तदा स उक्तवान्, युवां मम कंसेनावश्यं पास्यथः, मम मज्जनेन च युवामपि मज्जिष्येथे, किन्तु येषां कृते मत्तातेन निरूपितम् इदं तान् विहायान्यं कमपि मद्दक्षिणपार्श्वे वामपार्श्वे च समुपवेशयितुं ममाधिकारो नास्ति।
मत्ती 20:24 - सत्यवेदः। Sanskrit NT in Devanagari एतां कथां श्रुत्वान्ये दशशिष्यास्तौ भ्रातरौ प्रति चुकुपुः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতাং কথাং শ্ৰুৎৱান্যে দশশিষ্যাস্তৌ ভ্ৰাতৰৌ প্ৰতি চুকুপুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতাং কথাং শ্রুৎৱান্যে দশশিষ্যাস্তৌ ভ্রাতরৌ প্রতি চুকুপুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတာံ ကထာံ ၑြုတွာနျေ ဒၑၑိၐျာသ္တော် ဘြာတရော် ပြတိ စုကုပုး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtAM kathAM zrutvAnyE dazaziSyAstau bhrAtarau prati cukupuH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતાં કથાં શ્રુત્વાન્યે દશશિષ્યાસ્તૌ ભ્રાતરૌ પ્રતિ ચુકુપુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etAM kathAM zrutvAnye dazaziSyAstau bhrAtarau prati cukupuH| |
तदा स उक्तवान्, युवां मम कंसेनावश्यं पास्यथः, मम मज्जनेन च युवामपि मज्जिष्येथे, किन्तु येषां कृते मत्तातेन निरूपितम् इदं तान् विहायान्यं कमपि मद्दक्षिणपार्श्वे वामपार्श्वे च समुपवेशयितुं ममाधिकारो नास्ति।
किन्तु यीशुः स्वसमीपं तानाहूय जगाद, अन्यदेशीयलोकानां नरपतयस्तान् अधिकुर्व्वन्ति, ये तु महान्तस्ते तान् शासति, इति यूयं जानीथ।
यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा ईश्वरराज्याधिकारिणः।
किन्तु विश्रामवारे यीशुना तस्याः स्वास्थ्यकरणाद् भजनगेहस्याधिपतिः प्रकुप्य लोकान् उवाच, षट्सु दिनेषु लोकैः कर्म्म कर्त्तव्यं तस्माद्धेतोः स्वास्थ्यार्थं तेषु दिनेषु आगच्छत, विश्रामवारे मागच्छत।
विरोधाद् दर्पाद् वा किमपि मा कुरुत किन्तु नम्रतया स्वेभ्योऽपरान् विशिष्टान् मन्यध्वं।
किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।
हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।