अपमानसम्मुखे, धर्मग्रन्थेषु शान्तिं मार्गदर्शनं च प्राप्नुमः। ईश्वरस्य वचनम् अस्मान् शिक्षयति यत् क्लेशकाले ईश्वरः एव अस्माकं शरणं बलं च।
विनम्रभावनया क्षमाभावनया च अपमानानां सामना कृत्वा स्वेषां व्रणान् रोपयितुं सम्बन्धानां पुनर्स्थापनां च कर्तुं शक्नुमः। अग्रे च, परस्नेहः एकः प्रमुखः आदेशः अस्ति। अतः शत्रून् प्रेम कर्तव्यम्, ये अस्मान् पीडयन्ति तान् आशिषः दातव्याः। इदं निश्चयेन चुनौतीपूर्णं वर्तते, परन्तु ख्रीष्टानुयायिनां रूपेण ईश्वरेण प्रदत्तस्य आह्वानस्य भागः एव अस्ति।
धर्मग्रन्थः अस्मान् शिक्षयति यत् अपमानानि मानवजीवनस्य अभिन्नम् अङ्गम्। तथापि, सः अस्मान् प्रोत्साहयति यत् वयं तान् ईश्वरपूजकरीत्या व्यवहरामः येन मेलमिलापः भवेत्।
मत्तीग्रन्थस्य अष्टादशे अध्याये, एकविंशतितमे द्वाविंशतितमे च श्लोके, येशुः क्षमायाः विषये महत्वपूर्णं निर्देशं ददाति – "तदा पितरः समीपम् आगत्य अवदत् – हे प्रभो! कतिवारं स्वभ्रातरं क्षमा करवाणि? सप्तवारं यावत्? येशुः अवदत् – सप्तवारं यावत् न, किन्तु सप्ततिवारं सप्तवारं यावत् इति।" (मत्ती १८.२१-२२)
अस्यैव वचनस्य आधारेण वक्तुं शक्नोमि यत् येशुः इच्छति यत् अस्माकं हृदये द्वेषः कुढनं च न स्यात्, अपि तु यथा अस्माकं स्वर्गीयपितुः अस्मान् क्षमा कृतवान्, तथा वयं अपि मानवानां अपराधान् क्षमा करवाम।
यतः ख्रीष्टोऽपि निजेष्टाचारं नाचरितवान्, यथा लिखितम् आस्ते, त्वन्निन्दकगणस्यैव निन्दाभि र्निन्दितोऽस्म्यहं।
अतो वेद्याः समीपं निजनैवेद्ये समानीतेऽपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च, तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निधाय तदैव गत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् आगत्य निजनैवेद्यं निवेदय।
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।
यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।
यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्,
अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।
यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते; किन्तु यदि यूयम् अन्येषाम् अपराधान् न क्षमध्वे, तर्हि युष्माकं जनकोपि युष्माकम् अपराधान् न क्षमिष्यते।
इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।
यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व। तद्वन् मानवपुत्रप्रकाशदिनेपि भविष्यति। तदा यदि कश्चिद् गृहोपरि तिष्ठति तर्हि स गृहमध्यात् किमपि द्रव्यमानेतुम् अवरुह्य नैतु; यश्च क्षेत्रे तिष्ठति सोपि व्याघुट्य नायातु। लोटः पत्नीं स्मरत। यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति। युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते। स्त्रियौ युगपत् पेषणीं व्यावर्त्तयिष्यतस्तयोरेका धारिष्यते परात्यक्ष्यते। पुरुषौ क्षेत्रे स्थास्यतस्तयोरेको धारिष्यते परस्त्यक्ष्यते। तदा ते पप्रच्छुः, हे प्रभो कुत्रेत्थं भविष्यति? ततः स उवाच, यत्र शवस्तिष्ठति तत्र गृध्रा मिलन्ति। पुनरेकदिनमध्ये यदि स तव सप्तकृत्वोऽपराध्यति किन्तु सप्तकृत्व आगत्य मनः परिवर्त्य मयापराद्धम् इति वदति तर्हि तं क्षमस्व।
अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु। हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं। यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।
यथा यूयं दोषीकृता न भवथ, तत्कृतेऽन्यं दोषिणं मा कुरुत। मीने याचिते च तस्मै भुजगं वितरति, एतादृशः पिता युष्माकं मध्ये क आस्ते? तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति? यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्। सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति। अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः। अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ। मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति? तद्वद् उत्तम एव पादप उत्तमफलानि जनयति, अधमपादपएवाधमफलानि जनयति। किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति। अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते। यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।
