ईश्वरं विना जीवनं यदि जीवसि, तस्य सान्निध्यभयं विस्मृत्य लोकेश्वरविरुद्धं कर्म कर्तुं शक्नोसि। कदाचित् तेन सह साक्षात्कारः एव न भवति। नरनारीणां हृदयं छलपूर्णं भवति स्वकीयानां कुटिलानां कामनानां पूर्त्यै प्रयतमानं, अन्तःस्थितेन कामवासनानुसारम्।
ऋजुमार्गेण जीवनं यापयितुम् एक एव उपायः अस्ति यत् ईश्वरवचनं हृदि धारयित्वा तस्य इच्छानुसारं कर्म कुर्यात्, येन अन्तःकरणात् एव शुद्धं सत्यं च आचर्यते।
ईश्वरः आहुतीनां दुरुपयोगे न प्रसीदति। ताः आहुतयः ईश्वरकार्यवृद्धये, सर्वेषां प्राणिनां कृते सुसंवादप्रचाराय च उपयोगं नीताः स्युः, येन लोकेश्वरेण प्रदत्तः आदेशः पाल्येत।
आहुतीनां सदुपयोगाय, तस्येच्छानुसारं मार्गदर्शनं प्राप्तुं च ईश्वरप्रार्थना अति आवश्यकम् अस्ति।
अन्यच्च वदथ, यज्ञवेद्याः शपथकरणात् किमपि न देयं, किन्तु तदुपरिस्थितस्य नैवेद्यस्य शपथकरणाद् देयं। हे मूढा हे अन्धाः, नैवेद्यं तन्नैवेद्यपावकवेदिरेतयोरुभयो र्मध्ये किं श्रेयः?
एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
अतो वेद्याः समीपं निजनैवेद्ये समानीतेऽपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च, तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निधाय तदैव गत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् आगत्य निजनैवेद्यं निवेदय।
यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
अथ धनिलोका भाण्डागारे धनं निक्षिपन्ति स तदेव पश्यति, अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति, नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते। किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च। साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते। तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत। विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि। किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति। मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे। किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति, तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत। एतर्हि काचिद्दीना विधवा पणद्वयं निक्षिपति तद् ददर्श। अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ। तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु, यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति। किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते। वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते। सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति। भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति। तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति। किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति। ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्, नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ, तथा सर्व्वासामासां घटनानाम् आरम्भे दृष्टे सतीश्वरस्य राजत्वं निकटम् इत्यपि ज्ञास्यथ। युष्मानहं यथार्थं वदामि, विद्यमानलोकानामेषां गमनात् पूर्व्वम् एतानि घटिष्यन्ते। नभोभुवोर्लोपो भविष्यति मम वाक् तु कदापि लुप्ता न भविष्यति। अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत। पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति। यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं। अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्। ततः प्रत्यूषे लाकास्तत्कथां श्रोतुं मन्दिरे तदन्तिकम् आगच्छन्। यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
वदनै र्मनुजा एते समायान्ति मदन्तिकं। तथाधरै र्मदीयञ्च मानं कुर्व्वन्ति ते नराः। किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।
अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
सावधाना भवत, मनुजान् दर्शयितुं तेषां गोचरे धर्म्मकर्म्म मा कुरुत, तथा कृते युष्माकं स्वर्गस्थपितुः सकाशात् किञ्चन फलं न प्राप्स्यथ। तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु। अस्माकं प्रयोजनीयम् आहारम् अद्य देहि। वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व। अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु। यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते; किन्तु यदि यूयम् अन्येषाम् अपराधान् न क्षमध्वे, तर्हि युष्माकं जनकोपि युष्माकम् अपराधान् न क्षमिष्यते। अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त। यदा त्वम् उपवससि, तदा यथा लोकैस्त्वं उपवासीव न दृश्यसे, किन्तु तव योऽगोचरः पिता तेनैव दृश्यसे, तत्कृते निजशिरसि तैलं मर्द्दय वदनञ्च प्रक्षालय; तेन तव यः पिता गुप्तदर्शी स प्रकाश्य तुभ्यं फलं दास्यति। अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत। त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त। किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत। यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि। लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति। किन्तु लोचनेऽप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतएव या दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्। कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ। अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि? विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति। यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति? अपरं वसनाय कुतश्चिन्तयत? क्षेत्रोत्पन्नानि पुष्पाणि कथं वर्द्धन्ते तदालोचयत। तानि तन्तून् नोत्पादयन्ति किमपि कार्य्यं न कुर्व्वन्ति; तथाप्यहं युष्मान् वदामि, सुलेमान् तादृग् ऐश्वर्य्यवानपि तत्पुष्पमिव विभूषितो नासीत्। किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा ज्ञापय। तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति? तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत। यस्मात् देवार्च्चका अपीति चेष्टन्ते; एतेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति। अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते। श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा। तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।
हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।
तदनन्तरं लोका भाण्डागारे मुद्रा यथा निक्षिपन्ति भाण्डागारस्य सम्मुखे समुपविश्य यीशुस्तदवलुलोक; तदानीं बहवो धनिनस्तस्य मध्ये बहूनि धनानि निरक्षिपन्। पश्चाद् एका दरिद्रा विधवा समागत्य द्विपणमूल्यां मुद्रैकां तत्र निरक्षिपत्। तदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म। यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।
यूयमपि जीवत्प्रस्तरा इव निचीयमाना आत्मिकमन्दिरं ख्रीष्टेन यीशुना चेश्वरतोषकाणाम् आत्मिकबलीनां दानार्थं पवित्रो याजकवर्गो भवथ।
अपरं यद्यहम् अन्नदानेन सर्व्वस्वं त्यजेयं दाहनाय स्वशरीरं समर्पयेयञ्च किन्तु यदि प्रेमहीनो भवेयं तर्हि तत्सर्व्वं मदर्थं निष्फलं भवति।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते। स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।
यतोऽर्थस्पृहा सर्व्वेषां दुरितानां मूलं भवति तामवलम्ब्य केचिद् विश्वासाद् अभ्रंशन्त नानाक्लेशैश्च स्वान् अविध्यन्।
यतः शारीरिकाभिलाष आत्मनो विपरीतः, आत्मिकाभिलाषश्च शरीरस्य विपरीतः, अनयोरुभयोः परस्परं विरोधो विद्यते तेन युष्माभि र्यद् अभिलष्यते तन्न कर्त्तव्यं।
तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव। यत इतरेषां विरामेण युष्माकञ्च क्लेशेन भवितव्यं तन्नहि किन्तु समतयैव। वर्त्तमानसमये युष्माकं धनाधिक्येन तेषां धनन्यूनता पूरयितव्या तस्मात् तेषामप्याधिक्येन युष्माकं न्यूनता पूरयिष्यते तेन समता जनिष्यते। तदेव शास्त्रेऽपि लिखितम् आस्ते यथा, येनाधिकं संगृहीतं तस्याधिकं नाभवत् येन चाल्पं संगृहीतं तस्याल्पं नाभवत्।
