Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

115 प्रथमफलबलिदानस्य विषये बाइबिलश्लोकाः

115 प्रथमफलबलिदानस्य विषये बाइबिलश्लोकाः

प्रथमफलं, भक्तेः कृतज्ञतायाश्च विशिष्टमर्पणम् अस्ति यत् ईश्वराय निवेद्यते। पवित्रग्रन्थे, प्रथमफलं मुख्यतया भूम्याः पशूनां च प्रथमैः फलैः सह सम्बद्धम् अस्ति।

प्रथमफलस्य महत्वम् एतस्मिन् अस्ति यत् सर्वं ईश्वरात् प्रभवति इति स्वीकृत्य तं पूजयितव्यम्, तस्मै प्रथमं श्रेष्ठं च दत्त्वा। एषः विश्वासस्य तस्य प्रबन्धे च निर्भरतायाः कार्यम् अस्ति, स्वीकृत्य यत् सः सर्वेषां वस्तूनां स्वामी प्रदाता च अस्ति।

प्रथमफलं स्मारयति यत् अस्माभिः जीवनस्य सर्वेषु क्षेत्रेषु ईश्वरस्य प्राधान्यं दातव्यम्। न केवलं भौतिकार्पणं करणीयम्, अपि तु स्वस्य समयः, प्रतिभा, सम्पत्तिः निर्णयाः च ईश्वराय अर्पणीयाः।

ईश्वरं प्रथमस्थाने स्थापयित्वा, वयं तस्मै कथयामः यत् अस्माकं तस्मिन् विश्वासः अस्ति, यत् च वयं तस्य मार्गदर्शनं सर्वेषु कार्येषु इच्छामः। यथा याकूब १:१८ उक्तम्, "स्वेच्छया सत्यवचनेन अस्मान् जनयित्वा सः स्वसृष्टौ प्रथमफलं कृतवान्।"


1 कुरिन्थियों 15:20

इदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 11:16

अपरं प्रथमजातं फलं यदि पवित्रं भवति तर्हि सर्व्वमेव फलं पवित्रं भविष्यति; तथा मूलं यदि पवित्रं भवति तर्हि शाखा अपि तथैव भविष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 1:18

तस्य सृष्टवस्तूनां मध्ये वयं यत् प्रथमफलस्वरूपा भवामस्तदर्थं स स्वेच्छातः सत्यमतस्य वाक्येनास्मान् जनयामास।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:23

केवलः स इति नहि किन्तु प्रथमजातफलस्वरूपम् आत्मानं प्राप्ता वयमपि दत्तकपुत्रत्वपदप्राप्तिम् अर्थात् शरीरस्य मुक्तिं प्रतीक्षमाणास्तद्वद् अन्तरार्त्तरावं कुर्म्मः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 19:28

ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:7

एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:6-7

अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते। एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 15:23

किन्त्वेकैकेन जनेन निजे निजे पर्य्याय उत्थातव्यं प्रथमतः प्रथमजातफलस्वरूपेन ख्रीष्टेन, द्वितीयतस्तस्यागमनसमये ख्रीष्टस्य लोकैः।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 6:38

दानानिदत्त तस्माद् यूयं दानानि प्राप्स्यथ, वरञ्च लोकाः परिमाणपात्रं प्रदलय्य सञ्चाल्य प्रोञ्चाल्य परिपूर्य्य युष्माकं क्रोडेषु समर्पयिष्यन्ति; यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मत्कृते परिमास्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:18

किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:16

अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:21

यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 23:23

हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 16:2

ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 21:1-4

अथ धनिलोका भाण्डागारे धनं निक्षिपन्ति स तदेव पश्यति, अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति, नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते। किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च। साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते। तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत। विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि। किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति। मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे। किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति, तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत। एतर्हि काचिद्दीना विधवा पणद्वयं निक्षिपति तद् ददर्श। अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ। तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु, यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति। किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते। वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते। सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति। भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति। तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति। किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति। ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्, नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ, तथा सर्व्वासामासां घटनानाम् आरम्भे दृष्टे सतीश्वरस्य राजत्वं निकटम् इत्यपि ज्ञास्यथ। युष्मानहं यथार्थं वदामि, विद्यमानलोकानामेषां गमनात् पूर्व्वम् एतानि घटिष्यन्ते। नभोभुवोर्लोपो भविष्यति मम वाक् तु कदापि लुप्ता न भविष्यति। अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत। पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति। यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं। अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्। ततः प्रत्यूषे लाकास्तत्कथां श्रोतुं मन्दिरे तदन्तिकम् आगच्छन्। यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 4:34-35

तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय तन्मूल्यमानीय प्रेरितानां चरणेषु तैः स्थापितं; ततः प्रत्येकशः प्रयोजनानुसारेण दत्तमभवत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 20:35

अनेन प्रकारेण ग्रहणद् दानं भद्रमिति यद्वाक्यं प्रभु र्यीशुः कथितवान् तत् स्मर्त्तुं दरिद्रलोकानामुपकारार्थं श्रमं कर्त्तुञ्च युष्माकम् उचितम् एतत्सर्व्वं युष्मानहम् उपदिष्टवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:1

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 8:12

यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 6:17-18

इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु,

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:10-11

बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च। तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 12:33-34

अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च; यतो यत्र युष्माकं धनं वर्त्तते तत्रेव युष्माकं मनः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 10:8

आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 8:3

प्रभृतयो या बह्व्यः स्त्रियः दुष्टभूतेभ्यो रोगेभ्यश्च मुक्ताः सत्यो निजविभूती र्व्ययित्वा तमसेवन्त, ताः सर्व्वास्तेन सार्द्धम् आसन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:2-4

त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त। किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत। यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि। लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति। किन्तु लोचनेऽप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतएव या दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्। कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ। अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि? विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति। यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति? अपरं वसनाय कुतश्चिन्तयत? क्षेत्रोत्पन्नानि पुष्पाणि कथं वर्द्धन्ते तदालोचयत। तानि तन्तून् नोत्पादयन्ति किमपि कार्य्यं न कुर्व्वन्ति; तथाप्यहं युष्मान् वदामि, सुलेमान् तादृग् ऐश्वर्य्यवानपि तत्पुष्पमिव विभूषितो नासीत्। किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा ज्ञापय। तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति? तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत। यस्मात् देवार्च्चका अपीति चेष्टन्ते; एतेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति। अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते। श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा। तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 19:8

किन्तु सक्केयो दण्डायमानो वक्तुमारेभे, हे प्रभो पश्य मम या सम्पत्तिरस्ति तदर्द्धं दरिद्रेभ्यो ददे, अपरम् अन्यायं कृत्वा कस्मादपि यदि कदापि किञ्चित् मया गृहीतं तर्हि तच्चतुर्गुणं ददामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 3:17

सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 25:40

तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:13

पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:16

येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 2:44-45

विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत। फलतो गृहाणि द्रव्याणि च सर्व्वाणि विक्रीय सर्व्वेषां स्वस्वप्रयोजनानुसारेण विभज्य सर्व्वेभ्योऽददन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:11

तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 8:7

अतो विश्वासो वाक्पटुता ज्ञानं सर्व्वोत्साहो ऽस्मासु प्रेम चैतै र्गुणै र्यूयं यथापरान् अतिशेध्वे तथैवैतेन गुणेनाप्यतिशेध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे प्रभो येशु, भवान् एव सर्वस्तुत्य-प्रणामार्हः। भवान् आदिः, भवान् अन्तः। भवतः कर्मसु सर्वत्र पूर्णता विद्यते। मम जीवने भवतः करुणा, भवतः दया अपारः। भवतः कृपावर्षेण अहं परिपूर्णः, भवता एव अहं धृतः। अद्य सर्वस्मै धन्यवादं वदामि। मम कुटुम्बाय, प्रतिदिनं भोजन-व्यवस्थायै धन्यवादः। अद्य, सर्वदा च मम जीवनेन, भवतः प्रदत्तेन च सर्वेण भवन्तं पूजयितुम् इच्छामि। न केवलं धनस्य प्रथमभागम्, अपि तु हृदयस्य प्रथमस्थानं च भवते समर्पयितुम् इच्छामि। भवतः वचनम् (रोम ११:१६) वदति, "यदि प्रथमफलं पवित्रं भवति, तर्हि समस्तफलमपि पवित्रं भवति; यदि मूलं पवित्रं भवति, तर्हि शाखा अपि पवित्राः भवन्ति।" हे दयालु प्रभो, मम प्रथमफलं भवते समर्पयामि यतः मम सम्पूर्णं जीवनं भवते रोचते इति कामये। अतः मम अस्तित्वं पवित्रं कुरु, मम आत्मानं शुद्धं कुरु, मम भावनानां पूर्णं नियन्त्रणं गृहाण, येन मम प्रत्येकं पदं भवतः वाण्या निर्देशितं भवेत्। सर्वं यशः, सर्वं मानं, सर्वं स्तुतिं येशोः नाम्नि स्वीकुरु। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्