तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
मत्ती 5:10 - सत्यवेदः। Sanskrit NT in Devanagari धर्म्मकारणात् ताडिता मनुजा धन्या, यस्मात् स्वर्गीयराज्ये तेषामधिकरो विद्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ধৰ্ম্মকাৰণাৎ তাডিতা মনুজা ধন্যা, যস্মাৎ স্ৱৰ্গীযৰাজ্যে তেষামধিকৰো ৱিদ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ধর্ম্মকারণাৎ তাডিতা মনুজা ধন্যা, যস্মাৎ স্ৱর্গীযরাজ্যে তেষামধিকরো ৱিদ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဓရ္မ္မကာရဏာတ် တာဍိတာ မနုဇာ ဓနျာ, ယသ္မာတ် သွရ္ဂီယရာဇျေ တေၐာမဓိကရော ဝိဒျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script dharmmakAraNAt tAPitA manujA dhanyA, yasmAt svargIyarAjyE tESAmadhikarO vidyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ધર્મ્મકારણાત્ તાડિતા મનુજા ધન્યા, યસ્માત્ સ્વર્ગીયરાજ્યે તેષામધિકરો વિદ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script dharmmakAraNAt tADitA manujA dhanyA, yasmAt svargIyarAjye teSAmadhikaro vidyate| |
तै र्यदा यूयमेकपुरे ताडिष्यध्वे, तदा यूयमन्यपुरं पलायध्वं युष्मानहं तथ्यं वच्मि यावन्मनुजसुतो नैति तावद् इस्रायेल्देशीयसर्व्वनगरभ्रमणं समापयितुं न शक्ष्यथ।
किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।
ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।
यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा ईश्वरराज्याधिकारिणः।
गृहभ्रातृभगिनीपितृमातृपत्नीसन्तानभूमीनामिह शतगुणान् प्रेत्यानन्तायुश्च न प्राप्नोति तादृशः कोपि नास्ति।
किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये कारायाञ्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकानाञ्च सम्मुखं नेष्यन्ति च।
एतत्कारणात् पित्रा यथा मदर्थं राज्यमेकं निरूपितं तथाहमपि युष्मदर्थं राज्यं निरूपयामि।
पश्चात् स शिष्यान् प्रति दृष्टिं कुत्वा जगाद, हे दरिद्रा यूयं धन्या यत ईश्वरीये राज्ये वोऽधिकारोस्ति।
यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।
दासः प्रभो र्महान् न भवति ममैतत् पूर्व्वीयं वाक्यं स्मरत; ते यदि मामेवाताडयन् तर्हि युष्मानपि ताडयिष्यन्ति, यदि मम वाक्यं गृह्लन्ति तर्हि युष्माकमपि वाक्यं ग्रहीष्यन्ति।
तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्।
तस्य हत्याकरणं शौलोपि सममन्यत। तस्मिन् समये यिरूशालम्नगरस्थां मण्डलीं प्रति महाताडनायां जातायां प्रेरितलोकान् हित्वा सर्व्वेऽपरे यिहूदाशोमिरोणदेशयो र्नानास्थाने विकीर्णाः सन्तो गताः।
क्षणमात्रस्थायि यदेतत् लघिष्ठं दुःखं तद् अतिबाहुल्येनास्माकम् अनन्तकालस्थायि गरिष्ठसुखं साधयति,
आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्।
यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।
पश्यत धैर्य्यशीला अस्माभि र्धन्या उच्यन्ते। आयूबो धैर्य्यं युष्माभिरश्रावि प्रभोः परिणामश्चादर्शि यतः प्रभु र्बहुकृपः सकरुणश्चास्ति।
पापात्मतो जातो यः काबिल् स्वभ्रातरं हतवान् तत्सदृशैरस्माभि र्न भवितव्यं। स कस्मात् कारणात् तं हतवान्? तस्य कर्म्माणि दुष्टानि तद्भ्रातुश्च कर्म्माणि धर्म्माण्यासन् इति कारणात्।
त्वया यो यः क्लेशः सोढव्यस्तस्मात् मा भैषीः पश्य शयतानो युष्माकं परीक्षार्थं कांश्चित् कारायां निक्षेप्स्यति दश दिनानि यावत् क्लेशो युष्मासु वर्त्तिष्यते च। त्वं मृत्युपर्य्यन्तं विश्वास्यो भव तेनाहं जीवनकिरीटं तुभ्यं दास्यामि।