तव मांसभक्षणसुरापानादिभिः क्रियाभि र्यदि तव भ्रातुः पादस्खलनं विघ्नो वा चाञ्चल्यं वा जायते तर्हि तद्भोजनपानयोस्त्यागो भद्रः।
यिहूदीयानां भिन्नजातीयानाम् ईश्वरस्य समाजस्य वा विघ्नजनकै र्युष्माभि र्न भवितव्यं।
तदा महायाजको निजवसनं छित्त्वा जगाद, एष ईश्वरं निन्दितवान्, अस्माकमपरसाक्ष्येण किं प्रयोजनं? पश्यत, यूयमेवास्यास्याद् ईश्वरनिन्दां श्रुतवन्तः,
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं। यतो मम सेवने युष्माकं त्रुटिं पूरयितुं स प्राणान् पणीकृत्य ख्रीष्टस्य कार्य्यार्थं मृतप्रायेऽभवत्। केवलम् आत्महिताय न चेष्टमानाः परहितायापि चेष्टध्वं।
यिहूदीयाः प्रत्यवदन् प्रशस्तकर्म्महेतो र्न किन्तु त्वं मानुषः स्वमीश्वरम् उक्त्वेश्वरं निन्दसि कारणादस्मात् त्वां पाषाणैर्हन्मः।
तदानीं पितरस्तत्समीपमागत्य कथितवान् हे प्रभो, मम भ्राता मम यद्यपराध्यति, तर्हि तं कतिकृत्वः क्षमिष्ये? किं सप्तकृत्वः? यीशुस्तं जगाद, त्वां केवलं सप्तकृत्वो यावत् न वदामि, किन्तु सप्तत्या गुणितं सप्तकृत्वो यावत्।
अपरं कटुवाक्यं रोषः कोषः कलहो निन्दा सर्व्वविधद्वेषश्चैतानि युष्माकं मध्याद् दूरीभवन्तु।
अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति,
अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं। यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
किन्तु यूयं यदि परस्परं दंदश्यध्वे ऽशाश्यध्वे च तर्हि युष्माकम् एकोऽन्येन यन्न ग्रस्यते तत्र युष्माभिः सावधानै र्भवितव्यं।
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
अपरञ्च सर्व्वैः सार्थम् एेक्यभावं यच्च विना परमेश्वरस्य दर्शनं केनापि न लप्स्यते तत् पवित्रत्वं चेष्टध्वं।
अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।
यतः प्रभो र्दासेन युद्धम् अकर्त्तव्यं किन्तु सर्व्वान् प्रति शान्तेन शिक्षादानेच्छुकेन सहिष्णुना च भवितव्यं, विपक्षाश्च तेन नम्रत्वेन चेतितव्याः।
हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च। यः प्रेम न करोति स ईश्वरं न जानाति यत ईश्वरः प्रेमस्वरूपः।
बलवद्भिरस्माभि र्दुर्ब्बलानां दौर्ब्बल्यं सोढव्यं न च स्वेषाम् इष्टाचार आचरितव्यः। अपरमपि लिखितम् आस्ते, हे अन्यजातयो यूयं समं नन्दत तज्जनैः। पुनश्च लिखितम् आस्ते, हे सर्व्वदेशिनो यूयं धन्यं ब्रूत परेश्वरं। हे तदीयनरा यूयं कुरुध्वं तत्प्रशंसनं॥ अपर यीशायियोऽपि लिलेख, यीशयस्य तु यत् मूलं तत् प्रकाशिष्यते तदा। सर्व्वजातीयनृणाञ्च शासकः समुदेष्यति। तत्रान्यदेशिलोकैश्च प्रत्याशा प्रकरिष्यते॥ अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु। हे भ्रातरो यूयं सद्भावयुक्ताः सर्व्वप्रकारेण ज्ञानेन च सम्पूर्णाः परस्परोपदेशे च तत्परा इत्यहं निश्चितं जानामि, तथाप्यहं यत् प्रगल्भतरो भवन् युष्मान् प्रबोधयामि तस्यैकं कारणमिदं। भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि। ईश्वरं प्रति यीशुख्रीष्टेन मम श्लाघाकरणस्य कारणम् आस्ते। भिन्नदेशिन आज्ञाग्राहिणः कर्त्तुं ख्रीष्टो वाक्येन क्रियया च, आश्चर्य्यलक्षणैश्चित्रक्रियाभिः पवित्रस्यात्मनः प्रभावेन च यानि कर्म्माणि मया साधितवान्, केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं। अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थञ्च तस्यैवेष्टाचारम् आचरतु।
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति। शान्त्याचारिभिः शान्त्या धर्म्मफलं रोप्यते।
परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत। यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत। हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।
