कदाचित् वयं भौतिकवस्तुभिः प्रभाविताः भवामः, आध्यात्मिकं तु नित्यं तिष्ठति इति विस्मृत्य। अपि च, अधिकधनसम्पत्त्या अधिकसुखिनः मूल्यवन्तश्च भवेम इति चिन्तयामः, ईश्वरेण सह सम्बन्धं दृढीकर्तुं न यत्नाः कुर्मः, यतः सः अस्मान् अन्यथा पश्यति।
ईश्वरस्य दृष्ट्या, आध्यात्मिकधनमेव परमं हितकरं धनम्। तस्य कृते विनम्रं हृदयं, यत् तं मार्गयति तस्याज्ञाः पालयितुं वाञ्छति च, अतीव प्रियम्।
ईश्वरः अस्माकं हृदयसिंहासने एकाकी एव विराजितव्यः। यदि अन्यं किमपि कञ्चन वा तत्र स्थापयामः, तर्हि मूर्तिपूजां कृत्वा पापं कुर्मः।
शास्त्रम्¹ वदति यत् द्वौ स्वामिनौ न सेवेमहि। अतः त्वां प्रोत्साहयामि यत् ईश्वरमेव सर्वदा वरय। तस्मिन् न किमपि हानिः, सर्वं लाभः एव।
यतोऽर्थस्पृहा सर्व्वेषां दुरितानां मूलं भवति तामवलम्ब्य केचिद् विश्वासाद् अभ्रंशन्त नानाक्लेशैश्च स्वान् अविध्यन्।
कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"
एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
ये तु धनिनो भवितुं चेष्टन्ते ते परीक्षायाम् उन्माथे पतन्ति ये चाभिलाषा मानवान् विनाशे नरके च मज्जयन्ति तादृशेष्वज्ञानाहिताभिलाषेष्वपि पतन्ति।
किन्तु पितरस्तं प्रत्यवदत् तव मुद्रास्त्वया विनश्यन्तु यत ईश्वरस्य दानं मुद्राभिः क्रीयते त्वमित्थं बुद्धवान्;
अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत। त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त। किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत। यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि।
अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?
ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव। एतां वाचं श्रुत्वा स युवा स्वीयबहुसम्पत्ते र्विषणः सन् चलितवान्।
अपरं स एतादृशः कस्यचित् पुंसस्तुल्यः, यो दूरदेशं प्रति यात्राकाले निजदासान् आहूय तेषां स्वस्वसामर्थ्यानुरूपम् एकस्मिन् मुद्राणां पञ्च पोटलिकाः अन्यस्मिंश्च द्वे पोटलिके अपरस्मिंश्च पोटलिकैकाम् इत्थं प्रतिजनं समर्प्य स्वयं प्रवासं गतवान्। अनन्तरं यो दासः पञ्च पोटलिकाः लब्धवान्, स गत्वा वाणिज्यं विधाय ता द्विगुणीचकार। यश्च दासो द्वे पोटलिके अलभत, सोपि ता मुद्रा द्विगुणीचकार। किन्तु यो दास एकां पोटलिकां लब्धवान्, स गत्वा भूमिं खनित्वा तन्मध्ये निजप्रभोस्ता मुद्रा गोपयाञ्चकार। तदनन्तरं बहुतिथे काले गते तेषां दासानां प्रभुरागत्य तैर्दासैः समं गणयाञ्चकार। तासां कन्यानां मध्ये पञ्च सुधियः पञ्च दुर्धिय आसन्। तदानीं यः पञ्च पोटलिकाः प्राप्तवान् स ता द्विगुणीकृतमुद्रा आनीय जगाद; हे प्रभो, भवता मयि पञ्च पोटलिकाः समर्पिताः, पश्यतु, ता मया द्विगुणीकृताः। तदानीं तस्य प्रभुस्तमुवाच, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुवित्ताधिपं करोमि, त्वं स्वप्रभोः सुखस्य भागी भव। ततो