अथ रात्रौ स्वप्नदर्शनेन रहस्यस्य ज्ञानं दानियेलाय प्राप्तम्। तेन च स्वर्गस्थस्य ईश्वरस्य स्तुतिः कृता। तद्वत् भवतामपि हृदि धार्यताम् यत् ईश्वराराधनया, तत्सम्माननया, तत्प्रशंसया च तस्य प्रसादं लभामहे। तस्य आज्ञापालनेन, धर्ममार्गेण, तद्वचनानुसारं जीवनयापनद्वारा वयं तं स्तुमः।
प्रतिप्रातः सः वन्दनीयः, तस्य महिमा सामर्थ्यं च स्मरणीयम्, अस्मासु तस्य अपारप्रेमभावश्च अनुभूयताम्। अतः अस्माकं मुखं तु न कदापि पिधातव्यम्, अपि तु सर्वदा तत्स्तुतिगानैः पूरितं भवेत्।
अतीव महत्त्वपूर्णम् अस्ति यत् समस्तः ख्रीष्टसङ्घः एकचित्तः भूत्वा तस्य नामोच्चारणं कुर्यात्, विशालसभाः आयोज्य तत्रैकमत्या भूत्वा परमेश्वरस्य, राज्ञः स्तुतिं कुर्यात्। स्पष्टमेव भवेत् यत् तस्य प्रजाः तस्य महिम्नः सम्मुखे नतमस्तकाः भूत्वा सर्वशक्तिमते ईश्वराय समर्पिताः सन्ति।
अग्रगामिनः पश्चाद्गामिनश्च मनुजा उच्चैर्जय जय दायूदः सन्तानेति जगदुः परमेश्वरस्य नाम्ना य आयाति स धन्यः, सर्व्वोपरिस्थस्वर्गेपि जयति।
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।
अनन्तरं सिंहासनमध्याद् एष रवो निर्गतो, यथा, हे ईश्वरस्य दासेयास्तद्भक्ताः सकला नराः। यूयं क्षुद्रा महान्तश्च प्रशंसत व ईश्वरं॥
तत्पश्चाद् दूतविज्ञप्तानुरूपं श्रुत्वा दृष्ट्वा च मेषपालका ईश्वरस्य गुणानुवादं धन्यवादञ्च कुर्व्वाणाः परावृत्य ययुः।
शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा, हे प्रभो तव दासोयं निजवाक्यानुसारतः। इदानीन्तु सकल्याणो भवता संविसृज्यताम्। अतो हेतो र्नाम लेखितुं सर्व्वे जनाः स्वीयं स्वीयं नगरं जग्मुः। यतः सकलदेशस्य दीप्तये दीप्तिरूपकं।
तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः। ततो निरन्तरं मन्दिरे तिष्ठन्त ईश्वरस्य प्रशंसां धन्यवादञ्च कर्त्तम् आरेभिरे। इति॥
अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन् तदाकस्मात् महान् भूमिकम्पोऽभवत् तेन भित्तिमूलेन सह कारा कम्पिताभूत् तत्क्षणात् सर्व्वाणि द्वाराणि मुक्तानि जातानि सर्व्वेषां बन्धनानि च मुक्तानि।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?
पुनश्च लिखितम् आस्ते, हे सर्व्वदेशिनो यूयं धन्यं ब्रूत परेश्वरं। हे तदीयनरा यूयं कुरुध्वं तत्प्रशंसनं॥
तैरुच्चैरिदम् उक्तं, पराक्रमं धनं ज्ञानं शक्तिं गौरवमादरं। प्रशंसाञ्चार्हति प्राप्तुं छेदितो मेषशावकः॥
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।