तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्।
योहन 5:5 - सत्यवेदः। Sanskrit NT in Devanagari तदाष्टात्रिंशद्वर्षाणि यावद् रोगग्रस्त एकजनस्तस्मिन् स्थाने स्थितवान्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদাষ্টাত্ৰিংশদ্ৱৰ্ষাণি যাৱদ্ ৰোগগ্ৰস্ত একজনস্তস্মিন্ স্থানে স্থিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদাষ্টাত্রিংশদ্ৱর্ষাণি যাৱদ্ রোগগ্রস্ত একজনস্তস্মিন্ স্থানে স্থিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါၐ္ဋာတြိံၑဒွရ္ၐာဏိ ယာဝဒ် ရောဂဂြသ္တ ဧကဇနသ္တသ္မိန် သ္ထာနေ သ္ထိတဝါန်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadASTAtriMzadvarSANi yAvad rOgagrasta Ekajanastasmin sthAnE sthitavAn| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાષ્ટાત્રિંશદ્વર્ષાણિ યાવદ્ રોગગ્રસ્ત એકજનસ્તસ્મિન્ સ્થાને સ્થિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadASTAtriMzadvarSANi yAvad rogagrasta ekajanastasmin sthAne sthitavAn| |
तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्।
तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या?
द्वादशवर्षाणि प्रदररोगग्रस्ता नाना वैद्यैश्चिकित्सिता सर्व्वस्वं व्ययित्वापि स्वास्थ्यं न प्राप्ता या योषित् सा यीशोः पश्चादागत्य तस्य वस्त्रग्रन्थिं पस्पर्श।
ततः परं येशु र्मन्दिरे तं नरं साक्षात्प्राप्याकथयत् पश्येदानीम् अनामयो जातोसि यथाधिका दुर्दशा न घटते तद्धेतोः पापं कर्म्म पुनर्माकार्षीः।
यतो विशेषकाले तस्य सरसो वारि स्वर्गीयदूत एत्याकम्पयत् तत्कीलालकम्पनात् परं यः कश्चिद् रोगी प्रथमं पानीयमवारोहत् स एव तत्क्षणाद् रोगमुक्तोऽभवत्।
यीशुस्तं शयितं दृष्ट्वा बहुकालिकरोगीति ज्ञात्वा व्याहृतवान् त्वं किं स्वस्थो बुभूषसि?
किन्त्वधुना कथं दृष्टिं प्राप्तवान् तदावां न् जानीवः कोस्य चक्षुषी प्रसन्ने कृतवान् तदपि न जानीव एष वयःप्राप्त एनं पृच्छत स्वकथां स्वयं वक्ष्यति।
तत्रोभयपादयोश्चलनशक्तिहीनो जन्मारभ्य खञ्जः कदापि गमनं नाकरोत् एतादृश एको मानुषो लुस्त्रानगर उपविश्य पौलस्य कथां श्रुतवान्।
तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।
यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः।
तदा तत्र पक्षाघातव्याधिनाष्टौ वत्सरान् शय्यागतम् ऐनेयनामानं मनुष्यं साक्षत् प्राप्य तमवदत्,