योहन 9:16 - सत्यवेदः। Sanskrit NT in Devanagari स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স পুমান্ ঈশ্ৱৰান্ন যতঃ স ৱিশ্ৰামৱাৰং ন মন্যতে| ততোন্যে কেচিৎ প্ৰত্যৱদন্ পাপী পুমান্ কিম্ এতাদৃশম্ আশ্চৰ্য্যং কৰ্ম্ম কৰ্ত্তুং শক্নোতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স পুমান্ ঈশ্ৱরান্ন যতঃ স ৱিশ্রামৱারং ন মন্যতে| ততোন্যে কেচিৎ প্রত্যৱদন্ পাপী পুমান্ কিম্ এতাদৃশম্ আশ্চর্য্যং কর্ম্ম কর্ত্তুং শক্নোতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ပုမာန် ဤၑွရာန္န ယတး သ ဝိၑြာမဝါရံ န မနျတေ၊ တတောနျေ ကေစိတ် ပြတျဝဒန် ပါပီ ပုမာန် ကိမ် ဧတာဒၖၑမ် အာၑ္စရျျံ ကရ္မ္မ ကရ္တ္တုံ ၑက္နောတိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ પુમાન્ ઈશ્વરાન્ન યતઃ સ વિશ્રામવારં ન મન્યતે| તતોન્યે કેચિત્ પ્રત્યવદન્ પાપી પુમાન્ કિમ્ એતાદૃશમ્ આશ્ચર્ય્યં કર્મ્મ કર્ત્તું શક્નોતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyate| tatonye kecit pratyavadan pApI pumAn kim etAdRzam AzcaryyaM karmma karttuM zaknoti? |
तद् विलोक्य फिरूशिनो यीशुं जगदुः, पश्य विश्रामवारे यत् कर्म्माकर्त्तव्यं तदेव तव शिष्याः कुर्व्वन्ति।
किन्तु विश्रामवारे यीशुना तस्याः स्वास्थ्यकरणाद् भजनगेहस्याधिपतिः प्रकुप्य लोकान् उवाच, षट्सु दिनेषु लोकैः कर्म्म कर्त्तव्यं तस्माद्धेतोः स्वास्थ्यार्थं तेषु दिनेषु आगच्छत, विश्रामवारे मागच्छत।
अतएव पितर्य्यहं तिष्ठामि पिता च मयि तिष्ठति ममास्यां कथायां प्रत्ययं कुरुत, नो चेत् कर्म्महेतोः प्रत्ययं कुरुत।
यादृशानि कर्म्माणि केनापि कदापि नाक्रियन्त तादृशानि कर्म्माणि यदि तेषां साक्षाद् अहं नाकरिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना ते दृष्ट्वापि मां मम पितरञ्चार्त्तीयन्त।
इत्थं यीशुर्गालीलप्रदेशे आश्चर्य्यकार्म्म प्रारम्भ निजमहिमानं प्राकाशयत् ततः शिष्यास्तस्मिन् व्यश्वसन्।
यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज्ञायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते।
किन्तु तत्प्रमाणादपि मम गुरुतरं प्रमाणं विद्यते पिता मां प्रेष्य यद्यत् कर्म्म समापयितुं शक्त्तिमददात् मया कृतं तत्तत् कर्म्म मदर्थे प्रमाणं ददाति।
तस्माद् यिहूदीयाः परस्परं विवदमाना वक्त्तुमारेभिरे एष भोजनार्थं स्वीयं पललं कथम् अस्मभ्यं दास्यति?
ततो लोकानां मध्ये तस्मिन् नानाविधा विवादा भवितुम् आरब्धवन्तः। केचिद् अवोचन् स उत्तमः पुरुषः केचिद् अवोचन् न तथा वरं लोकानां भ्रमं जनयति।
अतएव विश्रामवारे मनुष्याणां त्वक्छेदे कृते यदि मूसाव्यवस्थामङ्गनं न भवति तर्हि मया विश्रामवारे मानुषः सम्पूर्णरूपेण स्वस्थोऽकारि तत्कारणाद् यूयं किं मह्यं कुप्यथ?
तदा ते पुनश्च तं पूर्व्वान्धम् आहूय व्याहरन् ईश्वरस्य गुणान् वद एष मनुष्यः पापीति वयं जानीमः।
किन्तु कियन्तो लोका यिहूदीयानां सपक्षाः कियन्तो लोकाः प्रेरितानां सपक्षा जाताः, अतो नागरिकजननिवहमध्ये भिन्नवाक्यत्वम् अभवत्।