ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 8:2 - सत्यवेदः। Sanskrit NT in Devanagari

अपरम् अहम् ईश्वरस्यान्तिके तिष्ठतः सप्तदूतान् अपश्यं तेभ्यः सप्ततूर्य्योऽदीयन्त।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰম্ অহম্ ঈশ্ৱৰস্যান্তিকে তিষ্ঠতঃ সপ্তদূতান্ অপশ্যং তেভ্যঃ সপ্ততূৰ্য্যোঽদীযন্ত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরম্ অহম্ ঈশ্ৱরস্যান্তিকে তিষ্ঠতঃ সপ্তদূতান্ অপশ্যং তেভ্যঃ সপ্ততূর্য্যোঽদীযন্ত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရမ် အဟမ် ဤၑွရသျာန္တိကေ တိၐ္ဌတး သပ္တဒူတာန် အပၑျံ တေဘျး သပ္တတူရျျော'ဒီယန္တ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparam aham IzvarasyAntikE tiSThataH saptadUtAn apazyaM tEbhyaH saptatUryyO'dIyanta|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરમ્ અહમ્ ઈશ્વરસ્યાન્તિકે તિષ્ઠતઃ સપ્તદૂતાન્ અપશ્યં તેભ્યઃ સપ્તતૂર્ય્યોઽદીયન્ત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparam aham IzvarasyAntike tiSThataH saptadUtAn apazyaM tebhyaH saptatUryyo'dIyanta|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 8:2
18 अन्तरसन्दर्भाः  

तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,


तदानीं स महाशब्दायमानतूर्य्या वादकान् निजदूतान् प्रहेष्यति, ते व्योम्न एकसीमातोऽपरसीमां यावत् चतुर्दिशस्तस्य मनोनीतजनान् आनीय मेलयिष्यन्ति।


ततो दूतः प्रत्युवाच पश्येश्वरस्य साक्षाद्वर्त्ती जिब्रायेल्नामा दूतोहं त्वया सह कथां गदितुं तुभ्यमिमां शुभवार्त्तां दातुञ्च प्रेषितः।


यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।


सर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वयञ्च रूपान्तरं गमिष्यामः।


यतः प्रभुः सिंहनादेन प्रधानस्वर्गदूतस्योच्चैः शब्देनेश्वरीयतूरीवाद्येन च स्वयं स्वर्गाद् अवरोक्ष्यति तेन ख्रीष्टाश्रिता मृतलोकाः प्रथमम् उत्थास्यान्ति।


योहन् आशियादेशस्थाः सप्त समितीः प्रति पत्रं लिखति। यो वर्त्तमानो भूतो भविष्यंश्च ये च सप्तात्मानस्तस्य सिंहासनस्य सम्मुखेे तिष्ठन्ति


अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥


ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः।


ततः परं मन्दिरात् तान् सप्तदूतान् सम्भाषमाण एष महारवो मयाश्रावि, यूयं गत्वा तेभ्यः सप्तकंसेभ्य ईश्वरस्य क्रोधं पृथिव्यां स्रावयत।


तदा निरीक्षमाणेन मयाकाशमध्येनाभिपतत एकस्य दूतस्य रवः श्रुतः स उच्चै र्गदति, अपरै र्यैस्त्रिभि र्दूतैस्तूर्य्यो वादितव्यास्तेषाम् अवशिष्टतूरीध्वनितः पृथिवीनिवासिनां सन्तापः सन्तापः सन्तापश्च सम्भविष्यति।


ततः परं सप्ततूरी र्धारयन्तः सप्तदूतास्तूरी र्वादयितुम् उद्यता अभवन्।


ततः परं सप्तमदूतेन तूर्य्यां वादितायां गगनात् पृथिव्यां निपतित एकस्तारको मया दृष्टः, तस्मै रसातलकूपस्य कुञ्जिकादायि।