायाः अन्वेषणं करणीयम्। एवं कृत्वा एव वयं ईश्वरेण सह सम्बन्धस्य पूर्णताम् अनुभवितुं शक्नुमः अधर्मस्य विनाशकारीभः फलेभ्यः च रक्षितुं शक्नुमः।


1 कुरिन्थियों 7:2

किन्तु व्यभिचारभयाद् एकैकस्य पुंसः स्वकीयभार्य्या भवतु तद्वद् एकैकस्या योषितो ऽपि स्वकीयभर्त्ता भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 4:3-5

ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत। युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु, ये च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 6:18

मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 5:1

अपरं युष्माकं मध्ये व्यभिचारो विद्यते स च व्यभिचारस्तादृशो यद् देवपूजकानां मध्येऽपि तत्तुल्यो न विद्यते फलतो युष्माकमेको जनो विमातृगमनं कृरुत इति वार्त्ता सर्व्वत्र व्याप्ता।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:19-21

अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:3

किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 4:3

ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 19:9

अतो युष्मानहं वदामि, व्यभिचारं विना यो निजजायां त्यजेत् अन्याञ्च विवहेत्, स परदारान् गच्छति; यश्च त्यक्तां नारीं विवहति सोपि परदारेषु रमते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:27-28

अपरं त्वं मा व्यभिचर, यदेतद् वचनं पूर्व्वकालीनलोकेभ्यः कथितमासीत्, तद् यूयं श्रुतवन्तः; किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 6:9

ईश्वरस्य राज्येऽन्यायकारिणां लोकानामधिकारो नास्त्येतद् यूयं किं न जानीथ? मा वञ्च्यध्वं, ये व्यभिचारिणो देवार्च्चिनः पारदारिकाः स्त्रीवदाचारिणः पुंमैथुनकारिणस्तस्करा

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:19

अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम्

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 5:11

किन्तु भ्रातृत्वेन विख्यातः कश्चिज्जनो यदि व्यभिचारी लोभी देवपूजको निन्दको मद्यप उपद्रावी वा भवेत् तर्हि तादृशेन मानवेन सह भोजनपानेऽपि युष्माभि र्न कर्त्तव्ये इत्यधुना मया लिखितं।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:32

किन्त्वहं युष्मान् व्याहरामि, व्यभिचारदोषे न जाते यदि कश्चिन् निजजायां परित्यजति, तर्हि स तां व्यभिचारयति; यश्च तां त्यक्तां स्त्रियं विवहति, सोपि व्यभिचरति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 9:21

स्वबधकुहकव्यभिचारचौर्य्योभ्यो ऽपि मनांसि न परावर्त्तितवन्तः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:26-27

ईश्वरेण तेषु क्वभिलाषे समर्पितेषु तेषां योषितः स्वाभाविकाचरणम् अपहाय विपरीतकृत्ये प्रावर्त्तन्त; तथा पुरुषा अपि स्वाभाविकयोषित्सङ्गमं विहाय परस्परं कामकृशानुना दग्धाः सन्तः पुमांसः पुंभिः साकं कुकृत्ये समासज्य निजनिजभ्रान्तेः समुचितं फलम् अलभन्त।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 2:22

यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 2:21

अहं मनःपरिवर्त्तनाय तस्यै समयं दत्तवान् किन्तु सा स्वीयवेश्याक्रियातो मनःपरिवर्त्तयितुं नाभिलषति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 12:21

तेनाहं युष्मत्समीपं पुनरागत्य मदीयेश्वरेण नमयिष्ये, पूर्व्वं कृतपापान् लोकान् स्वीयाशुचितावेश्यागमनलम्पटताचरणाद् अनुतापम् अकृतवन्तो दृष्ट्वा च तानधि मम शोको जनिष्यत इति बिभेमि।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 10:8

अपरं तेषां कैश्चिद् यद्वद् व्यभिचारः कृतस्तेन चैकस्मिन् दिने त्रयोविंशतिसहस्राणि लोका निपातितास्तद्वद् अस्माभि र्व्यभिचारो न कर्त्तव्यः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 5:10

किन्त्वैहिकलोकानां मध्ये ये व्यभिचारिणो लोभिन उपद्राविणो देवपूजका वा तेषां संसर्गः सर्व्वथा विहातव्य इति नहि, विहातव्ये सति युष्माभि र्जगतो निर्गन्तव्यमेव।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 5:9

व्याभिचारिणां संसर्गो युष्माभि र्विहातव्य इति मया पत्रे लिखितं।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:4

विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:16

यथा च कश्चित् लम्पटो वा एककृत्व आहारार्थं स्वीयज्येष्ठाधिकारविक्रेता य एषौस्तद्वद् अधर्म्माचारी न भवेत् तथा सावधाना भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 22:15

कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 1:10

वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा,

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 13:13-14

अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः। यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 4:19

स्वान् चैतन्यशून्यान् कृत्वा च लोभेन सर्व्वविधाशौचाचरणाय लम्पटतायां स्वान् समर्पितवन्तः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 4:7

यस्माद् ईश्वरोऽस्मान् अशुचितायै नाहूतवान् किन्तु पवित्रत्वायैवाहूतवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:5

अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्याङ्गानि युष्माभि र्निहन्यन्तां।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 15:19

यतोऽन्तःकरणात् कुचिन्ता बधः पारदारिकता वेश्यागमनं चैर्य्यं मिथ्यासाक्ष्यम् ईश्वरनिन्दा चैतानि सर्व्वाणि निर्य्यान्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 6:12-13

अपरञ्च कुत्सिताभिलाषाान् पूरयितुं युष्माकं मर्त्यदेहेषु पापम् आधिपत्यं न करोतु। अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:11-12

यूयं तिमिरस्य विफलकर्म्मणाम् अंशिनो न भूत्वा तेषां दोषित्वं प्रकाशयत। यतस्ते लोका रहमि यद् यद् आचरन्ति तदुच्चारणम् अपि लज्जाजनकं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 2:16

यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:16-17

अहं ब्रवीमि यूयम् आत्मिकाचारं कुरुत शारीरिकाभिलाषं मा पूरयत। यतः शारीरिकाभिलाष आत्मनो विपरीतः, आत्मिकाभिलाषश्च शरीरस्य विपरीतः, अनयोरुभयोः परस्परं विरोधो विद्यते तेन युष्माभि र्यद् अभिलष्यते तन्न कर्त्तव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 6:13

उदराय भक्ष्याणि भक्ष्येभ्यश्चोदरं, किन्तु भक्ष्योदरे ईश्वरेण नाशयिष्येते; अपरं देहो न व्यभिचाराय किन्तु प्रभवे प्रभुश्च देहाय।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 19:4-6

स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्, मानुषः स्वपितरौ परित्यज्य स्वपत्न्याम् आसक्ष्यते, तौ द्वौ जनावेकाङ्गौ भविष्यतः, किमेतद् युष्माभि र्न पठितम्? अतस्तौ पुन र्न द्वौ तयोरेकाङ्गत्वं जातं, ईश्वरेण यच्च समयुज्यत, मनुजो न तद् भिन्द्यात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
यहूदा 1:7

अपरं सिदोमम् अमोरा तन्निकटस्थनगराणि चैतेषां निवासिनस्तत्समरूपं व्यभिचारं कृतवन्तो विषममैथुनस्य चेष्टया विपथं गतवन्तश्च तस्मात् तान्यपि दृष्टान्तस्वरूपाणि भूत्वा सदातनवह्निना दण्डं भुञ्जते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:5

वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 2:23

ते विधयः स्वेच्छाभक्त्या नम्रतया शरीरक्लेशनेन च ज्ञानविधिवत् प्रकाशन्ते तथापि तेऽगण्याः शारीरिकभाववर्द्धकाश्च सन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:6-8

शारीरिकभावस्य फलं मृत्युः किञ्चात्मिकभावस्य फले जीवनं शान्तिश्च। यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति। एतस्मात् शारीरिकाचारिषु तोष्टुम् ईश्वरेण न शक्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 1:15-16

यूयमप्याज्ञाग्राहिसन्ताना इव सर्व्वस्मिन् आचारे तादृक् पवित्रा भवत। यतो लिखितम् आस्ते, यूयं पवित्रास्तिष्ठत यस्मादहं पवित्रः।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:8

हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 4:3-4

आयुषो यः समयो व्यतीतस्तस्मिन् युष्माभि र्यद् देवपूजकानाम् इच्छासाधनं कामकुत्सिताभिलाषमद्यपानरङ्गरसमत्तताघृणार्हदेवपूजाचरणञ्चाकारि तेन बाहुल्यं। यूयं तैः सह तस्मिन् सर्व्वनाशपङ्के मज्जितुं न धावथ, इत्यनेनाश्चर्य्यं विज्ञाय ते युष्मान् निन्दन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 6:19-20

युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते? जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः? यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:8

निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 1:9

यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 6:14

अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 2:11

हे प्रियतमाः, यूयं प्रवासिनो विदेशिनश्च लोका इव मनसः प्रातिकूल्येन योधिभ्यः शारीरिकसुखाभिलाषेभ्यो निवर्त्तध्वम् इत्यहं विनये।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 13:4-5

प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च। अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 6:11

यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:1-2

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या। अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्। तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्। अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं। पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्। ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्। ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित। अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं। परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत। यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत। हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं। अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:24

ये तु ख्रीष्टस्य लोकास्ते रिपुभिरभिलाषैश्च सहितं शारीरिकभावं क्रुशे निहतवन्तः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 5:22

कस्यापि मूर्द्धि हस्तापर्णं त्वरया माकार्षीः। परपापानाञ्चांशी मा भव। स्वं शुचिं रक्ष।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 3:3

तस्मिन् एषा प्रत्याशा यस्य कस्यचिद् भवति स स्वं तथा पवित्रं करोति यथा स पवित्रो ऽस्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:24-25

इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः; इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:2

पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 3:3-4

अपरं केशरचनया स्वर्णालङ्कारधारणोन परिच्छदपरिधानेन वा युष्माकं वाह्यभूषा न भवतु, किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:22

यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:26-27

सत्यमतस्य ज्ञानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते ऽन्यत् किमपि बलिदानं नावशिष्यते किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 4:24

धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 2:10

विशेषतो ये ऽमेध्याभिलाषात् शारीरिकसुखम् अनुगच्छन्ति कर्तृत्वपदानि चावजानन्ति तानेव (रोद्धुं पारयति।) ते दुःसाहसिनः प्रगल्भाश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 13:12-14

बहुतरा यामिनी गता प्रभातं सन्निधिं प्राप्तं तस्मात् तामसीयाः क्रियाः परित्यज्यास्माभि र्वासरीया सज्जा परिधातव्या। अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः। यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 6:15-17

युष्माकं यानि शरीराणि तानि ख्रीष्टस्याङ्गानीति किं यूयं न जानीथ? अतः ख्रीष्टस्य यान्यङ्गानि तानि मयापहृत्य वेश्याया अङ्गानि किं कारिष्यन्ते? तन्न भवतु। यः कश्चिद् वेश्यायाम् आसज्यते स तया सहैकदेहो भवति किं यूयमेतन्न जानीथ? यतो लिखितमास्ते, यथा, तौ द्वौ जनावेकाङ्गौ भविष्यतः। मानवा यान्यन्यानि कलुषाणि कुर्व्वते तानि वपु र्न समाविशन्ति किन्तु व्यभिचारिणा स्वविग्रहस्य विरुद्धं कल्मषं क्रियते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:1-4

भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज्ञवेदिरस्माकम् आस्ते। यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते। तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्। अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं। यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते। अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं। अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते। यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्। अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः। विशेषतोऽहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये। यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्। अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। आमेन्। हे भ्रातरः, विनयेऽहं यूयम् इदम् उपदेशवाक्यं सहध्वं यतोऽहं संक्षेपेण युष्मान् प्रति लिखितवान्। अस्माकं भ्राता तीमथियो मुक्तोऽभवद् इति जानीत, स च यदि त्वरया समागच्छति तर्हि तेन सार्द्धंम् अहं युष्मान् साक्षात् करिष्यामि। युष्माकं सर्व्वान् नायकान् पवित्रलोकांश्च नमस्कुरुत। अपरम् इतालियादेशीयानां नमस्कारं ज्ञास्यथ। अनुग्रहो युष्माकं सर्व्वेषां सहायो भूयात्। आमेन्। बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां। विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:13

अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 11:34

देहस्य प्रदीपश्चक्षुस्तस्मादेव चक्षु र्यदि प्रसन्नं भवति तर्हि तव सर्व्वशरीरं दीप्तिमद् भविष्यति किन्तु चक्षु र्यदि मलीमसं तिष्ठति तर्हि सर्व्वशरीरं सान्धकारं स्थास्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:30

यद्वा तव दक्षिणः करो यदि त्वां बाधते, तर्हि तं करं छित्त्वा दूरे निक्षिप, यतः सर्व्ववपुषो नरके निक्षेपात् एकाङ्गस्य नाशो वरं।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 2:3

तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 1:3-4

जीवनार्थम् ईश्वरभक्त्यर्थञ्च यद्यद् आवश्यकं तत् सर्व्वं गौरवसद्गुणाभ्याम् अस्मदाह्वानकारिणस्तत्त्वज्ञानद्वारा तस्येश्वरीयशक्तिरस्मभ्यं दत्तवती। तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 4:12

अल्पवयष्कत्वात् केनाप्यवज्ञेयो न भव किन्त्वालापेनाचरणेन प्रेम्ना सदात्मत्वेन विश्वासेन शुचित्वेन च विश्वासिनाम् आदर्शो भव।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 16:19

