योहन 7:19 - सत्यवेदः। Sanskrit NT in Devanagari मूसा युष्मभ्यं व्यवस्थाग्रन्थं किं नाददात्? किन्तु युष्माकं कोपि तां व्यवस्थां न समाचरति। मां हन्तुं कुतो यतध्वे? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মূসা যুষ্মভ্যং ৱ্যৱস্থাগ্ৰন্থং কিং নাদদাৎ? কিন্তু যুষ্মাকং কোপি তাং ৱ্যৱস্থাং ন সমাচৰতি| মাং হন্তুং কুতো যতধ্ৱে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মূসা যুষ্মভ্যং ৱ্যৱস্থাগ্রন্থং কিং নাদদাৎ? কিন্তু যুষ্মাকং কোপি তাং ৱ্যৱস্থাং ন সমাচরতি| মাং হন্তুং কুতো যতধ্ৱে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မူသာ ယုၐ္မဘျံ ဝျဝသ္ထာဂြန္ထံ ကိံ နာဒဒါတ်? ကိန္တု ယုၐ္မာကံ ကောပိ တာံ ဝျဝသ္ထာံ န သမာစရတိ၊ မာံ ဟန္တုံ ကုတော ယတဓွေ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kOpi tAM vyavasthAM na samAcarati| mAM hantuM kutO yatadhvE? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મૂસા યુષ્મભ્યં વ્યવસ્થાગ્રન્થં કિં નાદદાત્? કિન્તુ યુષ્માકં કોપિ તાં વ્યવસ્થાં ન સમાચરતિ| માં હન્તું કુતો યતધ્વે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mUsA yuSmabhyaM vyavasthAgranthaM kiM nAdadAt? kintu yuSmAkaM kopi tAM vyavasthAM na samAcarati| mAM hantuM kuto yatadhve? |
किन्तु ते कृषीवलाः सुतं वीक्ष्य परस्परम् इति मन्त्रयितुम् आरेभिरे, अयमुत्तराधिकारी वयमेनं निहत्यास्याधिकारं स्ववशीकरिष्यामः।
इमां वाणीं श्रुत्वाध्यापकाः प्रधानयाजकाश्च तं यथा नाशयितुं शक्नुवन्ति तथोेपायं मृगयामासुः, किन्तु तस्योपदेशात् सर्व्वे लोका विस्मयं गता अतस्ते तस्माद् बिभ्युः।
ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं ? किन्तु ते निःशब्दास्तस्थुः।
मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।
ततो यीशु र्विश्रामवारे कर्म्मेदृशं कृतवान् इति हेतो र्यिहूदीयास्तं ताडयित्वा हन्तुम् अचेष्टन्त।
ततो यिहूदीयास्तं हन्तुं पुनरयतन्त यतो विश्रामवारं नामन्यत तदेव केवलं न अधिकन्तु ईश्वरं स्वपितरं प्रोच्य स्वमपीश्वरतुल्यं कृतवान्।
पुतुः समीपेऽहं युष्मान् अपवदिष्यामीति मा चिन्तयत यस्मिन् , यस्मिन् युष्माकं विश्वसः सएव मूसा युष्मान् अपवदति।
ततः परं यिहूदीयलोकास्तं हन्तुं समैहन्त तस्माद् यीशु र्यिहूदाप्रदेशे पर्य्यटितुं नेच्छन् गालील् प्रदेशे पर्य्यटितुं प्रारभत।
महाप्रान्तरस्थमण्डलीमध्येऽपि स एव सीनयपर्व्वतोपरि तेन सार्द्धं संलापिनो दूतस्य चास्मत्पितृगणस्य मध्यस्थः सन् अस्मभ्यं दातव्यनि जीवनदायकानि वाक्यानि लेभे।
तर्हि व्यवस्था किम्भूता? प्रतिज्ञा यस्मै प्रतिश्रुता तस्य सन्तानस्यागमनं यावद् व्यभिचारनिवारणार्थं व्यवस्थापि दत्ता, सा च दूतैराज्ञापिता मध्यस्थस्य करे समर्पिता च।
ते त्वक्छेदग्राहिणोऽपि व्यवस्थां न पालयन्ति किन्तु युष्मच्छरीरात् श्लाघालाभार्थं युष्माकं त्वक्छेदम् इच्छन्ति।