प्रत्येकसप्ताहस्य प्रथमे दिवसे, यथा भवान् धनं लब्धवान् तस्य अंशं पृथक् कर्तुं महत्त्वपूर्णम् अस्ति, यथा १ कुरिन्थीय १६:२ उल्लिखितम्। मम आगमनं यावत् प्रतीक्ष्य सर्वं एकत्र कर्तुं न उचितम्।
पौलुः आशियायाः विभिन्ननगरेषु विश्वासिभ्यः पत्रलेखनेन कलीसियायाः कार्यप्रणाल्यां सुधारार्हाणि विषयाणि उल्लिखितवान्, दैनन्दिनजीवनविषयेषु च स्पष्टान् निर्देशान् दत्तवान्। आहुतीनां धनस्य च विषये तस्य शिक्षणं न अस्पष्टम् आसीत्।
अपरञ्च, एफेसिय ५:२ इति स्थले वर्णितं यथा ख्रीष्टः अस्माकं कृते आत्मानं समर्प्य पूर्णाहुतिः अभवत्, यस्य स्मरणं वयं प्रत्येकवारं आहुतिं दत्वा कुर्मः। यः ददाति सः येशुमिव भवति, यः स्वात्मानं निःशेषतः आहुतित्वेन समर्पितवान्। आहुतयः ईश्वरप्रति कृतज्ञतायाः सूचकः, विश्वासिनां स्वाभाविकी अभिव्यक्तिः च।
अपि च, प्रकटीकरण १:६ अस्मान् स्मारयति यत् पुरोहितः, अन्यकार्याणां मध्ये, ईश्वराय आहुतीः यच्छति। यद्यपि केचन आहुतिदानविषये वक्तुं रुष्यन्ति, तथापि एतस्मिन् कर्मणि विद्यमानां कृपां ज्ञातुं महत्त्वपूर्णम् अस्ति।
यद्यपि बहवः प्राप्तुम् इच्छन्ति, तथापि अहं भवतः प्रोत्साहं करोमि यत् भवान् निःशेषं दानं दद्यात्, यतः ईश्वरः प्रसन्नचित्तं दातारं प्रीणाति तस्य हस्तकर्म च आशिषं ददाति।
पवित्रलोकानां कृते योऽर्थसंग्रहस्तमधि गालातीयदेशस्य समाजा मया यद् आदिष्टास्तद् युष्माभिरपि क्रियतां। तिमथि र्यदि युष्माकं समीपम् आगच्छेत् तर्हि येन निर्भयं युष्मन्मध्ये वर्त्तेत तत्र युष्माभि र्मनो निधीयतां यस्माद् अहं यादृक् सोऽपि तादृक् प्रभोः कर्म्मणे यतते। कोऽपि तं प्रत्यनादरं न करोतु किन्तु स ममान्तिकं यद् आगन्तुं शक्नुयात् तदर्थं युष्माभिः सकुशलं प्रेष्यतां। भ्रातृभिः सार्द्धमहं तं प्रतीक्षे। आपल्लुं भ्रातरमध्यहं निवेदयामि भ्रातृभिः साकं सोऽपि यद् युष्माकं समीपं व्रजेत् तदर्थं मया स पुनः पुनर्याचितः किन्त्विदानीं गमनं सर्व्वथा तस्मै नारोचत, इतःपरं सुसमयं प्राप्य स गमिष्यति। यूयं जागृत विश्वासे सुस्थिरा भवत पौरुषं प्रकाशयत बलवन्तो भवत। युष्माभिः सर्व्वाणि कर्म्माणि प्रेम्ना निष्पाद्यन्तां। हे भ्रातरः, अहं युष्मान् इदम् अभियाचे स्तिफानस्य परिजना आखायादेशस्य प्रथमजातफलस्वरूपाः, पवित्रलोकानां परिचर्य्यायै च त आत्मनो न्यवेदयन् इति युष्माभि र्ज्ञायते। अतो यूयमपि तादृशलोकानाम् अस्मत्सहायानां श्रमकारिणाञ्च सर्व्वेषां वश्या भवत। स्तिफानः फर्त्तूनात आखायिकश्च यद् अत्रागमन् तेनाहम् आनन्दामि यतो युष्माभिर्यत् न्यूनितं तत् तैः सम्पूरितं। तै र्युष्माकं मम च मनांस्याप्यायितानि। तस्मात् तादृशा लोका युष्माभिः सम्मन्तव्याः। युष्मभ्यम् आशियादेशस्थसमाजानां नमस्कृतिम् आक्किलप्रिस्किल्लयोस्तन्मण्डपस्थसमितेश्च बहुनमस्कृतिं प्रजानीत। ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।
यः कश्चित् क्षुद्रे कार्य्ये विश्वास्यो भवति स महति कार्य्येपि विश्वास्यो भवति, किन्तु यः कश्चित् क्षुद्रे कार्य्येऽविश्वास्यो भवति स महति कार्य्येप्यविश्वास्यो भवति।
अतएव अयथार्थेन धनेन यदि यूयमविश्वास्या जातास्तर्हि सत्यं धनं युष्माकं करेषु कः समर्पयिष्यति? यदि च परधनेन यूयम् अविश्वास्या भवथ तर्हि युष्माकं स्वकीयधनं युष्मभ्यं को दास्यति?
ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।
अपरं यत्र स्थाने कीटाः कलङ्काश्च क्षयं नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं शक्नुवन्ति, तादृश्यां मेदिन्यां स्वार्थं धनं मा संचिनुत। त्वं यदा ददासि तदा कपटिनो जना यथा मनुजेभ्यः प्रशंसां प्राप्तुं भजनभवने राजमार्गे च तूरीं वादयन्ति, तथा मा कुरिु, अहं तुभ्यं यथार्थं कथयामि, ते स्वकायं फलम् अलभन्त। किन्तु यत्र स्थाने कीटाः कलङ्काश्च क्षयं न नयन्ति, चौराश्च सन्धिं कर्त्तयित्वा चोरयितुं न शक्नुवन्ति, तादृशे स्वर्गे धनं सञ्चिनुत। यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि।
एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
बीजं भेजनीयम् अन्नञ्च वप्त्रे येन विश्राण्यते स युष्मभ्यम् अपि बीजं विश्राण्य बहुलीकरिष्यति युष्माकं धर्म्मफलानि वर्द्धयिष्यति च। तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते। एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते।
अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।
अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते। एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।
दानानिदत्त तस्माद् यूयं दानानि प्राप्स्यथ, वरञ्च लोकाः परिमाणपात्रं प्रदलय्य सञ्चाल्य प्रोञ्चाल्य परिपूर्य्य युष्माकं क्रोडेषु समर्पयिष्यन्ति; यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मत्कृते परिमास्यते।
अपरमपि व्याहरामि केनचित् क्षुद्रभावेन बीजेषूप्तेषु स्वल्पानि शस्यानि कर्त्तिष्यन्ते, किञ्च केनचिद् बहुदभवेन बीजेषूप्तेषु बहूनि शस्यानि कर्त्तिष्यन्ते।
अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
अथ धनिलोका भाण्डागारे धनं निक्षिपन्ति स तदेव पश्यति, अपरञ्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति, नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भयङ्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते। किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च। साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते। तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत। विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि। किञ्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना ज्ञात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं कञ्चन कञ्चन घातयिष्यन्ति। मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे। किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति, तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत। एतर्हि काचिद्दीना विधवा पणद्वयं निक्षिपति तद् ददर्श। अपरञ्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ। तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु, यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति। किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते। वस्तुतस्तु ते खङ्गधारपरिव्वङ्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च किञ्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते। सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति। भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति। तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति। किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति। ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्, नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं ज्ञातुं शक्नुथ, तथा सर्व्वासामासां घटनानाम् आरम्भे दृष्टे सतीश्वरस्य राजत्वं निकटम् इत्यपि ज्ञास्यथ। युष्मानहं यथार्थं वदामि, विद्यमानलोकानामेषां गमनात् पूर्व्वम् एतानि घटिष्यन्ते। नभोभुवोर्लोपो भविष्यति मम वाक् तु कदापि लुप्ता न भविष्यति। अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत। पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति। यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं। अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्। ततः प्रत्यूषे लाकास्तत्कथां श्रोतुं मन्दिरे तदन्तिकम् आगच्छन्। यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।
किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।
आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।
यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।
