प्रेम्णि जीव, यथा मसीहः अस्मान् प्रेम कृत्वा आत्मानं प्रदत्तवान् सुगन्धिनः यज्ञरूपेण ईश्वराय। एफेसियन् ५.२ भवते कृते महायज्ञं मसीहः क्रुसि आचरितवान्, मृत्युपर्यन्तं प्रेम कृत्वा। कालचक्रस्य परिवर्तनेऽपि तस्य प्रेम अविकारी। महत्तमं यज्ञं सम्पन्नं इति अवगन्तव्यम्, परन्तु अधुना भवानपि ईश्वराय रोचता यज्ञः भवितुम् अर्हति। भवतः सेवा, भक्तिः, दानं च स्वर्गस्थपितुः प्रीत्यै भवतु, ज्ञात्वा यत् येशुना सर्वं प्रदत्तम् अस्ति, यच्चापि भवान् अर्पयति तत् तस्य प्रेम्णः पुरतः अल्पम् एव। ईश्वराय दानं, तस्य कार्यस्य पालनम्, प्रेमव्यञ्जकम्, न तु भारः कर्तव्यं वा, अपि तु ईश्वरप्रेम्णः येशोः यज्ञस्य च प्रत्युत्तरम्, यत् स्वर्गात् प्राप्तं तत् प्रत्यर्पयितुम् इच्छया।
अपरञ्च तेषां पापान्यपराधांश्च पुनः कदापि न स्मारिष्यामि।" किन्तु यत्र पापमोचनं भवति तत्र पापार्थकबलिदानं पुन र्न भवति।
ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
तेन तस्य प्रभुस्तमवोचत्, हे उत्तम विश्वास्य दास, त्वं धन्योसि, स्तोकेन विश्वास्यो जातः, तस्मात् त्वां बहुद्रविणाधिपं करोमि, त्वं निजप्रभोः सुखस्य भागी भव। अनन्तरं य एकां पोटलिकां लब्धवान्, स एत्य कथितवान्, हे प्रभो, त्वां कठिननरं ज्ञातवान्, त्वया यत्र नोप्तं, तत्रैव कृत्यते, यत्र च न कीर्णं, तत्रैव संगृह्यते।
एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
तदनन्तरं लोका भाण्डागारे मुद्रा यथा निक्षिपन्ति भाण्डागारस्य सम्मुखे समुपविश्य यीशुस्तदवलुलोक; तदानीं बहवो धनिनस्तस्य मध्ये बहूनि धनानि निरक्षिपन्। पश्चाद् एका दरिद्रा विधवा समागत्य द्विपणमूल्यां मुद्रैकां तत्र निरक्षिपत्। तदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म। यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।
यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
दानानिदत्त तस्माद् यूयं दानानि प्राप्स्यथ, वरञ्च लोकाः परिमाणपात्रं प्रदलय्य सञ्चाल्य प्रोञ्चाल्य परिपूर्य्य युष्माकं क्रोडेषु समर्पयिष्यन्ति; यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मत्कृते परिमास्यते।
यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।
हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।
अथ धनिलोका भाण्डागारे धनं निक्षिपन्ति स तदेव पश्यति, अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति, नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते। किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च। साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते। तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत। विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि। किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति। मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे। किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति, तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत। एतर्हि काचिद्दीना विधवा पणद्वयं निक्षिपति तद् ददर्श। अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ। तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु, यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति। किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते। वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते। सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति। भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति। तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति। किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति। ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्, नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ, तथा सर्व्वासामासां घटनानाम् आरम्भे दृष्टे सतीश्वरस्य राजत्वं निकटम् इत्यपि ज्ञास्यथ। युष्मानहं यथार्थं वदामि, विद्यमानलोकानामेषां गमनात् पूर्व्वम् एतानि घटिष्यन्ते। नभोभुवोर्लोपो भविष्यति मम वाक् तु कदापि लुप्ता न भविष्यति। अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत। पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति। यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं। अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्। ततः प्रत्यूषे लाकास्तत्कथां श्रोतुं मन्दिरे तदन्तिकम् आगच्छन्। यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
