किन्तु कृषीवलास्तस्य तान् दासेयान् धृत्वा कञ्चन प्रहृतवन्तः, कञ्चन पाषाणैराहतवन्तः, कञ्चन च हतवन्तः।
मत्ती 21:34 - सत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं फलसमय उपस्थिते स फलानि प्राप्तुं कृषीवलानां समीपं निजदासान् प्रेषयामास। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং ফলসময উপস্থিতে স ফলানি প্ৰাপ্তুং কৃষীৱলানাং সমীপং নিজদাসান্ প্ৰেষযামাস| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং ফলসময উপস্থিতে স ফলানি প্রাপ্তুং কৃষীৱলানাং সমীপং নিজদাসান্ প্রেষযামাস| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ဖလသမယ ဥပသ္ထိတေ သ ဖလာနိ ပြာပ္တုံ ကၖၐီဝလာနာံ သမီပံ နိဇဒါသာန် ပြေၐယာမာသ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM phalasamaya upasthitE sa phalAni prAptuM kRSIvalAnAM samIpaM nijadAsAn prESayAmAsa| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં ફલસમય ઉપસ્થિતે સ ફલાનિ પ્રાપ્તું કૃષીવલાનાં સમીપં નિજદાસાન્ પ્રેષયામાસ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM phalasamaya upasthite sa phalAni prAptuM kRSIvalAnAM samIpaM nijadAsAn preSayAmAsa| |
किन्तु कृषीवलास्तस्य तान् दासेयान् धृत्वा कञ्चन प्रहृतवन्तः, कञ्चन पाषाणैराहतवन्तः, कञ्चन च हतवन्तः।
किन्तु ते कृषीवलाः सुतं वीक्ष्य परस्परम् इति मन्त्रयितुम् आरेभिरे, अयमुत्तराधिकारी वयमेनं निहत्यास्याधिकारं स्ववशीकरिष्यामः।
ततस्ते प्रत्यवदन्, तान् कलुषिणो दारुणयातनाभिराहनिष्यति, ये च समयानुक्रमात् फलानि दास्यन्ति, तादृशेषु कृषीवलेषु क्षेत्रं समर्पयिष्यति।
अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।
किन्तु कृषीवलाः परस्परं जगदुः, एष उत्तराधिकारी, आगच्छत वयमेनं हन्मस्तथा कृते ऽधिकारोयम् अस्माकं भविष्यति।
अनेनासौ द्राक्षाक्षेत्रपतिः किं करिष्यति? स एत्य तान् कृषीवलान् संहत्य तत्क्षेत्रम् अन्येषु कृषीवलेषु समर्पयिष्यति।
अथ लोकानां साक्षात् स इमां दृष्टान्तकथां वक्तुमारेभे, कश्चिद् द्राक्षाक्षेत्रं कृत्वा तत् क्षेत्रं कृषीवलानां हस्तेषु समर्प्य बहुकालार्थं दूरदेशं जगाम।