प्रिय, ईश्वरस्य विवाहयोजना प्रारम्भादेव स्पष्टा आसीत् - यत दम्पती मृत्युपर्यन्तं युगयुगेन तिष्ठतः। भवत्याः पतिं शारीरिक-मानसिक-आध्यात्मिकरूपेण सर्वतोभावेन साहाय्यं कर्तुं भवती प्रयतताम्। भवती तस्य पूरकं, प्रोत्साहकं, शान्तिदायकं च भवेत्। यथा "पतीनां प्रति स्वपत्न्यः प्रभुं प्रति यथा भवन्ति तथा वशीकृताः सन्तु। यतः पतिः पत्न्याः शिरः अस्ति, यथा मसीहः कलीसियायाः शिरः अस्ति, सः स्वयं देहस्य रक्षकः अस्ति" (इफिसिलोकाः ५:२२-२३) इति उक्तम्।
भवती सदाचारी महिला भवेत् यस्यां पतिः विश्वासं करोति, विश्रामं च विन्दति। भवत्याः गृहं धन्यं भवेत्, भवत्याः सन्तानाः भवत्यां गर्वं कुर्वन्तु। गृहस्य सुचारुरूपेण प्रचलनाय यतमाना भवतु। भवत्याः पतिः प्रसन्नः भवेत्, निर्बाधं प्रार्थनां च करोतु।
दृढस्तम्भः इव भवतु। परिस्थितिभिः अविचलिता भूत्वा पतिं प्रोत्साहयतु, स्वप्नान् दृष्टीं च पोषयतु, तस्य विकासाय सहायतां कुर्वतु। ईश्वरवचनं हृदये धारयन्ती भवती अक्षया भवतु, स्वविवाहस्य रक्षिका भूत्वा भविष्यस्य भयं न कुर्वन्तु।
हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वशङ्गता भवत। यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।
प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा,
अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं। स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते। हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं।
विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।
हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्। स त्यजेद् दुष्टतामार्गं सत्क्रियाञ्च समाचरेत्। मृगयाणश्च शान्तिं स नित्यमेवानुधावतु। लोचने परमेशस्योन्मीलिते धार्म्मिकान् प्रति। प्रार्थनायाः कृते तेषाः तच्छ्रोत्रे सुगमे सदा। क्रोधास्यञ्च परेशस्य कदाचारिषु वर्त्तते। अपरं यदि यूयम् उत्तमस्यानुगामिनो भवथ तर्हि को युष्मान् हिंसिष्यते? यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा। मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत। ये च ख्रीष्टधर्म्मे युष्माकं सदाचारं दूषयन्ति ते दुष्कर्म्मकारिणामिव युष्माकम् अपवादेन यत् लज्जिता भवेयुस्तदर्थं युष्माकम् उत्तमः संवेदो भवतु। ईश्वरस्याभिमताद् यदि युष्माभिः क्लेशः सोढव्यस्तर्हि सदाचारिभिः क्लेशसहनं वरं न च कदाचारिभिः। यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्। तत्सम्बन्धे च स यात्रां विधाय काराबद्धानाम् आत्मनां समीपे वाक्यं घोषितवान्। ते विनावाक्यं योषिताम् आचारेणार्थतस्तेषां प्रत्यक्षेण युष्माकं सभयसतीत्वाचारेणाक्रष्टुं शक्ष्यन्ते।
एतदर्थं मानवः स्वमातापितरोै परित्यज्य स्वभार्य्यायाम् आसंक्ष्यति तौ द्वौ जनावेकाङ्गौ भविष्यतः।
हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वशङ्गता भवत। यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा। अतः समिति र्यद्वत् ख्रीष्टस्य वशीभूता तद्वद् योषिद्भिरपि स्वस्वस्वामिनो वशता स्वीकर्त्तव्या।
तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते।
अतएव युष्माकम् एकैको जन आत्मवत् स्वयोषिति प्रीयतां भार्य्यापि स्वामिनं समादर्त्तुं यततां।
भार्य्यायै भर्त्रा यद्यद् वितरणीयं तद् वितीर्य्यतां तद्वद् भर्त्रेऽपि भार्य्यया वितरणीयं वितीर्य्यतां। अतः कृतदारैरकृतदारैरिव रुदद्भिश्चारुदद्भिरिव सानन्दैश्च निरानन्दैरिव क्रेतृभिश्चाभागिभिरिवाचरितव्यं ये च संसारे चरन्ति तै र्नातिचरितव्यं यत इहलेाकस्य कौतुको विचलति। किन्तु यूयं यन्निश्चिन्ता भवेतेति मम वाञ्छा। अकृतविवाहो जनो यथा प्रभुं परितोषयेत् तथा प्रभुं चिन्तयति, किन्तु कृतविवाहो जनो यथा भार्य्यां परितोषयेत् तथा संसारं चिन्तयति। तद्वद् ऊढयोषितो ऽनूढा विशिष्यते। यानूढा सा यथा कायमनसोः पवित्रा भवेत् तथा प्रभुं चिन्तयति या चोढा सा यथा भर्त्तारं परितोषयेत् तथा संसारं चिन्तयति। अहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते। कस्यचित् कन्यायां यौवनप्राप्तायां यदि स तस्या अनूढत्वं निन्दनीयं विवाहश्च साधयितव्य इति मन्यते तर्हि यथाभिलाषं करोतु, एतेन किमपि नापरात्स्यति विवाहः क्रियतां। किन्तु दुःखेनाक्लिष्टः कश्चित् पिता यदि स्थिरमनोगतः स्वमनोऽभिलाषसाधने समर्थश्च स्यात् मम कन्या मया रक्षितव्येति मनसि निश्चिनोति च तर्हि स भद्रं कर्म्म करोति। अतो यो विवाहं करोति स भद्रं कर्म्म करोति यश्च विवाहं न करोति स भद्रतरं कर्म्म करोति। यावत्कालं पति र्जीवति तावद् भार्य्या व्यवस्थया निबद्धा तिष्ठति किन्तु पत्यौ महानिद्रां गते सा मुक्तीभूय यमभिलषति तेन सह तस्या विवाहो भवितुं शक्नोति, किन्त्वेतत् केवलं प्रभुभक्तानां मध्ये। भार्य्यायाः स्वदेहे स्वत्वं नास्ति भर्त्तुरेव, तद्वद् भर्त्तुरपि स्वदेहे स्वत्वं नास्ति भार्य्याया एव।