येन द्वे पोटलिके लब्धे सोप्यागत्य जगाद, हे प्रभो, भवता मयि द्वे पोटलिके समर्पिते, पश्यतु ते मया द्विगुणीकृते। तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव। अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते। अतोहं सशङ्कः सन् गत्वा तव मुद्रा भूमध्ये संगोप्य स्थापितवान्, पश्य, तव यत् तदेव गृहाण। तदा तस्य प्रभुः प्रत्यवदत् रे दुष्टालस दास, यत्राहं न वपामि, तत्र छिनद्मि, यत्र च न किरामि, तत्रेव संगृह्लामीति चेदजानास्तर्हि वणिक्षु मम वित्तार्पणं तवोचितमासीत्, येनाहमागत्य वृद्व्या साकं मूलमुद्राः प्राप्स्यम्। अतोस्मात् तां पोटलिकाम् आदाय यस्य दश पोटलिकाः सन्ति तस्मिन्नर्पयत। येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते। या दुर्धियस्ताः प्रदीपान् सङ्गे गृहीत्वा तैलं न जगृहुः, अपरं यूयं तमकर्म्मण्यं दासं नीत्वा यत्र स्थाने क्रन्दनं दन्तघर्षणञ्च विद्येते, तस्मिन् बहिर्भूततमसि निक्षिपत।
तदा यीशुस्तं विलोक्य स्नेहेन बभाषे, तवैकस्याभाव आस्ते; त्वं गत्वा सर्व्वस्वं विक्रीय दरिद्रेभ्यो विश्राणय, ततः स्वर्गे धनं प्राप्स्यसि; ततः परम् एत्य क्रुशं वहन् मदनुवर्त्ती भव। किन्तु तस्य बहुसम्पद्विद्यमानत्वात् स इमां कथामाकर्ण्य विषणो दुःखितश्च सन् जगाम। अथ यीशुश्चतुर्दिशो निरीक्ष्य शिष्यान् अवादीत्, धनिलोकानाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः। तस्य कथातः शिष्याश्चमच्चक्रुः, किन्तु स पुनरवदत्, हे बालका ये धने विश्वसन्ति तेषाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः। ईश्वरराज्ये धनिनां प्रवेशात् सूचिरन्ध्रेण महाङ्गस्य गमनागमनं सुकरं।
अनन्तरं सेनागण एत्य पप्रच्छ किमस्माभि र्वा कर्त्तव्यम्? ततः सोभिदधे कस्य कामपि हानिं मा कार्ष्ट तथा मृषापवादं मा कुरुत निजवेतनेन च सन्तुष्य तिष्ठत।
दानानिदत्त तस्माद् यूयं दानानि प्राप्स्यथ, वरञ्च लोकाः परिमाणपात्रं प्रदलय्य सञ्चाल्य प्रोञ्चाल्य परिपूर्य्य युष्माकं क्रोडेषु समर्पयिष्यन्ति; यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मत्कृते परिमास्यते।
अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।
अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च; यतो यत्र युष्माकं धनं वर्त्तते तत्रेव युष्माकं मनः।
यः कश्चित् क्षुद्रे कार्य्ये विश्वास्यो भवति स महति कार्य्येपि विश्वास्यो भवति, किन्तु यः कश्चित् क्षुद्रे कार्य्येऽविश्वास्यो भवति स महति कार्य्येप्यविश्वास्यो भवति। अतएव अयथार्थेन धनेन यदि यूयमविश्वास्या जातास्तर्हि सत्यं धनं युष्माकं करेषु कः समर्पयिष्यति? यदि च परधनेन यूयम् अविश्वास्या भवथ तर्हि युष्माकं स्वकीयधनं युष्मभ्यं को दास्यति? कोपि दास उभौ प्रभू सेवितुं न शक्नोति, यत एकस्मिन् प्रीयमाणोऽन्यस्मिन्नप्रीयते यद्वा एकं जनं समादृत्य तदन्यं तुच्छीकरोति तद्वद् यूयमपि धनेश्वरौ सेवितुं न शक्नुथ।