अनेन प्रकारेण ग्रहणद् दानं भद्रमिति यद्वाक्यं प्रभु र्यीशुः कथितवान् तत् स्मर्त्तुं दरिद्रलोकानामुपकारार्थं श्रमं कर्त्तुञ्च युष्माकम् उचितम् एतत्सर्व्वं युष्मानहम् उपदिष्टवान्।
किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।
यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।
इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु, यथा च सत्यं जीवनं पाप्नुयुस्तथा पारत्रिकाम् उत्तमसम्पदं सञ्चिन्वन्त्वेति त्वयादिश्यन्तां।
शालमस्य राजा सर्व्वोपरिस्थस्येश्वरस्य याजकश्च सन् यो नृपतीनां मारणात् प्रत्यागतम् इब्राहीमं साक्षात्कृत्याशिषं गदितवान्, यतो यदा मल्कीषेदक् तस्य पितरं साक्षात् कृतवान् तदानीं स लेविः पितुरुरस्यासीत्। अपरं यस्य सम्बन्धे लोका व्यवस्थां लब्धवन्तस्तेन लेवीययाजकवर्गेण यदि सिद्धिः समभविष्यत् तर्हि हारोणस्य श्रेण्या मध्याद् याजकं न निरूप्येश्वरेण मल्कीषेदकः श्रेण्या मध्याद् अपरस्यैकस्य याजकस्योत्थापनं कुत आवश्यकम् अभविष्यत्? यतो याजकवर्गस्य विनिमयेन सुतरां व्यवस्थाया अपि विनिमयो जायते। अपरञ्च तद् वाक्यं यस्योद्देश्यं सोऽपरेण वंशेन संयुक्ताऽस्ति तस्य वंशस्य च कोऽपि कदापि वेद्याः कर्म्म न कृतवान्। वस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशेऽस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं। तस्य स्पष्टतरम् अपरं प्रमाणमिदं यत् मल्कीषेदकः सादृश्यवतापरेण तादृशेन याजकेनोदेतव्यं, यस्य निरूपणं शरीरसम्बन्धीयविधियुक्तया व्यवस्थाया न भवति किन्त्वक्षयजीवनयुक्तया शक्त्या भवति। यत ईश्वर इदं साक्ष्यं दत्तवान्, यथा, "त्वं मक्लीषेदकः श्रेण्यां याजकोऽसि सदातनः।" अनेनाग्रवर्त्तिनो विधे दुर्ब्बलताया निष्फलतायाश्च हेतोरर्थतो व्यवस्थया किमपि सिद्धं न जातमितिहेतोस्तस्य लोपो भवति। यया च वयम् ईश्वरस्य निकटवर्त्तिनो भवाम एतादृशी श्रेष्ठप्रत्याशा संस्थाप्यते। यस्मै चेब्राहीम् सर्व्वद्रव्याणां दशमांशं दत्तवान् स मल्कीषेदक् स्वनाम्नोऽर्थेन प्रथमतो धर्म्मराजः पश्चात् शालमस्य राजार्थतः शान्तिराजो भवति।
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च; यतो यत्र युष्माकं धनं वर्त्तते तत्रेव युष्माकं मनः।
त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त। किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत। यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि। लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति। किन्तु लोचनेऽप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतएव या दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्। कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ। अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि? विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति। यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति? अपरं वसनाय कुतश्चिन्तयत? क्षेत्रोत्पन्नानि पुष्पाणि कथं वर्द्धन्ते तदालोचयत। तानि तन्तून् नोत्पादयन्ति किमपि कार्य्यं न कुर्व्वन्ति; तथाप्यहं युष्मान् वदामि, सुलेमान् तादृग् ऐश्वर्य्यवानपि तत्पुष्पमिव विभूषितो नासीत्। किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा ज्ञापय। तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति? तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत। यस्मात् देवार्च्चका अपीति चेष्टन्ते; एतेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति। अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते। श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा। तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।
यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।
अपरं ये पवित्रवस्तूनां परिचर्य्यां कुर्व्वन्ति ते पवित्रवस्तुतो भक्ष्याणि लभन्ते, ये च वेद्याः परिचर्य्यां कुर्व्वन्ति ते वेदिस्थवस्तूनाम् अंशिनो भवन्त्येतद् यूयं किं न विद? तद्वद् ये सुसंवादं घोषयन्ति तैः सुसंवादेन जीवितव्यमिति प्रभुनादिष्टं।
ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव।