अपरं लोचनस्य विनिमयेन लोचनं दन्तस्य विनिमयेन दन्तः पूर्व्वक्तमिदं वचनञ्च युष्माभिरश्रूयत। किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।
अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत। ये च ख्रीष्टधर्म्मे युष्माकं सदाचारं दूषयन्ति ते दुष्कर्म्मकारिणामिव युष्माकम् अपवादेन यत् लज्जिता भवेयुस्तदर्थं युष्माकम् उत्तमः संवेदो भवतु।
युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।
हे भ्रातरः, युष्माकं कश्चिद् यदि कस्मिंश्चित् पापे पतति तर्ह्यात्मिकभावयुक्तै र्युष्माभिस्तितिक्षाभावं विधाय स पुनरुत्थाप्यतां यूयमपि यथा तादृक्परीक्षायां न पतथ तथा सावधाना भवत।
यस्य यो दोषो युष्माभिः क्षम्यते तस्य स दोषो मयापि क्षम्यते यश्च दोषो मया क्षम्यते स युष्माकं कृते ख्रीष्टस्य साक्षात् क्षम्यते। शयतानः कल्पनास्माभिरज्ञाता नहि, अतो वयं यत् तेन न वञ्च्यामहे तदर्थम् अस्माभिः सावधानै र्भवितव्यं।
किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्। स त्यजेद् दुष्टतामार्गं सत्क्रियाञ्च समाचरेत्। मृगयाणश्च शान्तिं स नित्यमेवानुधावतु।
विघ्नात् जगतः सन्तापो भविष्यति, विघ्नोऽवश्यं जनयिष्यते, किन्तु येन मनुजेन विघ्नो जनिष्यते तस्यैव सन्तापो भविष्यति।
अतो युष्माकं या क्षमता सा दुर्ब्बलानाम् उन्माथस्वरूपा यन्न भवेत् तदर्थं सावधाना भवत।
इतः परं यीशुः शिष्यान् उवाच, विघ्नैरवश्यम् आगन्तव्यं किन्तु विघ्ना येन घटिष्यन्ते तस्य दुर्गति र्भविष्यति।
अतो हेतोः पिशिताशनं यदि मम भ्रातु र्विघ्नस्वरूपं भवेत् तर्ह्यहं यत् स्वभ्रातु र्विघ्नजनको न भवेयं तदर्थं यावज्जीवनं पिशितं न भोक्ष्ये।
किन्तु यो जनो मयि कृतविश्वासानामेतेषां क्षुद्रप्राणिनाम् एकस्यापि विध्निं जनयति, कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं श्रेयः।
किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं, यतस्त्वं स्वीयवचोभि र्निरपराधः स्वीयवचोभिश्च सापराधो गणिष्यसे।
यूयं कुतोऽन्यायसहनं क्षतिसहनं वा श्रेयो न मन्यध्वे? किन्तु यूयमपि भ्रातृनेव प्रत्यन्यायं क्षतिञ्च कुरुथ किमेतत्?
यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।
हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।
सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत। किन्तु यूयं ख्रीष्टं न तादृशं परिचितवन्तः, यतो यूयं तं श्रुतवन्तो या सत्या शिक्षा यीशुतो लभ्या तदनुसारात् तदीयोपदेशं प्राप्तवन्तश्चेति मन्ये। तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः, यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च। अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अङ्गप्रत्यङ्गा भवामः। अपरं क्रोधे जाते पापं मा कुरुध्वम्, अशान्ते युष्माकं रोषेसूर्य्योऽस्तं न गच्छतु। अपरं शयताने स्थानं मा दत्त। चोरः पुनश्चैर्य्यं न करोतु किन्तु दीनाय दाने सामर्थ्यं यज्जायते तदर्थं स्वकराभ्यां सद्वृत्त्या परिश्रमं करोतु। अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु। प्रणयबन्धनेन चात्मन एैक्यं रक्षितुं यतध्वं।
मां प्रति सर्व्वं कर्म्माप्रतिषिद्धं किन्तु न सर्व्वं हितजनकं सर्व्वम् अप्रतिषिद्धं किन्तु न सर्व्वं निष्ठाजनकं। आत्महितः केनापि न चेष्टितव्यः किन्तु सर्व्वैः परहितश्चेष्टितव्यः।
किन्तु त्वं निजं भ्रातरं कुतो दूषयसि? तथा त्वं निजं भ्रातरं कुतस्तुच्छं जानासि? ख्रीष्टस्य विचारसिंहासनस्य सम्मुखे सर्व्वैरस्माभिरुपस्थातव्यं;
निन्दितो ऽपि सन् स प्रतिनिन्दां न कृतवान् दुःखं सहमानो ऽपि न भर्त्सितवान् किन्तु यथार्थविचारयितुः समीपे स्वं समर्पितवान्।
यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि। तेनैव यदि परस्परं प्रीयध्वे तर्हि लक्षणेनानेन यूयं मम शिष्या इति सर्व्वे ज्ञातुं शक्ष्यन्ति।