प्रिय, जानाम्येव यत् पापं नाम मरणाय। यदा जानासि यत् पापं करोमि, तथापि पुनः पुनः तत् करोमि, पश्चात्तापं न करोमि, तदा तत् मृत्युपापम् इति। भगवता उक्तं यत् पवित्र जीवनं जिवन्तु (१ पितर १:१६) इति। यदा वयं पापं कुर्मः तदा भगवान् अस्मान् संस्करोति। पापस्य कारणात् मोक्षः न नश्यति, भगवतः वियोगोऽपि न भवति। किन्तु भगवान् अस्मान् दण्डयति, यतः यं प्रेम करोति भगवान् तं दण्डयति, यथा पिता पुत्रं दण्डयति (हिब्रू १२:६)।
पूर्वं यदा येशुः न हृदि आसीत् तदा पापस्य कारणात् मृताः आस्म। किन्तु येशुः मृतः पुनरुत्थितश्च, येन वयं जीवनं प्राप्नुयाम। यदि पापं स्वीकुर्मः, पश्चात्तापं कुर्मः, पापात् विरममः, तर्हि पापस्य दण्डः नास्ति, यतः येशोः बलिदानस्य कारणात् क्षमा प्राप्यते। येशोः रक्तेन पवित्रता, क्षमा, पापमुक्तिः प्राप्यते।
प्रतिदिनं प्रातः उत्थाय भगवतः समीपं गच्छ। दुर्मार्गात् विरम। पापस्य पश्चात्तापं कुरु। तदा भगवतः कृपा सदा भविष्यति। येशोः बिना किमपि न शक्नुमः। येशौ एव स्वतन्त्रजीवनस्य गारण्टी वर्तते।
तथाप्यादमा यादृशं पापं कृतं तादृशं पापं यै र्नाकारि आदमम् आरभ्य मूसां यावत् तेषामप्युपरि मृत्यू राजत्वम् अकरोत् स आदम् भाव्यादमो निदर्शनमेवास्ते।
अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति;
यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।
वयं मृत्युम् उत्तीर्य्य जीवनं प्राप्तवन्तस्तद् भ्रातृषु प्रेमकरणात् जानीमः। भ्रातरि यो न प्रीयते स मृत्यौ तिष्ठति।
कश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि।
तस्मात् सा मनोवाञ्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति।
तथा सति, एकेन मानुषेण पापं पापेन च मरणं जगतीं प्राविशत् अपरं सर्व्वेषां पापित्वात् सर्व्वे मानुषा मृते र्निघ्ना अभवत्।
अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु। अपरं शयताने स्थानं मा दत्त।
तर्हि यत् स्वयं हितकृत् तत् किं मम मृत्युजनकम् अभवत्? नेत्थं भवतु; किन्तु पापं यत् पातकमिव प्रकाशते तथा निदेशेन पापं यदतीव पातकमिव प्रकाशते तदर्थं हितोपायेन मम मरणम् अजनयत्।
युष्माकम् उपरि पापस्याधिपत्यं पुन र्न भविष्यति, यस्माद् यूयं व्यवस्थाया अनायत्ता अनुग्रहस्य चायत्ता अभवत।
तर्हि यानि कर्म्माणि यूयम् इदानीं लज्जाजनकानि बुध्यध्वे पूर्व्वं तै र्युष्माकं को लाभ आसीत्? तेषां कर्म्मणां फलं मरणमेव।
ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।
यतोऽस्माकं शारीरिकाचरणसमये मरणनिमित्तं फलम् उत्पादयितुं व्यवस्थया दूषितः पापाभिलाषोऽस्माकम् अङ्गेषु जीवन् आसीत्।
यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।
युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते। स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।
कश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि। सर्व्व एवाधर्म्मः पापं किन्तु सर्व्वपांप मृत्युजनकं नहि।
सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति।
अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
पुरा यूयम् अपराधैः पापैश्च मृताः सन्तस्तान्याचरन्त इहलोकस्य संसारानुसारेणाकाशराज्यस्याधिपतिम् यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च। पुरा जन्मना भिन्नजातीया हस्तकृतं त्वक्छेदं प्राप्तै र्लोकैश्चाच्छिन्नत्वच इतिनाम्ना ख्याता ये यूयं तै र्युष्माभिरिदं स्मर्त्तव्यं यत् तस्मिन् समये यूयं ख्रीष्टाद् भिन्ना इस्रायेललोकानां सहवासाद् दूरस्थाः प्रतिज्ञासम्बलितनियमानां बहिः स्थिताः सन्तो निराशा निरीश्वराश्च जगत्याध्वम् इति। किन्त्वधुना ख्रीष्टे यीशावाश्रयं प्राप्य पुरा दूरवर्त्तिनो यूयं ख्रीष्टस्य शोणितेन निकटवर्त्तिनोऽभवत। यतः स एवास्माकं सन्धिः स द्वयम् एकीकृतवान् शत्रुतारूपिणीं मध्यवर्त्तिनीं प्रभेदकभित्तिं भग्नवान् दण्डाज्ञायुक्तं विधिशास्त्रं स्वशरीरेण लुप्तवांश्च। यतः स सन्धिं विधाय तौ द्वौ स्वस्मिन् एकं नुतनं मानवं कर्त्तुं स्वकीयक्रुशे शत्रुतां निहत्य तेनैवैकस्मिन् शरीरे तयो र्द्वयोरीश्वरेण सन्धिं कारयितुं निश्चतवान्। स चागत्य दूरवर्त्तिनो युष्मान् निकटवर्त्तिनो ऽस्मांश्च सन्धे र्मङ्गलवार्त्तां ज्ञापितवान्। यतस्तस्माद् उभयपक्षीया वयम् एकेनात्मना पितुः समीपं गमनाय सामर्थ्यं प्राप्तवन्तः। अत इदानीं यूयम् असम्पर्कीया विदेशिनश्च न तिष्ठनतः पवित्रलोकैः सहवासिन ईश्वरस्य वेश्मवासिनश्चाध्वे। अर्थतः साम्प्रतम् आज्ञालङ्घिवंशेषु कर्म्मकारिणम् आत्मानम् अन्वव्रजत। अपरं प्रेरिता भविष्यद्वादिनश्च यत्र भित्तिमूलस्वरूपास्तत्र यूयं तस्मिन् मूले निचीयध्वे तत्र च स्वयं यीशुः ख्रीष्टः प्रधानः कोणस्थप्रस्तरः। तेन कृत्स्ना निर्म्मितिः संग्रथ्यमाना प्रभोः पवित्रं मन्दिरं भवितुं वर्द्धते। यूयमपि तत्र संग्रथ्यमाना आत्मनेश्वरस्य वासस्थानं भवथ। तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम।
वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।
सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति। अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।
अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्याङ्गानि युष्माभि र्निहन्यन्तां।
किन्तु स एकैकमनुजाय तत्कर्म्मानुसारेण प्रतिफलं दास्यति; वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति। अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।