एको धनी मनुष्यः शुक्लानि सूक्ष्माणि वस्त्राणि पर्य्यदधात् प्रतिदिनं परितोषरूपेणाभुंक्तापिवच्च। तस्य प्रभुस्तम् आहूय जगाद, त्वयि यामिमां कथां शृणोमि सा कीदृशी? त्वं गृहकार्य्याधीशकर्म्मणो गणनां दर्शय गृहकार्य्याधीशपदे त्वं न स्थास्यसि। सर्व्वाङ्गे क्षतयुक्त इलियासरनामा कश्चिद् दरिद्रस्तस्य धनवतो भोजनपात्रात् पतितम् उच्छिष्टं भोक्तुं वाञ्छन् तस्य द्वारे पतित्वातिष्ठत्; अथ श्वान आगत्य तस्य क्षतान्यलिहन्। कियत्कालात्परं स दरिद्रः प्राणान् जहौ; ततः स्वर्गीयदूतास्तं नीत्वा इब्राहीमः क्रोड उपवेशयामासुः। पश्चात् स धनवानपि ममार, तं श्मशाने स्थापयामासुश्च; किन्तु परलोके स वेदनाकुलः सन् ऊर्द्ध्वां निरीक्ष्य बहुदूराद् इब्राहीमं तत्क्रोड इलियासरञ्च विलोक्य रुवन्नुवाच; हे पितर् इब्राहीम् अनुगृह्य अङ्गुल्यग्रभागं जले मज्जयित्वा मम जिह्वां शीतलां कर्त्तुम् इलियासरं प्रेरय, यतो वह्निशिखातोहं व्यथितोस्मि। तदा इब्राहीम् बभाषे, हे पुत्र त्वं जीवन् सम्पदं प्राप्तवान् इलियासरस्तु विपदं प्राप्तवान् एतत् स्मर, किन्तु सम्प्रति तस्य सुखं तव च दुःखं भवति। अपरमपि युष्माकम् अस्माकञ्च स्थानयो र्मध्ये महद्विच्छेदोऽस्ति तत एतत्स्थानस्य लोकास्तत् स्थानं यातुं यद्वा तत्स्थानस्य लोका एतत् स्थानमायातुं न शक्नुवन्ति। तदा स उक्तवान्, हे पितस्तर्हि त्वां निवेदयामि मम पितु र्गेहे ये मम पञ्च भ्रातरः सन्ति ते यथैतद् यातनास्थानं नायास्यन्ति तथा मन्त्रणां दातुं तेषां समीपम् इलियासरं प्रेरय। तत इब्राहीम् उवाच, मूसाभविष्यद्वादिनाञ्च पुस्तकानि तेषां निकटे सन्ति ते तद्वचनानि मन्यन्तां। तदा स गृहकार्य्याधीशो मनसा चिन्तयामास, प्रभु र्यदि मां गृहकार्य्याधीशपदाद् भ्रंशयति तर्हि किं करिष्येऽहं? मृदं खनितुं मम शक्ति र्नास्ति भिक्षितुञ्च लज्जिष्येऽहं। तदा स निवेदयामास, हे पितर् इब्राहीम् न तथा, किन्तु यदि मृतलोकानां कश्चित् तेषां समीपं याति तर्हि ते मनांसि व्याघोटयिष्यन्ति। तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।
इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव। किन्त्वेतां कथां श्रुत्वा सोधिपतिः शुशोच, यतस्तस्य बहुधनमासीत्। तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः। ईश्वरराज्ये धनिनः प्रवेशात् सूचेश्छिद्रेण महाङ्गस्य गमनागमने सुकरे।
एतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत? तस्य साज्ञा अनन्तायुरित्यहं जानामि, अतएवाहं यत् कथयामि तत् पिता यथाज्ञापयत् तथैव कथयाम्यहम्। स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्।
फलतो गृहाणि द्रव्याणि च सर्व्वाणि विक्रीय सर्व्वेषां स्वस्वप्रयोजनानुसारेण विभज्य सर्व्वेभ्योऽददन्।
