हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं मनुजानां समक्षं स्वर्गद्वारं रुन्ध, यूयं स्वयं तेन न प्रविशथ, प्रविविक्षूनपि वारयथ। वत कपटिन उपाध्यायाः फिरूशिनश्च यूयं छलाद् दीर्घं प्रार्थ्य विधवानां सर्व्वस्वं ग्रसथ, युष्माकं घोरतरदण्डो भविष्यति।
मत्ती 23:15 - सत्यवेदः। Sanskrit NT in Devanagari कञ्चन प्राप्य स्वतो द्विगुणनरकभाजनं तं कुरुथ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কঞ্চন প্ৰাপ্য স্ৱতো দ্ৱিগুণনৰকভাজনং তং কুৰুথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কঞ্চন প্রাপ্য স্ৱতো দ্ৱিগুণনরকভাজনং তং কুরুথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကဉ္စန ပြာပျ သွတော ဒွိဂုဏနရကဘာဇနံ တံ ကုရုထ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kanjcana prApya svatO dviguNanarakabhAjanaM taM kurutha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કઞ્ચન પ્રાપ્ય સ્વતો દ્વિગુણનરકભાજનં તં કુરુથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kaJcana prApya svato dviguNanarakabhAjanaM taM kurutha| |
हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं मनुजानां समक्षं स्वर्गद्वारं रुन्ध, यूयं स्वयं तेन न प्रविशथ, प्रविविक्षूनपि वारयथ। वत कपटिन उपाध्यायाः फिरूशिनश्च यूयं छलाद् दीर्घं प्रार्थ्य विधवानां सर्व्वस्वं ग्रसथ, युष्माकं घोरतरदण्डो भविष्यति।
अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।
तस्मात् तव दक्षिणं नेत्रं यदि त्वां बाधते, तर्हि तन्नेत्रम् उत्पाट्य दूरे निक्षिप, यस्मात् तव सर्व्ववपुषो नरके निक्षेपात् तवैकाङ्गस्य नाशो वरं।
यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।
हे नरकिन् धर्म्मद्वेषिन् कौटिल्यदुष्कर्म्मपरिपूर्ण, त्वं किं प्रभोः सत्यपथस्य विपर्य्ययकरणात् कदापि न निवर्त्तिष्यसे?
सभाया भङ्गे सति बहवो यिहूदीयलोका यिहूदीयमतग्राहिणो भक्तलोकाश्च बर्णब्बापौलयोः पश्चाद् आगच्छन्, तेन तौ तैः सह नानाकथाः कथयित्वेश्वरानुग्रहाश्रये स्थातुं तान् प्रावर्त्तयतां।
आन्तियखिया-इकनियनगराभ्यां कतिपययिहूदीयलोका आगत्य लोकान् प्रावर्त्तयन्त तस्मात् तै पौलं प्रस्तरैराघ्नन् तेन स मृत इति विज्ञाय नगरस्य बहिस्तम् आकृष्य नीतवन्तः।
किन्तु विश्वासहीना यिहूदीया अन्यदेशीयलोकान् कुप्रवृत्तिं ग्राहयित्वा भ्रातृगणं प्रति तेषां वैरं जनितवन्तः।
किन्तु बिरयानगरे पौलेनेश्वरीया कथा प्रचार्य्यत इति थिषलनीकीस्था यिहूदीया ज्ञात्वा तत्स्थानमप्यागत्य लोकानां कुप्रवृत्तिम् अजनयन्।
फ्रुगिया-पम्फुलिया-मिसरनिवासिनः कुरीणीनिकटवर्त्तिलूबीयप्रदेशनिवासिनो रोमनगराद् आगता यिहूदीयलोका यिहूदीयमतग्राहिणः क्रीतीया अराबीयादयो लोकाश्च ये वयम्
एतस्यां कथायां सर्व्वे लोकाः सन्तुष्टाः सन्तः स्वेषां मध्यात् स्तिफानः फिलिपः प्रखरो निकानोर् तीमन् पर्म्मिणा यिहूदिमतग्राही-आन्तियखियानगरीयो निकला एतान् परमभक्तान् पवित्रेणात्मना परिपूर्णान् सप्त जनान्
ते युष्मत्कृते स्पर्द्धन्ते किन्तु सा स्पर्द्धा कुत्सिता यतो यूयं तानधि यत् स्पर्द्धध्वं तदर्थं ते युष्मान् पृथक् कर्त्तुम् इच्छन्ति।
ये शारीरिकविषये सुदृश्या भवितुमिच्छन्ति ते यत् ख्रीष्टस्य क्रुशस्य कारणादुपद्रवस्य भागिनो न भवन्ति केवलं तदर्थं त्वक्छेदे युष्मान् प्रवर्त्तयन्ति।
तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम।