मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।
मत्ती 19:28 - सत्यवेदः। Sanskrit NT in Devanagari ततो यीशुः कथितवान्, युष्मानहं तथ्यं वदामि, यूयं मम पश्चाद्वर्त्तिनो जाता इति कारणात् नवीनसृष्टिकाले यदा मनुजसुतः स्वीयैश्चर्य्यसिंहासन उपवेक्ष्यति, तदा यूयमपि द्वादशसिंहासनेषूपविश्य इस्रायेलीयद्वादशवंशानां विचारं करिष्यथ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুঃ কথিতৱান্, যুষ্মানহং তথ্যং ৱদামি, যূযং মম পশ্চাদ্ৱৰ্ত্তিনো জাতা ইতি কাৰণাৎ নৱীনসৃষ্টিকালে যদা মনুজসুতঃ স্ৱীযৈশ্চৰ্য্যসিংহাসন উপৱেক্ষ্যতি, তদা যূযমপি দ্ৱাদশসিংহাসনেষূপৱিশ্য ইস্ৰাযেলীযদ্ৱাদশৱংশানাং ৱিচাৰং কৰিষ্যথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুঃ কথিতৱান্, যুষ্মানহং তথ্যং ৱদামি, যূযং মম পশ্চাদ্ৱর্ত্তিনো জাতা ইতি কারণাৎ নৱীনসৃষ্টিকালে যদা মনুজসুতঃ স্ৱীযৈশ্চর্য্যসিংহাসন উপৱেক্ষ্যতি, তদা যূযমপি দ্ৱাদশসিংহাসনেষূপৱিশ্য ইস্রাযেলীযদ্ৱাদশৱংশানাং ৱিচারং করিষ্যথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုး ကထိတဝါန်, ယုၐ္မာနဟံ တထျံ ဝဒါမိ, ယူယံ မမ ပၑ္စာဒွရ္တ္တိနော ဇာတာ ဣတိ ကာရဏာတ် နဝီနသၖၐ္ဋိကာလေ ယဒါ မနုဇသုတး သွီယဲၑ္စရျျသိံဟာသန ဥပဝေက္ၐျတိ, တဒါ ယူယမပိ ဒွါဒၑသိံဟာသနေၐူပဝိၑျ ဣသြာယေလီယဒွါဒၑဝံၑာနာံ ဝိစာရံ ကရိၐျထ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુઃ કથિતવાન્, યુષ્માનહં તથ્યં વદામિ, યૂયં મમ પશ્ચાદ્વર્ત્તિનો જાતા ઇતિ કારણાત્ નવીનસૃષ્ટિકાલે યદા મનુજસુતઃ સ્વીયૈશ્ચર્ય્યસિંહાસન ઉપવેક્ષ્યતિ, તદા યૂયમપિ દ્વાદશસિંહાસનેષૂપવિશ્ય ઇસ્રાયેલીયદ્વાદશવંશાનાં વિચારં કરિષ્યથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttino jAtA iti kAraNAt navInasRSTikAle yadA manujasutaH svIyaizcaryyasiMhAsana upavekSyati, tadA yUyamapi dvAdazasiMhAsaneSUpavizya isrAyelIyadvAdazavaMzAnAM vicAraM kariSyatha| |
मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।
तदा पितरस्तं गदितवान्, पश्य, वयं सर्व्वं परित्यज्य भवतः पश्चाद्वर्त्तिनो ऽभवाम; वयं किं प्राप्स्यामः?
तदा यीशुस्तां प्रोक्तवान्, त्वं किं याचसे? ततः सा बभाषे, भवतो राजत्वे ममानयोः सुतयोरेकं भवद्दक्षिणपार्श्वे द्वितीयं वामपार्श्व उपवेष्टुम् आज्ञापयतु।
यदा मनुजसुतः पवित्रदूतान् सङ्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,
अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।
ततो यीशु र्जगाद, क्रोष्टुः स्थातुं स्थानं विद्यते, विहायसो विहङ्गमानां नीडानि च सन्ति; किन्तु मनुष्यपुत्रस्य शिरः स्थापयितुं स्थानं न विद्यते।
तदा तौ प्रोचतुः, आवयोरेकं दक्षिणपार्श्वे वामपार्श्वे चैकं तवैश्वर्य्यपदे समुपवेष्टुम् आज्ञापय।
किन्तु जगतः सृष्टिमारभ्य ईश्वरो निजपवित्रभविष्यद्वादिगणोन यथा कथितवान् तदनुसारेण सर्व्वेषां कार्य्याणां सिद्धिपर्य्यन्तं तेन स्वर्गे वासः कर्त्तव्यः।
तथापि वयं तस्य प्रतिज्ञानुसारेण धर्म्मस्य वासस्थानं नूतनम् आकाशमण्डलं नूतनं भूमण्डलञ्च प्रतीक्षामहे।
अपरम् ईश्वरस्यान्तिके स्वकीयसिंहासनेषूपविष्टाश्चतुर्विंशतिप्राचीना भुवि न्यङ्भूखा भूत्वेश्वरं प्रणम्यावदन्,
ततः परं स्वर्गे महाचित्रं दृष्टं योषिदेकासीत् सा परिहितसूर्य्या चन्द्रश्च तस्याश्चरणयोरधो द्वादशताराणां किरीटञ्च शिरस्यासीत्।
अनन्तरं मया सिंहासनानि दृष्टानि तत्र ये जना उपाविशन् तेभ्यो विचारभारो ऽदीयत; अनन्तरं यीशोः साक्ष्यस्य कारणाद् ईश्वरवाक्यस्य कारणाच्च येषां शिरश्छेदनं कृतं पशोस्तदीयप्रतिमाया वा पूजा यै र्न कृता भाले करे वा कलङ्को ऽपि न धृतस्तेषाम् आत्मानो ऽपि मया दृष्टाः, ते प्राप्तजीवनास्तद्वर्षसहस्रं यावत् ख्रीष्टेन सार्द्धं राजत्वमकुर्व्वन्।
अपरं सिंहासनोपविष्टो जनोऽवदत् पश्याहं सर्व्वाणि नूतनीकरोमि। पुनरवदत् लिख यत इमानि वाक्यानि सत्यानि विश्वास्यानि च सन्ति।
नगर्य्या मार्गमध्ये तस्या नद्याः पार्श्वयोरमृतवृक्षा विद्यन्ते तेषां द्वादशफलानि भवन्ति, एकैको वृक्षः प्रतिमासं स्वफलं फलति तद्वृक्षपत्राणि चान्यजातीयानाम् आरोग्यजनकानि।
तदानीं रात्रिः पुन र्न भविष्यति यतः प्रभुः परमेश्वरस्तान् दीपयिष्यति ते चानन्तकालं यावद् राजत्वं करिष्यन्ते।
अपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।
तस्य सिंहासने चतुर्दिक्षु चतुर्विंशतिसिंहासनानि तिष्ठन्ति तेषु सिंहासनेषु चतुर्विंशति प्राचीनलोका उपविष्टास्ते शुभ्रवासःपरिहितास्तेषां शिरांसि च सुवर्णकिरीटै र्भूषितानि।
ततः परं मुद्राङ्कितलोकानां संख्या मयाश्रावि। इस्रायेलः सर्व्ववंशाीयाश्चतुश्चत्वारिंशत्सहस्राधिकलक्षलोका मुद्रयाङ्किता अभवन्,