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।
ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां। यस्मात् शास्त्रे लिखितमिदमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं मा बधानेति, अपरमपि कार्य्यकृद् वेतनस्य योग्यो भवतीति।
तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
हे फिलिपीयलोकाः, सुसंवादस्योदयकाले यदाहं माकिदनियादेशात् प्रतिष्ठे तदा केवलान् युष्मान् विनापरया कयापि समित्या सह दानादानयो र्मम कोऽपि सम्बन्धो नासीद् इति यूयमपि जानीथ। यतो युष्माभि र्मम प्रयोजनाय थिषलनीकीनगरमपि मां प्रति पुनः पुनर्दानं प्रेषितं।
अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत। त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त। किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत। यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि।
हे भ्रातरः, माकिदनियादेशस्थासु समितिषु प्रकाशितो य ईश्वरस्यानुग्रहस्तमहं युष्मान् ज्ञापयामि। एतस्मिन् अहं युष्मान् स्वविचारं ज्ञापयामि। गतं संवत्सरम् आरभ्य यूयं केवलं कर्म्म कर्त्तं तन्नहि किन्त्विच्छुकतां प्रकाशयितुमप्युपाक्राभ्यध्वं ततो हेतो र्युष्मत्कृते मम मन्त्रणा भद्रा। अतो ऽधुना तत्कर्म्मसाधनं युष्माभिः क्रियतां तेन यद्वद् इच्छुकतायाम् उत्साहस्तद्वद् एकैकस्य सम्पदनुसारेण कर्म्मसाधनम् अपि जनिष्यते। यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव। यत इतरेषां विरामेण युष्माकञ्च क्लेशेन भवितव्यं तन्नहि किन्तु समतयैव। वर्त्तमानसमये युष्माकं धनाधिक्येन तेषां धनन्यूनता पूरयितव्या तस्मात् तेषामप्याधिक्येन युष्माकं न्यूनता पूरयिष्यते तेन समता जनिष्यते। तदेव शास्त्रेऽपि लिखितम् आस्ते यथा, येनाधिकं संगृहीतं तस्याधिकं नाभवत् येन चाल्पं संगृहीतं तस्याल्पं नाभवत्। युष्माकं हिताय तीतस्य मनसि य ईश्वर इमम् उद्योगं जनितवान् स धन्यो भवतु। तीतोऽस्माकं प्रार्थनां गृहीतवान् किञ्च स्वयम् उद्युक्तः सन् स्वेच्छया युष्मत्समीपं गतवान्। तेन सह योऽपर एको भ्रातास्माभिः प्रेषितः सुसंवादात् तस्य सुख्यात्या सर्व्वाः समितयो व्याप्ताः। प्रभो र्गौरवाय युष्माकम् इच्छुकतायै च स समितिभिरेतस्यै दानसेवायै अस्माकं सङ्गित्वे न्ययोज्यत। वस्तुतो बहुक्लेशपरीक्षासमये तेषां महानन्दोऽतीवदीनता च वदान्यतायाः प्रचुरफलम् अफलयतां। यतो या महोपायनसेवास्माभि र्विधीयते तामधि वयं यत् केनापि न निन्द्यामहे तदर्थं यतामहे। यतः केवलं प्रभोः साक्षात् तन्नहि किन्तु मानवानामपि साक्षात् सदाचारं कर्त्तुम् आलोचामहे। ताभ्यां सहापर एको यो भ्रातास्माभिः प्रेषितः सोऽस्माभि र्बहुविषयेषु बहवारान् परीक्षित उद्योगीव प्रकाशितश्च किन्त्वधुना युष्मासु दृढविश्वासात् तस्योत्साहो बहु ववृधे। यदि कश्चित् तीतस्य तत्त्वं जिज्ञासते तर्हि स मम सहभागी युष्मन्मध्ये सहकारी च, अपरयो र्भ्रात्रोस्तत्त्वं वा यदि जिज्ञासते तर्हि तौ समितीनां दूतौ ख्रीष्टस्य प्रतिबिम्बौ चेति तेन ज्ञायतां। अतो हेतोः समितीनां समक्षं युष्मत्प्रेम्नोऽस्माकं श्लाघायाश्च प्रामाण्यं तान् प्रति युष्माभिः प्रकाशयितव्यं। ते स्वेच्छया यथाशक्ति किञ्चातिशक्ति दान उद्युक्ता अभवन् इति मया प्रमाणीक्रियते। वयञ्च यत् पवित्रलोकेभ्यस्तेषां दानम् उपकारार्थकम् अंशनञ्च गृह्लामस्तद् बहुनुनयेनास्मान् प्रार्थितवन्तः। वयं यादृक् प्रत्यै़क्षामहि तादृग् अकृत्वा तेऽग्रे प्रभवे ततः परम् ईश्वरस्येच्छयास्मभ्यमपि स्वान् न्यवेदयन्।
तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
यश्च मानवस्त्वां याचते, तस्मै देहि, यदि कश्चित् तुभ्यं धारयितुम् इच्छति, तर्हि तं प्रति परांमुखो मा भूः।
ततो ममागमनसमये यूयं यानेव विश्वास्या इति वेदिष्यथ तेभ्योऽहं पत्राणि दत्त्वा युष्माकं तद्दानस्य यिरूशालमं नयनार्थं तान् प्रेषयिष्यामि। किन्तु यदि तत्र ममापि गमनम् उचितं भवेत् तर्हि ते मया सह यास्यन्ति।
तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।
तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?
युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।
योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु,
अतएवास्माकं पूर्व्वपुरुष इब्राहीम् यस्मै लुठितद्रव्याणां दशमांशं दत्तवान् स कीदृक् महान् तद् आलोचयत।