अनन्तरं योहन् कारायां तिष्ठन् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?
मार्क 1:14 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य ईश्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যোহনি বন্ধনালযে বদ্ধে সতি যীশু ৰ্গালীল্প্ৰদেশমাগত্য ঈশ্ৱৰৰাজ্যস্য সুসংৱাদং প্ৰচাৰযন্ কথযামাস, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যোহনি বন্ধনালযে বদ্ধে সতি যীশু র্গালীল্প্রদেশমাগত্য ঈশ্ৱররাজ্যস্য সুসংৱাদং প্রচারযন্ কথযামাস, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယောဟနိ ဗန္ဓနာလယေ ဗဒ္ဓေ သတိ ယီၑု ရ္ဂာလီလ္ပြဒေၑမာဂတျ ဤၑွရရာဇျသျ သုသံဝါဒံ ပြစာရယန် ကထယာမာသ, satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yOhani bandhanAlayE baddhE sati yIzu rgAlIlpradEzamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યોહનિ બન્ધનાલયે બદ્ધે સતિ યીશુ ર્ગાલીલ્પ્રદેશમાગત્ય ઈશ્વરરાજ્યસ્ય સુસંવાદં પ્રચારયન્ કથયામાસ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM yohani bandhanAlaye baddhe sati yIzu rgAlIlpradezamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa, |
अनन्तरं योहन् कारायां तिष्ठन् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?
अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।
अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालील्देशं भ्रमितुम् आरभत।
ततः परं यीशुस्तेषां भजनभवन उपदिशन् राज्यस्य सुसंवादं प्रचारयन् लोकानां यस्य य आमयो या च पीडासीत्, तान् शमयन् शमयंश्च सर्व्वाणि नगराणि ग्रामांश्च बभ्राम।
अपरञ्च यीशु र्द्वादशभिः शिष्यैः सार्द्धं नानानगरेषु नानाग्रामेषु च गच्छन् इश्वरीयराजत्वस्य सुसंवादं प्रचारयितुं प्रारेभे।
अधुना पश्यत येषां समीपेऽहम् ईश्वरीयराज्यस्य सुसंवादं प्रचार्य्य भ्रमणं कृतवान् एतादृशा यूयं मम वदनं पुन र्द्रष्टुं न प्राप्स्यथ एतदप्यहं जानामि।
तैस्तदर्थम् एकस्मिन् दिने निरूपिते तस्मिन् दिने बहव एकत्र मिलित्वा पौलस्य वासगृहम् आगच्छन् तस्मात् पौल आ प्रातःकालात् सन्ध्याकालं यावन् मूसाव्यवस्थाग्रन्थाद् भविष्यद्वादिनां ग्रन्थेभ्यश्च यीशोः कथाम् उत्थाप्य ईश्वरस्य राज्ये प्रमाणं दत्वा तेषां प्रवृत्तिं जनयितुं चेष्टितवान्।
ईश्वरो निजपुत्रमधि यं सुसंवादं भविष्यद्वादिभि र्धर्म्मग्रन्थे प्रतिश्रुतवान् तं सुसंवादं प्रचारयितुं पृथक्कृत आहूतः प्रेरितश्च प्रभो र्यीशुख्रीष्टस्य सेवको यः पौलः
स चागत्य दूरवर्त्तिनो युष्मान् निकटवर्त्तिनो ऽस्मांश्च सन्धे र्मङ्गलवार्त्तां ज्ञापितवान्।