अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
मार्क 6:6 - सत्यवेदः। Sanskrit NT in Devanagari अथ स चतुर्दिक्स्थ ग्रामान् भ्रमित्वा उपदिष्टवान् अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স চতুৰ্দিক্স্থ গ্ৰামান্ ভ্ৰমিৎৱা উপদিষ্টৱান্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স চতুর্দিক্স্থ গ্রামান্ ভ্রমিৎৱা উপদিষ্টৱান্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ စတုရ္ဒိက္သ္ထ ဂြာမာန် ဘြမိတွာ ဥပဒိၐ္ဋဝါန္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa caturdikstha grAmAn bhramitvA upadiSTavAn સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ ચતુર્દિક્સ્થ ગ્રામાન્ ભ્રમિત્વા ઉપદિષ્ટવાન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa caturdikstha grAmAn bhramitvA upadiSTavAn |
अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।
ततः परं यीशुस्तेषां भजनभवन उपदिशन् राज्यस्य सुसंवादं प्रचारयन् लोकानां यस्य य आमयो या च पीडासीत्, तान् शमयन् शमयंश्च सर्व्वाणि नगराणि ग्रामांश्च बभ्राम।
अथ स तेषां गालील्प्रदेशस्य सर्व्वेषु भजनगृहेषु कथाः प्रचारयाञ्चक्रे भूतानत्याजयञ्च।
अनन्तरं स तत्स्थानात् प्रस्थाय यर्द्दननद्याः पारे यिहूदाप्रदेश उपस्थितवान्, तत्र तदन्तिके लोकानां समागमे जाते स निजरीत्यनुसारेण पुनस्तान् उपदिदेश।
ततः स यिरूशालम्नगरं प्रति यात्रां कृत्वा नगरे नगरे ग्रामे ग्रामे समुपदिशन् जगाम।
ततः परं यीशुर्गालील्प्रदेशीयकफर्नाहूम्नगर उपस्थाय विश्रामवारे लोकानुपदेष्टुम् आरब्धवान्।
सोवदद् एष मम लोचने प्रसन्ने ऽकरोत् तथापि कुत्रत्यलोक इति यूयं न जानीथ एतद् आश्चर्य्यं भवति।
फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;