अपरञ्च प्रत्ययकारिलोकसमूहा एकमनस एकचित्तीभूय स्थिताः। तेषां केपि निजसम्पत्तिं स्वीयां नाजानन् किन्तु तेषां सर्व्वाः सम्पत्त्यः साधारण्येन स्थिताः। अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च। तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय तन्मूल्यमानीय प्रेरितानां चरणेषु तैः स्थापितं; ततः प्रत्येकशः प्रयोजनानुसारेण दत्तमभवत्।
युष्माकं परस्परं प्रेम विना ऽन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।
ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।
वस्तुतो बहुक्लेशपरीक्षासमये तेषां महानन्दोऽतीवदीनता च वदान्यतायाः प्रचुरफलम् अफलयतां।
यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।
अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते। एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च। तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।
अहं यद् दैन्यकारणाद् इदं वदामि तन्नहि यतो मम या काचिद् अवस्था भवेत् तस्यां सन्तोष्टुम् अशिक्षयं। दरिद्रतां भोक्तुं शक्नोमि धनाढ्यताम् अपि भोक्तुं शक्नोमि सर्व्वथा सर्व्वविषयेषु विनीतोऽहं प्रचुरतां क्षुधाञ्च धनं दैन्यञ्चावगतोऽस्मि। मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
अपरं ये बहिःस्थितास्तेषां दृष्टिगोचरे युष्माकम् आचरणं यत् मनोरम्यं भवेत् कस्यापि वस्तुनश्चाभावो युष्माकं यन्न भवेत्, एतदर्थं यूयम् अस्मत्तो यादृशम् आदेशं प्राप्तवन्तस्तादृशं निर्विरोधाचारं कर्त्तुं स्वस्वकर्म्मणि मनांमि निधातुं निजकरैश्च कार्य्यं साधयितुं यतध्वं।
यदि कश्चित् स्वजातीयान् लोकान् विशेषतः स्वीयपरिजनान् न पालयति तर्हि स विश्वासाद् भ्रष्टो ऽप्यधमश्च भवति।
इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु, यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां।
हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते। धनवन्त एव किं युष्मान् नोपद्रवन्ति बलाच्च विचारासनानां समीपं न नयन्ति?
अद्य श्वो वा वयम् अमुकनगरं गत्वा तत्र वर्षमेकं यापयन्तो वाणिज्यं करिष्यामः लाभं प्राप्स्यामश्चेति कथां भाषमाणा यूयम् इदानीं शृणुत। श्वः किं घटिष्यते तद् यूयं न जानीथ यतो जीवनं वो भवेत् कीदृक् तत्तु बाष्पस्वरूपकं, क्षणमात्रं भवेद् दृश्यं लुप्यते च ततः परं। तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।
हे धनवन्तः, यूयम् इदानीं शृणुत युष्माभिरागमिष्यत्क्लेशहेतोः क्रन्द्यतां विलप्यताञ्च। हे मम भ्रातरः, ये भविष्यद्वादिनः प्रभो र्नाम्ना भाषितवन्तस्तान् यूयं दुःखसहनस्य धैर्य्यस्य च दृष्टान्तान् जानीत। पश्यत धैर्य्यशीला अस्माभि र्धन्या उच्यन्ते। आयूबो धैर्य्यं युष्माभिरश्रावि प्रभोः परिणामश्चादर्शि यतः प्रभु र्बहुकृपः सकरुणश्चास्ति। हे भ्रातरः विशेषत इदं वदामि स्वर्गस्य वा पृथिव्या वान्यवस्तुनो नाम गृहीत्वा युष्माभिः कोऽपि शपथो न क्रियतां, किन्तु यथा दण्ड्या न भवत तदर्थं युष्माकं तथैव तन्नहि चेतिवाक्यं