ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 8:2 - सत्यवेदः। Sanskrit NT in Devanagari

एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

একঃ কুষ্ঠৱান্ আগত্য তং প্ৰণম্য বভাষে, হে প্ৰভো, যদি ভৱান্ সংমন্যতে, তৰ্হি মাং নিৰামযং কৰ্ত্তুং শক্নোতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

একঃ কুষ্ঠৱান্ আগত্য তং প্রণম্য বভাষে, হে প্রভো, যদি ভৱান্ সংমন্যতে, তর্হি মাং নিরামযং কর্ত্তুং শক্নোতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဧကး ကုၐ္ဌဝါန် အာဂတျ တံ ပြဏမျ ဗဘာၐေ, ဟေ ပြဘော, ယဒိ ဘဝါန် သံမနျတေ, တရှိ မာံ နိရာမယံ ကရ္တ္တုံ ၑက္နောတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

EkaH kuSThavAn Agatya taM praNamya babhASE, hE prabhO, yadi bhavAn saMmanyatE, tarhi mAM nirAmayaM karttuM zaknOti|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

એકઃ કુષ્ઠવાન્ આગત્ય તં પ્રણમ્ય બભાષે, હે પ્રભો, યદિ ભવાન્ સંમન્યતે, તર્હિ માં નિરામયં કર્ત્તું શક્નોતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ekaH kuSThavAn Agatya taM praNamya babhASe, he prabho, yadi bhavAn saMmanyate, tarhi mAM nirAmayaM karttuM zaknoti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 8:2
37 अन्तरसन्दर्भाः  

आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।


तेषामविश्वासहेतोः स तत्र स्थाने बह्वाश्चर्य्यकर्म्माणि न कृतवान्।


तदानीं ये तरण्यामासन्, त आगत्य तं प्रणभ्य कथितवन्तः, यथार्थस्त्वमेवेश्वरसुतः।


ततः सा नारीसमागत्य तं प्रणम्य जगाद, हे प्रभो मामुपकुरु।


तेन स दासस्तस्य पादयोः पतन् प्रणम्य कथितवान् , हे प्रभो भवता घैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।


ततो गेहमध्य प्रविश्य तस्य मात्रा मरियमा साद्धं तं शिशुं निरीक्षय दण्डवद् भूत्वा प्रणेमुः, अपरं स्वेषां घनसम्पत्तिं मोचयित्वा सुवर्णं कुन्दुरुं गन्धरमञ्च तस्मै दर्शनीयं दत्तवन्तः।


तदानीं सिवदीयस्य नारी स्वपुत्रावादाय यीशोः समीपम् एत्य प्रणम्य कञ्चनानुग्रहं तं ययाचे।


ततो बैथनियापुरे शिमोनाख्यस्य कुष्ठिनो वेश्मनि यीशौ तिष्ठति


तत्र तं संवीक्ष्य प्रणेमुः, किन्तु केचित् सन्दिग्धवन्तः।


युष्माकं कल्याणं भूयात्, ततस्ता आगत्य तत्पादयोः पतित्वा प्रणेमुः।


यदि त्वं दण्डवद् भवन् मां प्रणमेस्तर्ह्यहम् एतानि तुभ्यं प्रदास्यामि।


यदा स पर्व्वताद् अवारोहत् तदा बहवो मानवास्तत्पश्चाद् वव्रजुः।


तदा शिष्या आगत्य तस्य निद्राभङ्गं कृत्वा कथयामासुः, हे प्रभो, वयं म्रियामहे, भवान् अस्माकं प्राणान् रक्षतु।


अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।


अपरञ्च इलीशायभविष्यद्वादिविद्यमानताकाले इस्रायेल्देशे बहवः कुष्ठिन आसन् किन्तु सुरीयदेशीयं नामान्कुष्ठिनं विना कोप्यन्यः परिष्कृतो नाभूत्।


तदा हे प्रभो विश्वसिमीत्युक्त्वा स तं प्रणामत्।


तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं किञ्चिदपि न भुक्तवान्।


पितरे गृह उपस्थिते कर्णीलियस्तं साक्षात्कृत्य चरणयोः पतित्वा प्राणमत्।


ततस्तस्यान्तःकरणस्य गुप्तकल्पनासु व्यक्तीभूतासु सोऽधोमुखः पतन् ईश्वरमाराध्य युष्मन्मध्य ईश्वरो विद्यते इति सत्यं कथामेतां कथयिष्यति।


अनन्तरं अहं तस्य चरणयोरन्तिके निपत्य तं प्रणन्तुमुद्यतः। ततः स माम् उक्तवान् सावधानस्तिष्ठ मैवं कुरु यीशोः साक्ष्यविशिष्टैस्तव भ्रातृभिस्त्वया च सहदासो ऽहं। ईश्वरमेव प्रणम यस्माद् यीशोः साक्ष्यं भविष्यद्वाक्यस्य सारं।