अन्यञ्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःखभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थानञ्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् ज्ञापयितुम् आरब्धवान्।
मत्ती 27:63 - सत्यवेदः। Sanskrit NT in Devanagari हे महेच्छ स प्रतारको जीवन अकथयत्, दिनत्रयात् परं श्मशानादुत्थास्यामि तद्वाक्यं स्मरामो वयं; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script হে মহেচ্ছ স প্ৰতাৰকো জীৱন অকথযৎ, দিনত্ৰযাৎ পৰং শ্মশানাদুত্থাস্যামি তদ্ৱাক্যং স্মৰামো ৱযং; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script হে মহেচ্ছ স প্রতারকো জীৱন অকথযৎ, দিনত্রযাৎ পরং শ্মশানাদুত্থাস্যামি তদ্ৱাক্যং স্মরামো ৱযং; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဟေ မဟေစ္ဆ သ ပြတာရကော ဇီဝန အကထယတ်, ဒိနတြယာတ် ပရံ ၑ္မၑာနာဒုတ္ထာသျာမိ တဒွါကျံ သ္မရာမော ဝယံ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script hE mahEccha sa pratArakO jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmO vayaM; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script હે મહેચ્છ સ પ્રતારકો જીવન અકથયત્, દિનત્રયાત્ પરં શ્મશાનાદુત્થાસ્યામિ તદ્વાક્યં સ્મરામો વયં; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script he maheccha sa pratArako jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmo vayaM; |
अन्यञ्च यिरूशालम्नगरं गत्वा प्राचीनलोकेभ्यः प्रधानयाजकेभ्य उपाध्यायेभ्यश्च बहुदुःखभोगस्तै र्हतत्वं तृतीयदिने पुनरुत्थानञ्च ममावश्यकम् एताः कथा यीशुस्तत्कालमारभ्य शिष्यान् ज्ञापयितुम् आरब्धवान्।
ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।
शेषे द्वौ मृषासाक्षिणावागत्य जगदतुः, पुमानयमकथयत्, अहमीश्वरमन्दिरं भंक्त्वा दिनत्रयमध्ये तन्निर्म्मातुं शक्नोमि।
तस्मात् तृतीयदिनं यावत् तत् श्मशानं रक्षितुमादिशतु, नोचेत् तच्छिष्या यामिन्यामागत्य तं हृत्वा लोकान् वदिष्यन्ति, स श्मशानादुदतिष्ठत्, तथा सति प्रथमभ्रान्तेः शेषीयभ्रान्ति र्महती भविष्यति।
ते तमुपहस्य कशया प्रहृत्य तद्वपुषि निष्ठीवं निक्षिप्य तं हनिष्यन्ति, ततः स तृतीयदिने प्रोत्थास्यति।
मनुष्यपुत्रेणावश्यं बहवो यातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च स निन्दितः सन् घातयिष्यते तृतीयदिने उत्थास्यति च, यीशुः शिष्यानुपदेष्टुमारभ्य कथामिमां स्पष्टमाचष्ट।
अपरञ्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।
अनन्तरं स द्वादशशिष्यानाहूय बभाषे, पश्यत वयं यिरूशालम्नगरं यामः, तस्मात् मनुष्यपुत्रे भविष्यद्वादिभिरुक्तं यदस्ति तदनुरूपं तं प्रति घटिष्यते;
स्वमभिषिक्तं राजानं वदन्तं कैमरराजाय करदानं निषेधन्तं राज्यविपर्य्ययं कुर्त्तुं प्रवर्त्तमानम् एन प्राप्ता वयं।
स पुनरुवाच, मनुष्यपुत्रेण वहुयातना भोक्तव्याः प्राचीनलोकैः प्रधानयाजकैरध्यापकैश्च सोवज्ञाय हन्तव्यः किन्तु तृतीयदिवसे श्मशानात् तेनोत्थातव्यम्।
ततो यीशुस्तानवोचद् युष्माभिरे तस्मिन् मन्दिरे नाशिते दिनत्रयमध्येऽहं तद् उत्थापयिष्यामि।
ततो लोकानां मध्ये तस्मिन् नानाविधा विवादा भवितुम् आरब्धवन्तः। केचिद् अवोचन् स उत्तमः पुरुषः केचिद् अवोचन् न तथा वरं लोकानां भ्रमं जनयति।
मानापमानयोरख्यातिसुख्यात्यो र्भागित्वम् एतैः सर्व्वैरीश्वरस्य प्रशंस्यान् परिचारकान् स्वान् प्रकाशयामः।