प्रिय, यदि धनसम्पत्तिरेव ईश्वरस्य कृपा मन्नीयते, तर्हि वयं भ्रान्तिमार्गे स्मः। एवं मन्यमानानां दृष्टौ दरिद्रा ईश्वरानुग्रहात् वञ्चिताः स्युः। न च युक्तियुक्तं यत् ईश्वरः केषाञ्चित् दारिद्र्येण दण्डयति, केषाञ्चित् धनधान्येन अनुगृह्णाति। भगवद्वचनानि अस्मान् ईश्वरभक्तानां, किन्तु दरिद्राणाम् उदाहरणानि दर्शयन्ति।
क्वचित् धनसम्पदः ईश्वरानुग्रहेण सह सम्बद्धाः दृश्यन्ते, तथापि दुःखेषु, समस्यासु च ईश्वरः बहुविधैः प्रकारैः अनुगृह्णाति। सर्वदा कृतज्ञाः भवेम, यतः ईश्वरः हृदयस्य भावनां पश्यति।
बहवः धनलाभे सफलतायां वा ईश्वरं स्तुवन्ति, धन्यवादं च अर्पयन्ति, किन्तु अस्माकं सुखं, कल्याणं च धनात् पूर्वम् ईश्वरादेव प्राप्यम्। यथा वदन्ति - "मनः एव मनुष्याणां कारणं बन्धमोक्षयोः" इति। ईश्वरस्य कृपा एव परमं धनम्।
भक्ष्याज्जीवनं भूषणाच्छरीरञ्च श्रेष्ठं भवति। काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?
अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत। त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त। किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत। यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि।
कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?
ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव। एतां वाचं श्रुत्वा स युवा स्वीयबहुसम्पत्ते र्विषणः सन् चलितवान्।
तदा यीशुः स्वशिष्यान् अवदत्, धनिनां स्वर्गराज्यप्रवेशो महादुष्कर इति युष्मानहं तथ्यं वदामि। पुनरपि युष्मानहं वदामि, धनिनां स्वर्गराज्यप्रवेशात् सूचीछिद्रेण महाङ्गगमनं सुकरं।
अपरं स एतादृशः कस्यचित् पुंसस्तुल्यः, यो दूरदेशं प्रति यात्राकाले निजदासान् आहूय तेषां स्वस्वसामर्थ्यानुरूपम् एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्। अनन्तरं यो दासः पञ्च पोटलिकाः लब्धवान्, स गत्वा वाणिज्यं विधाय ता द्विगुणीचकार। यश्च दासो द्वे पोटलिके अलभत, सोपि ता मुद्रा द्विगुणीचकार। किन्तु यो दास एकां पोटलिकां लब्धवान्, स गत्वा भूमिं खनित्वा तन्मध्ये निजप्रभोस्ता मुद्रा गोपयाञ्चकार। तदनन्तरं बहुतिथे काले गते तेषां दासानां प्रभुरागत्य तैर्दासैः समं गणयाञ्चकार। तासां कन्यानां मध्ये पञ्च सुधियः पञ्च दुर्धिय आसन्। तदानीं यः पञ्च पोटलिकाः प्राप्तवान् स ता द्विगुणीकृतमुद्रा आनीय जगाद; हे प्रभो, भवता मयि पञ्च पोटलिकाः समर्पिताः, पश्यतु, ता मया द्विगुणीकृताः। तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव। ततो येन द्वे पोटलिके लब्धे सोप्यागत्य जगाद, हे प्रभो, भवता मयि द्वे पोटलिके समर्पिते, पश्यतु ते मया द्विगुणीकृते। तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव। अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते। अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण। तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि वणिक्षु मम वित्तार्पणं तवोचितमासीत्, येनाहमागत्य वृद्व्या साकं मूलमुद्राः प्राप्स्यम्। अतोस्मात् तां पोटलिकाम् आदाय यस्य दश पोटलिकाः सन्ति तस्मिन्नर्पयत। येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते। या दुर्धियस्ताः प्रदीपान् सङ्गे गृहीत्वा तैलं न जगृहुः, अपरं यूयं तमकर्म्मण्यं दासं नीत्वा यत्र स्थाने क्रन्दनं दन्तघर्षणञ्च विद्येते, तस्मिन् बहिर्भूततमसि निक्षिपत।