युष्माकम् आज्ञाग्राहित्वं सर्व्वत्र सर्व्वै र्ज्ञातं ततोऽहं युष्मासु सानन्दोऽभवं तथापि यूयं यत् सत्ज्ञानेन ज्ञानिनः कुज्ञानेे चातत्परा भवेतेति ममाभिलाषः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 15:33

इत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 2:15-16

ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत, यतस्तेषां मध्ये यूयं जीवनवाक्यं धारयन्तो जगतो दीपका इव दीप्यध्वे। युष्माभिस्तथा कृते मम यत्नः परिश्रमो वा न निष्फलो जात इत्यहं ख्रीष्टस्य दिने श्लाघां कर्त्तुं शक्ष्यामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 5:17

केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:13

यदि यूयं शरीरिकाचारिणो भवेत तर्हि युष्माभि र्मर्त्तव्यमेव किन्त्वात्मना यदि शरीरकर्म्माणि घातयेत तर्हि जीविष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 22:37-39

ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व, एषा प्रथममहाज्ञा। तस्याः सदृशी द्वितीयाज्ञैषा, तव समीपवासिनि स्वात्मनीव प्रेम कुरु।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:23

शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 5:18

य ईश्वरात् जातः स पापाचारं न करोति किन्त्वीश्वरात् जातो जनः स्वं रक्षति तस्मात् स पापात्मा तं न स्पृशतीति वयं जानीमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 13:14

यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 9:27

इतरान् प्रति सुसंवादं घोषयित्वाहं यत् स्वयमग्राह्यो न भवामि तदर्थं देहम् आहन्मि वशीकुर्व्वे च।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 1:14-15

अपरं पूर्व्वीयाज्ञानतावस्थायाः कुत्सिताभिलाषाणां योग्यम् आचारं न कुर्व्वन्तो युष्मदाह्वानकारी यथा पवित्रो ऽस्ति यूयमप्याज्ञाग्राहिसन्ताना इव सर्व्वस्मिन् आचारे तादृक् पवित्रा भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 4:4-5

युष्माकम् एकैको जनः स्वकीयं प्राणाधारं पवित्रं मान्यञ्च रक्षतु, ये च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 7:9

किञ्च यदि तैरिन्द्रियाणि नियन्तुं न शक्यन्ते तर्हि विवाहः क्रियतां यतः कामदहनाद् व्यूढत्वं भद्रं।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:1-2

अतो यूयं प्रियबालका इवेश्वरस्यानुकारिणो भवत, प्रभवे यद् रोचते तत् परीक्षध्वं। यूयं तिमिरस्य विफलकर्म्मणाम् अंशिनो न भूत्वा तेषां दोषित्वं प्रकाशयत। यतस्ते लोका रहमि यद् यद् आचरन्ति तदुच्चारणम् अपि लज्जाजनकं। यतो दीप्त्या यद् यत् प्रकाश्यते तत् तया चकास्यते यच्च चकास्ति तद् दीप्तिस्वरूपं भवति। एतत्कारणाद् उक्तम् आस्ते, "हे निद्रित प्रबुध्यस्व मृतेभ्यश्चोत्थितिं कुरु। तत्कृते सूर्य्यवत् ख्रीष्टः स्वयं त्वां द्योतयिष्यति।" अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत। समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः। तस्माद् यूयम् अज्ञाना न भवत किन्तु प्रभोरभिमतं किं तदवगता भवत। सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं। अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च। ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

दिव्य पितः, अद्यतनजीवनप्रदानार्थं धन्यवादः। मयि प्रेमकृपाभ्यां युक्तः भवान्, तदर्थमपि धन्यवादः। मम दुर्बलतायां बलवान् भवान्, सहैव वर्तते च, तदर्थमपि धन्यवादः। भवतः निष्ठायै, मम पापक्षालनाय च धन्यवादः। पुनः येशोः पवित्ररुधिरेण प्रार्थयामि। भवतः पुरतः मम दोषान् स्वीकृत्य आगच्छामि। मयि वसन्ती कामना मां सदैव अनुचितकार्येषु प्रवर्तयति। भावनावेगेन न कर्तुमिच्छामि। भवन्मार्गेणैव परिवर्तितुमिच्छामि, येन मयि किञ्चिदपि कुटिलता न स्यात्। अतः हे येशो, सर्वानैतिकदोषेभ्यः मां शुद्धं कुरु। मम पादान् दृढीकुरु येन नाहं भ्रमितः स्याम्। सत्यमार्गे मां सदैव नेतुं, अनुचितविचारेषु भवद्वाण्या मां बोधयितुं च प्रार्थये। मम मनः, आत्मा, चेतनां च शुद्धीकुरु, येन भवतः पुरतः सुगन्धः स्याम्। येशोः नाम्नि, आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्