भार्य्यायै भर्त्रा यद्यद् वितरणीयं तद् वितीर्य्यतां तद्वद् भर्त्रेऽपि भार्य्यया वितरणीयं वितीर्य्यतां। अतः कृतदारैरकृतदारैरिव रुदद्भिश्चारुदद्भिरिव सानन्दैश्च निरानन्दैरिव क्रेतृभिश्चाभागिभिरिवाचरितव्यं ये च संसारे चरन्ति तै र्नातिचरितव्यं यत इहलेाकस्य कौतुको विचलति। किन्तु यूयं यन्निश्चिन्ता भवेतेति मम वाञ्छा। अकृतविवाहो जनो यथा प्रभुं परितोषयेत् तथा प्रभुं चिन्तयति, किन्तु कृतविवाहो जनो यथा भार्य्यां परितोषयेत् तथा संसारं चिन्तयति। तद्वद् ऊढयोषितो ऽनूढा विशिष्यते। यानूढा सा यथा कायमनसोः पवित्रा भवेत् तथा प्रभुं चिन्तयति या चोढा सा यथा भर्त्तारं परितोषयेत् तथा संसारं चिन्तयति। अहं यद् युष्मान् मृगबन्धिन्या परिक्षिपेयं तदर्थं नहि किन्तु यूयं यदनिन्दिता भूत्वा प्रभोः सेवनेऽबाधम् आसक्ता भवेत तदर्थमेतानि सर्व्वाणि युष्माकं हिताय मया कथ्यन्ते। कस्यचित् कन्यायां यौवनप्राप्तायां यदि स तस्या अनूढत्वं निन्दनीयं विवाहश्च साधयितव्य इति मन्यते तर्हि यथाभिलाषं करोतु, एतेन किमपि नापरात्स्यति विवाहः क्रियतां। किन्तु दुःखेनाक्लिष्टः कश्चित् पिता यदि स्थिरमनोगतः स्वमनोऽभिलाषसाधने समर्थश्च स्यात् मम कन्या मया रक्षितव्येति मनसि निश्चिनोति च तर्हि स भद्रं कर्म्म करोति। अतो यो विवाहं करोति स भद्रं कर्म्म करोति यश्च विवाहं न करोति स भद्रतरं कर्म्म करोति। यावत्कालं पति र्जीवति तावद् भार्य्या व्यवस्थया निबद्धा तिष्ठति किन्तु पत्यौ महानिद्रां गते सा मुक्तीभूय यमभिलषति तेन सह तस्या विवाहो भवितुं शक्नोति, किन्त्वेतत् केवलं प्रभुभक्तानां मध्ये। भार्य्यायाः स्वदेहे स्वत्वं नास्ति भर्त्तुरेव, तद्वद् भर्त्तुरपि स्वदेहे स्वत्वं नास्ति भार्य्याया एव। तथाच सा यदि निष्पतिका तिष्ठति तर्हि तस्याः क्षेमं भविष्यतीति मम भावः। अपरम् ईश्वरस्यात्मा ममाप्यन्त र्विद्यत इति मया बुध्यते। उपोषणप्रार्थनयोः सेवनार्थम् एकमन्त्रणानां युष्माकं कियत्कालं यावद् या पृथक्स्थिति र्भवति तदन्यो विच्छेदो युष्मन्मध्ये न भवतु, ततः परम् इन्द्रियाणाम् अधैर्य्यात् शयतान् यद् युष्मान् परीक्षां न नयेत् तदर्थं पुनरेकत्र मिलत।
अपरं योषिद्भिरपि विनीताभिरनपवादिकाभिः सतर्काभिः सर्व्वत्र विश्वास्याभिश्च भवितव्यं।
अपरञ्च हे पुरुषाः, यूयं ख्रीष्ट इव स्वस्वयोषित्सु प्रीयध्वं। स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम् अपरं तिलकवल्यादिविहीनां पवित्रां निष्कलङ्काञ्च तां समितिं तेजस्विनीं कृत्वा स्वहस्ते समर्पयितुञ्चाभिलषितवान्। तस्मात् स्वतनुवत् स्वयोषिति प्रेमकरणं पुरुषस्योचितं, येन स्वयोषिति प्रेम क्रियते तेनात्मप्रेम क्रियते।
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत। किन्तु यूयं ख्रीष्टं न तादृशं परिचितवन्तः, यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये। तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः, यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च। अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अङ्गप्रत्यङ्गा भवामः। अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु। अपरं शयताने स्थानं मा दत्त। चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु। अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु। प्रणयबन्धनेन चात्मन एैक्यं रक्षितुं यतध्वं।
किन्तु सुशिक्षाकारिण्यः सत्य ईश्वरस्य वाक्यं यत् न निन्द्येत तदर्थं युवतीः सुशीलताम् अर्थतः पतिस्नेहम् अपत्यस्नेहं विनीतिं शुचित्वं गृहिणीत्वं सौजन्यं स्वामिनिघ्नञ्चादिशेयुस्तथा त्वया कथ्यतां।
अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।
प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च। अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति, अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति। तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।
हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।