यथेष्टं भवतु। युष्माकं कश्चिद् दुःखी भवति? स प्रार्थनां करोतु। कश्चिद् वानन्दितो भवति? स गीतं गायतु। युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु। तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते। यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति। य एलियो वयमिव सुखदुःखभोगी मर्त्त्य आसीत् स प्रार्थनयानावृष्टिं याचितवान् तेन देशे सार्द्धवत्सरत्रयं यावद् वृष्टि र्न बभूव। पश्चात् तेन पुनः प्रार्थनायां कृतायाम् आकाशस्तोयान्यवर्षीत् पृथिवी च स्वफलानि प्रारोहयत्। हे भ्रातरः, युष्माकं कस्मिंश्चित् सत्यमताद् भ्रष्टे यदि कश्चित् तं परावर्त्तयति युष्माकं द्रविणं जीर्णं कीटभुक्ताः सुचेलकाः। तर्हि यो जनः पापिनं विपथभ्रमणात् परावर्त्तयति स तस्यात्मानं मृत्युत उद्धरिष्यति बहुपापान्यावरिष्यति चेति जानातु। कनकं रजतञ्चापि विकृतिं प्रगमिष्यति, तत्कलङ्कश्च युष्माकं पापं प्रमाणयिष्यति, हुताशवच्च युष्माकं पिशितं खादयिष्यति। इत्थम् अन्तिमघस्रेषु युष्माभिः सञ्चितं धनं।
पश्यत यैः कृषीवलै र्युष्माकं शस्यानि छिन्नानि तेभ्यो युष्माभि र्यद् वेतनं छिन्नं तद् उच्चै र्ध्वनिं करोति तेषां शस्यच्छेदकानाम् आर्त्तरावः सेनापतेः परमेश्वरस्य कर्णकुहरं प्रविष्टः।
युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा। अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।
यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति। यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव। संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति।
अहं धनी समृद्धश्चास्मि मम कस्याप्यभावो न भवतीति त्वं वदसि किन्तु त्वमेव दुःखार्त्तो दुर्गतो दरिद्रो ऽन्धो नग्नश्चासि तत् त्वया नावगम्यते। त्वं यद् धनी भवेस्तदर्थं मत्तो वह्नौ तापितं सुवर्णं क्रीणीहि नग्नत्वात् तव लज्जा यन्न प्रकाशेत तदर्थं परिधानाय मत्तः शुभ्रवासांसि क्रीणीहि यच्च तव दृष्टिः प्रसन्ना भवेत् तदर्थं चक्षुर्लेपनायाञ्जनं मत्तः क्रीणीहीति मम मन्त्रणा।
तस्माद् ये तं कलङ्कमर्थतः पशो र्नाम तस्य नाम्नः संख्याङ्कं वा धारयन्ति तान् विना परेण केनापि क्रयविक्रये कर्त्तुं न शक्येते।
मेदिन्या वणिजश्च तस्याः कृते रुदन्ति शोचन्ति च यतस्तेषां पण्यद्रव्याणि केनापि न क्रीयन्ते। फलतः सुवर्णरौप्यमणिमुक्ताः सूक्ष्मवस्त्राणि कृष्णलोहितवासांसि पट्टवस्त्राणि सिन्दूरवर्णवासांसि चन्दनादिकाष्ठानि गजदन्तेन महार्घकाष्ठेन पित्तललौहाभ्यां मर्म्मरप्रस्तरेण वा निर्म्मितानि सर्व्वविधपात्राणि त्वगेला धूपः सुगन्धिद्रव्यं गन्धरसो द्राक्षारसस्तैलं शस्यचूर्णं गोधूमो गावो मेषा अश्वा रथा दासेया मनुष्यप्राणाश्चैतानि पण्यद्रव्याणि केनापि न क्रीयन्ते।
किन्त्वेकस्मिन् दण्डे सा महासम्पद् लुप्ता। अपरं पोतानां कर्णधाराः समूूहलोका नाविकाः समुद्रव्यवसायिनश्च सर्व्वे