अपरं युष्मान् अहं वदामि, अध्यापकफिरूशिमानवानां धर्म्मानुष्ठानात् युष्माकं धर्म्मानुष्ठाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।
लूका 18:12 - सत्यवेदः। Sanskrit NT in Devanagari सप्तसु दिनेषु दिनद्वयमुपवसामि सर्व्वसम्पत्ते र्दशमांशं ददामि च, एतत्कथां कथयन् प्रार्थयामास। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সপ্তসু দিনেষু দিনদ্ৱযমুপৱসামি সৰ্ৱ্ৱসম্পত্তে ৰ্দশমাংশং দদামি চ, এতৎকথাং কথযন্ প্ৰাৰ্থযামাস| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সপ্তসু দিনেষু দিনদ্ৱযমুপৱসামি সর্ৱ্ৱসম্পত্তে র্দশমাংশং দদামি চ, এতৎকথাং কথযন্ প্রার্থযামাস| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သပ္တသု ဒိနေၐု ဒိနဒွယမုပဝသာမိ သရွွသမ္ပတ္တေ ရ္ဒၑမာံၑံ ဒဒါမိ စ, ဧတတ္ကထာံ ကထယန် ပြာရ္ထယာမာသ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script saptasu dinESu dinadvayamupavasAmi sarvvasampattE rdazamAMzaM dadAmi ca, EtatkathAM kathayan prArthayAmAsa| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સપ્તસુ દિનેષુ દિનદ્વયમુપવસામિ સર્વ્વસમ્પત્તે ર્દશમાંશં દદામિ ચ, એતત્કથાં કથયન્ પ્રાર્થયામાસ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script saptasu dineSu dinadvayamupavasAmi sarvvasampatte rdazamAMzaM dadAmi ca, etatkathAM kathayan prArthayAmAsa| |
अपरं युष्मान् अहं वदामि, अध्यापकफिरूशिमानवानां धर्म्मानुष्ठानात् युष्माकं धर्म्मानुष्ठाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।
सावधाना भवत, मनुजान् दर्शयितुं तेषां गोचरे धर्म्मकर्म्म मा कुरुत, तथा कृते युष्माकं स्वर्गस्थपितुः सकाशात् किञ्चन फलं न प्राप्स्यथ।
अपरम् उपवासकाले कपटिनो जना मानुषान् उपवासं ज्ञापयितुं स्वेषां वदनानि म्लानानि कुर्व्वन्ति, यूयं तइव विषणवदना मा भवत; अहं युष्मान् तथ्यं वदामि ते स्वकीयफलम् अलभन्त।
अपरं यदा प्रार्थयसे, तदा कपटिनइव मा कुरु, यस्मात् ते भजनभवने राजमार्गस्य कोणे तिष्ठन्तो लोकान् दर्शयन्तः प्रार्थयितुं प्रीयन्ते; अहं युष्मान् तथ्यं वदामि, ते स्वकीयफलं प्राप्नुवन्।
अनन्तरं योहनः शिष्यास्तस्य समीपम् आगत्य कथयामासुः, फिरूशिनो वयञ्च पुनः पुनरुपवसामः, किन्तु तव शिष्या नोपवसन्ति, कुतः?
किन्तु हन्त फिरूशिगणा यूयं न्यायम् ईश्वरे प्रेम च परित्यज्य पोदिनाया अरुदादीनां सर्व्वेषां शाकानाञ्च दशमांशान् दत्थ किन्तु प्रथमं पालयित्वा शेषस्यालङ्घनं युष्माकम् उचितमासीत्।
इत्थं निरूपितेषु सर्व्वकर्म्मसु कृतेषु सत्मु यूयमपीदं वाक्यं वदथ, वयम् अनुपकारिणो दासा अस्माभिर्यद्यत्कर्त्तव्यं तन्मात्रमेव कृतं।
तर्हि कुत्रात्मश्लाघा? सा दूरीकृता; कया व्यवस्थया? किं क्रियारूपव्यवस्थया? इत्थं नहि किन्तु तत् केवलविश्वासरूपया व्यवस्थयैव भवति।
अपरञ्च पूर्व्वपुरुषपरम्परागतेषु वाक्येष्वन्यापेक्षातीवासक्तः सन् अहं यिहूदिधर्म्मते मम समवयस्कान् बहून् स्वजातीयान् अत्यशयि।
यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज्ञायुक्ता सती सर्व्वत्र फलदा भवति।