ततो यीशुरवदत्, यदि सिद्धो भवितुं वाञ्छसि, तर्हि गत्वा निजसर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, ततः स्वर्गे वित्तं लप्स्यसे; आगच्छ, मत्पश्चाद्वर्त्ती च भव।
योऽमर ईश्वरस्तस्मिन् विश्वसन्तु सदाचारं कुर्व्वन्तु सत्कर्म्मधनेन धनिनो सुकला दातारश्च भवन्तु,
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।
अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च; यतो यत्र युष्माकं धनं वर्त्तते तत्रेव युष्माकं मनः।
किन्तु त्वं यदा ददासि, तदा निजदक्षिणकरो यत् करोति, तद् वामकरं मा ज्ञापय। तस्मात् क्षद्य विद्यमानं श्चः चुल्ल्यां निक्षेप्स्यते तादृशं यत् क्षेत्रस्थितं कुसुमं तत् यदीश्चर इत्थं बिभूषयति, तर्हि हे स्तोकप्रत्ययिनो युष्मान् किं न परिधापयिष्यति? तस्मात् अस्माभिः किमत्स्यते? किञ्च पायिष्यते? किं वा परिधायिष्यते, इति न चिन्तयत। यस्मात् देवार्च्चका अपीति चेष्टन्ते; एतेषु द्रव्येषु प्रयोजनमस्तीति युष्माकं स्वर्गस्थः पिता जानाति। अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते। श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा। तेन तव दानं गुप्तं भविष्यति यस्तु तव पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यति।
यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं, यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।
अनेन प्रकारेण ग्रहणद् दानं भद्रमिति यद्वाक्यं प्रभु र्यीशुः कथितवान् तत् स्मर्त्तुं दरिद्रलोकानामुपकारार्थं श्रमं कर्त्तुञ्च युष्माकम् उचितम् एतत्सर्व्वं युष्मानहम् उपदिष्टवान्।
यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।
तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।
परस्मिन् दिवसे निजगमनकाले द्वौ मुद्रापादौ तद्गृहस्वामिने दत्त्वावदत् जनमेनं सेवस्व तत्र योऽधिको व्ययो भविष्यति तमहं पुनरागमनकाले परिशोत्स्यामि।
येन यो वरो लब्धस्तेनैव स परम् उपकरोतृ, इत्थं यूयम् ईश्वरस्य बहुविधप्रसादस्योत्तमा भाण्डागाराधिपा भवत।
अतः प्राक् प्रतिज्ञातं युष्माकं दानं यत् सञ्चितं भवेत् तच्च यद् ग्राहकतायाः फलम् अभूत्वा दानशीलताया एव फलं भवेत् तदर्थं ममाग्रे गमनाय तत्सञ्चयनाय च तान् भ्रातृन् आदेष्टुमहं प्रयोजनम् अमन्ये।
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
किन्तु सक्केयो दण्डायमानो वक्तुमारेभे, हे प्रभो पश्य मम या सम्पत्तिरस्ति तदर्द्धं दरिद्रेभ्यो ददे, अपरम् अन्यायं कृत्वा कस्मादपि यदि कदापि किञ्चित् मया गृहीतं तर्हि तच्चतुर्गुणं ददामि।
विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत। फलतो गृहाणि द्रव्याणि च सर्व्वाणि विक्रीय सर्व्वेषां स्वस्वप्रयोजनानुसारेण विभज्य सर्व्वेभ्योऽददन्।
तथा य उपदेष्टा भवति स उपदिशतु यश्च दाता स सरलतया ददातु यस्त्वधिपतिः स यत्नेनाधिपतित्वं करोतु यश्च दयालुः स हृष्टमनसा दयताम्।
सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।
येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते।
अतो विश्वासो वाक्पटुता ज्ञानं सर्व्वोत्साहो ऽस्मासु प्रेम चैतै र्गुणै र्यूयं यथापरान् अतिशेध्वे तथैवैतेन गुणेनाप्यतिशेध्वं।
येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।
प्रभृतयो या बह्व्यः स्त्रियः दुष्टभूतेभ्यो रोगेभ्यश्च मुक्ताः सत्यो निजविभूती र्व्ययित्वा तमसेवन्त, ताः सर्व्वास्तेन सार्द्धम् आसन्।
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं। अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।
आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?
हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।
हे फिलिपीयलोकाः, सुसंवादस्योदयकाले यदाहं माकिदनियादेशात् प्रतिष्ठे तदा केवलान् युष्मान् विनापरया कयापि समित्या सह दानादानयो र्मम कोऽपि सम्बन्धो नासीद् इति यूयमपि जानीथ।
सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
अतो वेद्याः समीपं निजनैवेद्ये समानीतेऽपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च, तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निधाय तदैव गत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् आगत्य निजनैवेद्यं निवेदय।
तदनन्तरं लोका भाण्डागारे मुद्रा यथा निक्षिपन्ति भाण्डागारस्य सम्मुखे समुपविश्य यीशुस्तदवलुलोक; तदानीं बहवो धनिनस्तस्य मध्ये बहूनि धनानि निरक्षिपन्। पश्चाद् एका दरिद्रा विधवा समागत्य द्विपणमूल्यां मुद्रैकां तत्र निरक्षिपत्। तदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म। यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।