तदा यीशुस्तं विलोक्य स्नेहेन बभाषे, तवैकस्याभाव आस्ते; त्वं गत्वा सर्व्वस्वं विक्रीय दरिद्रेभ्यो विश्राणय, ततः स्वर्गे धनं प्राप्स्यसि; ततः परम् एत्य क्रुशं वहन् मदनुवर्त्ती भव। किन्तु तस्य बहुसम्पद्विद्यमानत्वात् स इमां कथामाकर्ण्य विषणो दुःखितश्च सन् जगाम।
अथ यीशुश्चतुर्दिशो निरीक्ष्य शिष्यान् अवादीत्, धनिलोकानाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः। तस्य कथातः शिष्याश्चमच्चक्रुः, किन्तु स पुनरवदत्, हे बालका ये धने विश्वसन्ति तेषाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः। ईश्वरराज्ये धनिनां प्रवेशात् सूचिरन्ध्रेण महाङ्गस्य गमनागमनं सुकरं।
ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।
अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति। पश्चाद् दृष्टान्तकथामुत्थाप्य कथयामास, एकस्य धनिनो भूमौ बहूनि शस्यानि जातानि। ततः स मनसा चिन्तयित्वा कथयाम्बभूव ममैतानि समुत्पन्नानि द्रव्याणि स्थापयितुं स्थानं नास्ति किं करिष्यामि? ततोवदद् इत्थं करिष्यामि, मम सर्व्वभाण्डागाराणि भङ्क्त्वा बृहद्भाण्डागाराणि निर्म्माय तन्मध्ये सर्व्वफलानि द्रव्याणि च स्थापयिष्यामि। अपरं निजमनो वदिष्यामि, हे मनो बहुवत्सरार्थं नानाद्रव्याणि सञ्चितानि सन्ति विश्रामं कुरु भुक्त्वा पीत्वा कौतुकञ्च कुरु। किन्त्वीश्वरस्तम् अवदत्, यतो यन्न प्रकाशयिष्यते तदाच्छन्नं वस्तु किमपि नास्ति; तथा यन्न ज्ञास्यते तद् गुप्तं वस्तु किमपि नास्ति। रे निर्बोध अद्य रात्रौ तव प्राणास्त्वत्तो नेष्यन्ते तत एतानि यानि द्रव्याणि त्वयासादितानि तानि कस्य भविष्यन्ति? अतएव यः कश्चिद् ईश्वरस्य समीपे धनसञ्चयमकृत्वा केवलं स्वनिकटे सञ्चयं करोति सोपि तादृशः।
अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च; यतो यत्र युष्माकं धनं वर्त्तते तत्रेव युष्माकं मनः।
कोपि दास उभौ प्रभू सेवितुं न शक्नोति, यत एकस्मिन् प्रीयमाणोऽन्यस्मिन्नप्रीयते यद्वा एकं जनं समादृत्य तदन्यं तुच्छीकरोति तद्वद् यूयमपि धनेश्वरौ सेवितुं न शक्नुथ।
इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव। किन्त्वेतां कथां श्रुत्वा सोधिपतिः शुशोच, यतस्तस्य बहुधनमासीत्।
तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः। ईश्वरराज्ये धनिनः प्रवेशात् सूचेश्छिद्रेण महाङ्गस्य गमनागमने सुकरे।
क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।
एतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत? तस्य साज्ञा अनन्तायुरित्यहं जानामि, अतएवाहं यत् कथयामि तत् पिता यथाज्ञापयत् तथैव कथयाम्यहम्। स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्।
फलतो गृहाणि द्रव्याणि च सर्व्वाणि विक्रीय सर्व्वेषां स्वस्वप्रयोजनानुसारेण विभज्य सर्व्वेभ्योऽददन्।
तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय तन्मूल्यमानीय प्रेरितानां चरणेषु तैः स्थापितं; ततः प्रत्येकशः प्रयोजनानुसारेण दत्तमभवत्।
अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?
अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।
अपरात् कस्त्वां विशेषयति? तुभ्यं यन्न दत्त तादृशं किं धारयसि? अदत्तेनेव दत्तेन वस्तुना कुतः श्लाघसे? इदानीमेव यूयं किं तृप्ता लब्धधना वा? अस्मास्वविद्यमानेषु यूयं किं राजत्वपदं प्राप्ताः? युष्माकं राजत्वं मयाभिलषितं यतस्तेन युष्माभिः सह वयमपि राज्यांशिनो भविष्यामः।
ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।
वस्तुतो बहुक्लेशपरीक्षासमये तेषां महानन्दोऽतीवदीनता च वदान्यतायाः प्रचुरफलम् अफलयतां।
यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।
अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते। एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते। अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च। तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।
वयं तस्य शोणितेन मुक्तिम् अर्थतः पापक्षमां लब्धवन्तः। तस्य य ईदृशोऽनुग्रहनिधिस्तस्मात् सोऽस्मभ्यं सर्व्वविधं ज्ञानं बुद्धिञ्च बाहुल्यरूपेण वितरितवान्।
सर्व्वेषां पवित्रलोकानां क्षुद्रतमाय मह्यं वरोऽयम् अदायि यद् भिन्नजातीयानां मध्ये बोधागयस्य गुणनिधेः ख्रीष्टस्य मङ्गलवार्त्तां प्रचारयामि,
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।
इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु, यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां।
स चास्माकं त्रात्रा यीशुख्रीष्टेनास्मदुपरि तम् आत्मानं प्रचुरत्वेन वृष्टवान्। इत्थं वयं तस्यानुग्रहेण सपुण्यीभूय प्रत्याशयानन्तजीवनस्याधिकारिणो जाताः।
यूयं मम बन्धनस्य दुःखेन दुःखिनो ऽभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति ज्ञात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्वञ्च।
यश्च धनवान् स निजनम्रतया श्लाघतांयतः स तृणपुष्पवत् क्षयं गमिष्यति। यतः सतापेन सूर्य्येणोदित्य तृणं शोष्यते तत्पुष्पञ्च भ्रश्यति तेन तस्य रूपस्य सौन्दर्य्यं नश्यति तद्वद् धनिलोकोऽपि स्वीयमूढतया म्लास्यति।
हे धनवन्तः, यूयम् इदानीं शृणुत युष्माभिरागमिष्यत्क्लेशहेतोः क्रन्द्यतां विलप्यताञ्च। हे मम भ्रातरः, ये भविष्यद्वादिनः प्रभो र्नाम्ना भाषितवन्तस्तान् यूयं दुःखसहनस्य धैर्य्यस्य च दृष्टान्तान् जानीत। पश्यत धैर्य्यशीला अस्माभि र्धन्या उच्यन्ते। आयूबो धैर्य्यं युष्माभिरश्रावि प्रभोः परिणामश्चादर्शि यतः प्रभु र्बहुकृपः सकरुणश्चास्ति। हे भ्रातरः विशेषत इदं वदामि स्वर्गस्य वा पृथिव्या वान्यवस्तुनो नाम गृहीत्वा युष्माभिः कोऽपि शपथो न क्रियतां, किन्तु यथा दण्ड्या न भवत तदर्थं युष्माकं तथैव तन्नहि चेतिवाक्यं यथेष्टं भवतु। युष्माकं कश्चिद् दुःखी भवति? स प्रार्थनां करोतु। कश्चिद् वानन्दितो भवति? स गीतं गायतु। युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु। तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते। यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति। य एलियो वयमिव सुखदुःखभोगी मर्त्त्य आसीत् स प्रार्थनयानावृष्टिं याचितवान् तेन देशे सार्द्धवत्सरत्रयं यावद् वृष्टि र्न बभूव। पश्चात् तेन पुनः प्रार्थनायां कृतायाम् आकाशस्तोयान्यवर्षीत् पृथिवी च स्वफलानि प्रारोहयत्। हे भ्रातरः, युष्माकं कस्मिंश्चित् सत्यमताद् भ्रष्टे यदि कश्चित् तं परावर्त्तयति युष्माकं द्रविणं जीर्णं कीटभुक्ताः सुचेलकाः। तर्हि यो जनः पापिनं विपथभ्रमणात् परावर्त्तयति स तस्यात्मानं मृत्युत उद्धरिष्यति बहुपापान्यावरिष्यति चेति जानातु। कनकं रजतञ्चापि विकृतिं प्रगमिष्यति, तत्कलङ्कश्च युष्माकं पापं प्रमाणयिष्यति, हुताशवच्च युष्माकं पिशितं खादयिष्यति। इत्थम् अन्तिमघस्रेषु युष्माभिः सञ्चितं धनं।
अहं धनी समृद्धश्चास्मि मम कस्याप्यभावो न भवतीति त्वं वदसि किन्तु त्वमेव दुःखार्त्तो दुर्गतो दरिद्रो ऽन्धो नग्नश्चासि तत् त्वया नावगम्यते। त्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनायाञ्जनं मत्तः क्रीणीहीति मम मन्त्रणा।