तदा अनानियनामक एको जनो यस्य भार्य्याया नाम सफीरा स स्वाधिकारं विक्रीय ततः सापि तस्य चरणसन्निधौ पतित्वा प्राणान् अत्याक्षीत्। पश्चात् ते युवानोऽभ्यन्तरम् आगत्य तामपि मृतां दृष्ट्वा बहि र्नीत्वा तस्याः पत्युः पार्श्वे श्मशाने स्थापितवन्तः। तस्मात् मण्डल्याः सर्व्वे लोका अन्यलोकाश्च तां वार्त्तां श्रुत्वा साध्वसं गताः। ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो ऽलिन्दे सम्भूयासन्। तेषां सङ्घान्तर्गो भवितुं कोपि प्रगल्भतां नागमत् किन्तु लोकास्तान् समाद्रियन्त। स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः। पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः। चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणोऽपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त। अनन्तरं महायाजकः सिदूकिनां मतग्राहिणस्तेषां सहचराश्च महाक्रोधान्त्विताः सन्तः प्रेरितान् धृत्वा नीचलोकानां कारायां बद्ध्वा स्थापितवन्तः। किन्तु रात्रौ परमेश्वरस्य दूतः काराया द्वारं मोचयित्वा तान् बहिरानीयाकथयत्, स्वभार्य्यां ज्ञापयित्वा तन्मूल्यस्यैकांशं सङ्गोप्य स्थापयित्वा तदन्यांशमात्रमानीय प्रेरितानां चरणेषु समर्पितवान्। यूयं गत्वा मन्दिरे दण्डायमानाः सन्तो लोकान् प्रतीमां जीवनदायिकां सर्व्वां कथां प्रचारयत। इति श्रुत्वा ते प्रत्यूषे मन्दिर उपस्थाय उपदिष्टवन्तः। तदा सहचरगणेन सहितो महायाजक आगत्य मन्त्रिगणम् इस्रायेल्वंशस्य सर्व्वान् राजसभासदः सभास्थान् कृत्वा कारायास्तान् आपयितुं पदातिगणं प्रेरितवान्। ततस्ते गत्वा कारायां तान् अप्राप्य प्रत्यागत्य इति वार्त्ताम् अवादिषुः, वयं तत्र गत्वा निर्व्विघ्नं काराया द्वारं रुद्धं रक्षकांश्च द्वारस्य बहिर्दण्डायमानान् अदर्शाम एव किन्तु द्वारं मोचयित्वा तन्मध्ये कमपि द्रष्टुं न प्राप्ताः। एतां कथां श्रुत्वा महायाजको मन्दिरस्य सेनापतिः प्रधानयाजकाश्च, इत परं किमपरं भविष्यतीति चिन्तयित्वा सन्दिग्धचित्ता अभवन्। एतस्मिन्नेव समये कश्चित् जन आगत्य वार्त्तामेताम् अवदत् पश्यत यूयं यान् मानवान् कारायाम् अस्थापयत ते मन्दिरे तिष्ठन्तो लोकान् उपदिशन्ति। तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्। ते महासभाया मध्ये तान् अस्थापयन् ततः परं महायाजकस्तान् अपृच्छत्, अनेन नाम्ना समुपदेष्टुं वयं किं दृढं न न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे। ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्। तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्? यं यीशुं यूयं क्रुशे वेधित्वाहत तम् अस्माकं पैतृक ईश्वर उत्थाप्य इस्रायेल्वंशानां मनःपरिवर्त्तनं पापक्षमाञ्च कर्त्तुं राजानं परित्रातारञ्च कृत्वा स्वदक्षिणपार्श्वे तस्यान्नतिम् अकरोत्। एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति। एतद्वाक्ये श्रुते तेषां हृदयानि विद्धान्यभवन् ततस्ते तान् हन्तुं मन्त्रितवन्तः। एतस्मिन्नेव समये तत्सभास्थानां सर्व्वलोकानां मध्ये सुख्यातो गमिलीयेल्नामक एको जनो व्यवस्थापकः फिरूशिलोक उत्थाय प्रेरितान् क्षणार्थं स्थानान्तरं गन्तुम् आदिश्य कथितवान्, हे इस्रायेल्वंशीयाः सर्व्वे यूयम् एतान् मानुषान् प्रति यत् कर्त्तुम् उद्यतास्तस्मिन् सावधाना भवत। इतः पूर्व्वं थूदानामैको जन उपस्थाय स्वं कमपि महापुरुषम् अवदत्, ततः प्रायेण चतुःशतलोकास्तस्य मतग्राहिणोभवन् पश्चात् स हतोभवत् तस्याज्ञाग्राहिणो यावन्तो लोकास्ते सर्व्वे विर्कीर्णाः सन्तो ऽकृतकार्य्या अभवन्। तस्माज्जनात् परं नामलेखनसमये गालीलीययिहूदानामैको जन उपस्थाय बहूल्लोकान् स्वमतं ग्राहीतवान् ततः सोपि व्यनश्यत् तस्याज्ञाग्राहिणो यावन्तो लोका आसन् ते सर्व्वे विकीर्णा अभवन्। अधुना वदामि, यूयम् एतान् मनुष्यान् प्रति किमपि न कृत्वा क्षान्ता भवत, यत एष सङ्कल्प एतत् कर्म्म च यदि मनुष्यादभवत् तर्हि विफलं भविष्यति। यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ। सा भूमि र्यदा तव हस्तगता तदा किं तव स्वीया नासीत्? तर्हि स्वान्तःकरणे कुत एतादृशी कुकल्पना त्वया कृता? त्वं केवलमनुष्यस्य निकटे मृषावाक्यं नावादीः किन्त्वीश्वरस्य निकटेऽपि।
ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।
अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।
विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।
ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।
यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।"
ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव।
इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु, यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां।