योहन 4:19 - सत्यवेदः। Sanskrit NT in Devanagari तदा सा महिला गदितवति हे महेच्छ भवान् एको भविष्यद्वादीति बुद्धं मया। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সা মহিলা গদিতৱতি হে মহেচ্ছ ভৱান্ একো ভৱিষ্যদ্ৱাদীতি বুদ্ধং মযা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সা মহিলা গদিতৱতি হে মহেচ্ছ ভৱান্ একো ভৱিষ্যদ্ৱাদীতি বুদ্ধং মযা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သာ မဟိလာ ဂဒိတဝတိ ဟေ မဟေစ္ဆ ဘဝါန် ဧကော ဘဝိၐျဒွါဒီတိ ဗုဒ္ဓံ မယာ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sA mahilA gaditavati hE mahEccha bhavAn EkO bhaviSyadvAdIti buddhaM mayA| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સા મહિલા ગદિતવતિ હે મહેચ્છ ભવાન્ એકો ભવિષ્યદ્વાદીતિ બુદ્ધં મયા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sA mahilA gaditavati he maheccha bhavAn eko bhaviSyadvAdIti buddhaM mayA| |
स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणाञ्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत्
तस्मात् सर्व्वे लोकाः शशङ्किरे; एको महाभविष्यद्वादी मध्येऽस्माकम् समुदैत्, ईश्वरश्च स्वलोकानन्वगृह्लात् कथामिमां कथयित्वा ईश्वरं धन्यं जगदुः।
तस्मात् स निमन्त्रयिता फिरूशी मनसा चिन्तयामास, यद्ययं भविष्यद्वादी भवेत् तर्हि एनं स्पृशति या स्त्री सा का कीदृशी चेति ज्ञातुं शक्नुयात् यतः सा दुष्टा।
यतस्तव पञ्च पतयोभवन् अधुना तु त्वया सार्द्धं यस्तिष्ठति स तव भर्त्ता न वाक्यमिदं सत्यमवादिः।
अहं यद्यत् कर्म्माकरवं तत्सर्व्वं मह्यमकथयद् एतादृशं मानवमेकम् आगत्य पश्यत रु किम् अभिषिक्तो न भवति ?
अपरं यीशोरेतादृशीम् आश्चर्य्यक्रियां दृष्ट्वा लोका मिथो वक्तुमारेभिरे जगति यस्यागमनं भविष्यति स एवायम् अवश्यं भविष्यद्वक्त्ता।
इत्थं तेषां परस्परं भिन्नवाक्यत्वम् अभवत्। पश्चात् ते पुनरपि तं पूर्व्वान्धं मानुषम् अप्राक्षुः यो जनस्तव चक्षुषी प्रसन्ने कृतवान् तस्मिन् त्वं किं वदसि? स उक्त्तवान् स भविशद्वादी।