अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
मार्क 10:22 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु तस्य बहुसम्पद्विद्यमानत्वात् स इमां कथामाकर्ण्य विषणो दुःखितश्च सन् जगाम। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু তস্য বহুসম্পদ্ৱিদ্যমানৎৱাৎ স ইমাং কথামাকৰ্ণ্য ৱিষণো দুঃখিতশ্চ সন্ জগাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু তস্য বহুসম্পদ্ৱিদ্যমানৎৱাৎ স ইমাং কথামাকর্ণ্য ৱিষণো দুঃখিতশ্চ সন্ জগাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု တသျ ဗဟုသမ္ပဒွိဒျမာနတွာတ် သ ဣမာံ ကထာမာကရ္ဏျ ဝိၐဏော ဒုးခိတၑ္စ သန် ဇဂါမ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu tasya bahusampadvidyamAnatvAt sa imAM kathAmAkarNya viSaNO duHkhitazca san jagAma| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ તસ્ય બહુસમ્પદ્વિદ્યમાનત્વાત્ સ ઇમાં કથામાકર્ણ્ય વિષણો દુઃખિતશ્ચ સન્ જગામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu tasya bahusampadvidyamAnatvAt sa imAM kathAmAkarNya viSaNo duHkhitazca san jagAma| |
अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
ततो यीशोः परकरेव्वर्पयिता यिहूदास्तत्प्राणादण्डाज्ञां विदित्वा सन्तप्तमनाः प्रधानयाजकलोकप्राचीनानां समक्षं तास्त्रींशन्मुद्राः प्रतिदायावादीत्,
तदा यीशुस्तं विलोक्य स्नेहेन बभाषे, तवैकस्याभाव आस्ते; त्वं गत्वा सर्व्वस्वं विक्रीय दरिद्रेभ्यो विश्राणय, ततः स्वर्गे धनं प्राप्स्यसि; ततः परम् एत्य क्रुशं वहन् मदनुवर्त्ती भव।
अथ यीशुश्चतुर्दिशो निरीक्ष्य शिष्यान् अवादीत्, धनिलोकानाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
यस्माद् हेरोद् तं धार्म्मिकं सत्पुरुषञ्च ज्ञात्वा सम्मन्य रक्षितवान्; तत्कथां श्रुत्वा तदनुसारेण बहूनि कर्म्माणि कृतवान् हृष्टमनास्तदुपदेशं श्रुतवांश्च।
तस्मात् भूपोऽतिदुःखितः, तथापि स्वशपथस्य सहभोजिनाञ्चानुरोधात् तदनङ्गीकर्त्तुं न शक्तः।
अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।
स ईश्वरीयः शोकः परित्राणजनकं निरनुतापं मनःपरिवर्त्तनं साधयति किन्तु सांसारिकः शोको मृत्युं साधयति।
वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां।
यतो दीमा ऐहिकसंसारम् ईहमानो मां परित्यज्य थिषलनीकीं गतवान् तथा क्रीष्कि र्गालातियां गतवान् तीतश्च दाल्मातियां गतवान्।