पवित्रात्मा फलमेव दया। तस्यां क्षमाशीलता प्रेम च परमेश्वरस्य प्रतिबिम्बितं भवति। यतः परमेश्वरः दयालुः, सः पश्चात्तापिनां पापानि क्षमते। तस्य दया मार्गदर्शकः प्रेरणादायकः च। निराशकाले सा सहायिका भवति। भक्तराजः दाउदः उक्तवान् यत् परमेश्वरस्य दयां दृष्ट्वा नाहं क्लान्तोस्मि।
परमेश्वरः अस्माकं प्रति दयालुः, बहुभिः दयाभिः अस्मान् पूरयति। तस्मात् प्रार्थयामहे यत् सः अस्मान् स्वप्रतिबिम्बं कर्तुं रूपयेत्। लोकाः वचनमात्रात् परे प्रेममयं, पुनर्स्थापकं, परिवर्तकं, क्षमाशीलं च परमेश्वरं द्रष्टुमिच्छन्ति। वयं सर्वे परस्परं दयालवः भवितुं आहूताः स्मः। न केवलं ये अस्मान् सुष्ठु व्यवहरन्ति, अपि तु सर्वेषां प्रति यथा ख्रीष्टः अस्माकं प्रति दयालुः, तथैव वयं भवेम। इफिसियानाम् ४:३२ "परस्परं दयालवः करुणापराः च भवत, यथा ख्रीष्टे परमेश्वरः युष्मान् क्षमितवान् तथा परस्परं क्षमध्वम्।"
यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।
अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।
अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?
किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।
अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
अतो यूयं रिपुष्वपि प्रीयध्वं, परहितं कुरुत च; पुनः प्राप्त्याशां त्यक्त्वा ऋणमर्पयत, तथा कृते युष्माकं महाफलं भविष्यति, यूयञ्च सर्व्वप्रधानस्य सन्ताना इति ख्यातिं प्राप्स्यथ, यतो युष्माकं पिता कृतघ्नानां दुर्व्टत्तानाञ्च हितमाचरति।
तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
हे मम प्रियबालकाः, वाक्येन जिह्वया वास्माभिः प्रेम न कर्त्तव्यं किन्तु कार्य्येण सत्यतया चैव।
अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,
किन्त्वस्माकं त्रातुरीश्वरस्य या दया मर्त्त्यानां प्रति च या प्रीतिस्तस्याः प्रादुर्भावे जाते वयम् आत्मकृतेभ्यो धर्म्मकर्म्मभ्यस्तन्नहि किन्तु तस्य कृपातः पुनर्जन्मरूपेण प्रक्षालनेन प्रवित्रस्यात्मनो नूतनीकरणेन च तस्मात् परित्राणां प्राप्ताः
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
यतः प्रभो र्दासेन युद्धम् अकर्त्तव्यं किन्तु सर्व्वान् प्रति शान्तेन शिक्षादानेच्छुकेन सहिष्णुना च भवितव्यं, विपक्षाश्च तेन नम्रत्वेन चेतितव्याः।
अपरं कमपि प्रत्यनिष्टस्य फलम् अनिष्टं केनापि यन्न क्रियेत तदर्थं सावधाना भवत, किन्तु परस्परं सर्व्वान् मानवांश्च प्रति नित्यं हिताचारिणो भवत।
अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
किन्त्वेकः शोमिरोणीयो गच्छन् तत्स्थानं प्राप्य तं दृष्ट्वादयत। तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।
प्रेम चिरसहिष्णु हितैषि च, प्रेम निर्द्वेषम् अशठं निर्गर्व्वञ्च। अपरं तत् कुत्सितं नाचरति, आत्मचेष्टां न कुरुते सहसा न क्रुध्यति परानिष्टं न चिन्तयति, अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति। तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।
केषुचिद् भ्रातृषु भगिनीषु वा वसनहीनेषु प्रात्यहिकाहारहीनेषु च सत्सु युष्माकं कोऽपि तेभ्यः शरीरार्थं प्रयोजनीयानि द्रव्याणि न दत्वा यदि तान् वदेत्, यूयं सकुशलं गत्वोष्णगात्रा भवत तृप्यत चेति तर्ह्येतेन किं फलं?
यतो वयं तस्य कार्य्यं प्राग् ईश्वरेण निरूपिताभिः सत्क्रियाभिः कालयापनाय ख्रीष्टे यीशौ तेन मृष्टाश्च।
येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत। यो वाक्यं कथयति स ईश्वरस्य वाक्यमिव कथयतु यश्च परम् उपकरोति स ईश्वरदत्तसामर्थ्यादिवोपकरोतु। सर्व्वविषये यीशुख्रीष्टेनेश्वरस्य गौरवं प्रकाश्यतां तस्यैव गौरवं पराक्रमश्च सर्व्वदा भूयात्। आमेन।
सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।
मानवान् अनुद्दिश्य प्रभुमेवोद्दिश्य सद्भावेन दास्यकर्म्म कुरुध्वं। दासमुक्तयो र्येन यत् सत्कर्म्म क्रियते तेन तस्य फलं प्रभुतो लप्स्यत इति जानीत च।
यतो बुभुक्षिताय मह्यं भोज्यम् अदत्त, पिपासिताय पेयमदत्त, विदेशिनं मां स्वस्थानमनयत, वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत।
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।
यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।
सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?
हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।
अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण यश्चावतीर्णवान् स एव स्वर्गाणाम् उपर्य्युपर्य्यारूढवान् यतः सर्व्वाणि तेन पूरयितव्यानि। स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्। यावद् वयं सर्व्वे विश्वासस्येश्वरपुत्रविषयकस्य तत्त्वज्ञानस्य चैक्यं सम्पूर्णं पुरुषर्थञ्चार्थतः ख्रीष्टस्य सम्पूर्णपरिमाणस्य समं परिमाणं न प्राप्नुमस्तावत् स परिचर्य्याकर्म्मसाधनाय ख्रीष्टस्य शरीरस्य निष्ठायै च पवित्रलोकानां सिद्धतायास्तादृशम् उपायं निश्चितवान्। अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं, प्रेम्ना सत्यताम् आचरद्भिः सर्व्वविषये ख्रीष्टम् उद्दिश्य वर्द्धितव्यञ्च, यतः स मूर्द्धा, तस्माच्चैकैकस्याङ्गस्य स्वस्वपरिमाणानुसारेण साहाय्यकरणाद् उपकारकैः सर्व्वैः सन्धिभिः कृत्स्नस्य शरीरस्य संयोगे सम्मिलने च जाते प्रेम्ना निष्ठां लभमानं कृत्स्नं शरीरं वृद्धिं प्राप्नोति। युष्मान् अहं प्रभुनेदं ब्रवीम्यादिशामि च, अन्ये भिन्नजातीया इव यूयं पून र्माचरत। यतस्ते स्वमनोमायाम् आचरन्त्यान्तरिकाज्ञानात् मानसिककाठिन्याच्च तिमिरावृतबुद्धय ईश्वरीयजीवनस्य बगीर्भूताश्च भवन्ति, स्वान् चैतन्यशून्यान् कृत्वा च लोभेन सर्व्वविधाशौचाचरणाय लम्पटतायां स्वान् समर्पितवन्तः। सर्व्वथा नम्रतां मृदुतां तितिक्षां परस्परं प्रम्ना सहिष्णुताञ्चाचरत।
यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।
ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।
योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु, यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां।
अतोऽस्माकम् ईश्वरो युष्मान् तस्याह्वानस्य योग्यान् करोतु सौजन्यस्य शुभफलं विश्वासस्य गुणञ्च पराक्रमेण साधयत्विति प्रार्थनास्माभिः सर्व्वदा युष्मन्निमित्तं क्रियते,
यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि। तेनैव यदि परस्परं प्रीयध्वे तर्हि लक्षणेनानेन यूयं मम शिष्या इति सर्व्वे ज्ञातुं शक्ष्यन्ति।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं। यस्मात् त्वं समीपवासिनि स्ववत् प्रेम कुर्य्या इत्येकाज्ञा कृत्स्नाया व्यवस्थायाः सारसंग्रहः।
निजसमीपवसिनि प्रेम कुरु, किन्तु शत्रुं प्रति द्वेषं कुरु, यदेतत् पुरोक्तं वचनं एतदपि यूयं श्रुतवन्तः। किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।
अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च; यतो यत्र युष्माकं धनं वर्त्तते तत्रेव युष्माकं मनः।
किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा ज्ञापय। तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति? तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत। यस्मात् देवार्च्चका अपीति चेष्टन्ते; एतेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति। अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते। श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा। तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।
अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति ख्रीष्टयीशुना समिते र्मध्ये सर्व्वेषु युगेषु तस्य धन्यवादो भवतु। इति।
इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।
हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।
अहं युष्मासु यथा प्रीये यूयमपि परस्परं तथा प्रीयध्वम् एषा ममाज्ञा। मित्राणां कारणात् स्वप्राणदानपर्य्यन्तं यत् प्रेम तस्मान् महाप्रेम कस्यापि नास्ति।
ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम् ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।
अनेन प्रकारेण ग्रहणद् दानं भद्रमिति यद्वाक्यं प्रभु र्यीशुः कथितवान् तत् स्मर्त्तुं दरिद्रलोकानामुपकारार्थं श्रमं कर्त्तुञ्च युष्माकम् उचितम् एतत्सर्व्वं युष्मानहम् उपदिष्टवान्।
क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।