ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 14:12 - सत्यवेदः। Sanskrit NT in Devanagari

अहं युष्मानतियथार्थं वदामि, यो जनो मयि विश्वसिति सोहमिव कर्म्माणि करिष्यति वरं ततोपि महाकर्म्माणि करिष्यति यतो हेतोरहं पितुः समीपं गच्छामि।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অহং যুষ্মানতিযথাৰ্থং ৱদামি, যো জনো মযি ৱিশ্ৱসিতি সোহমিৱ কৰ্ম্মাণি কৰিষ্যতি ৱৰং ততোপি মহাকৰ্ম্মাণি কৰিষ্যতি যতো হেতোৰহং পিতুঃ সমীপং গচ্ছামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অহং যুষ্মানতিযথার্থং ৱদামি, যো জনো মযি ৱিশ্ৱসিতি সোহমিৱ কর্ম্মাণি করিষ্যতি ৱরং ততোপি মহাকর্ম্মাণি করিষ্যতি যতো হেতোরহং পিতুঃ সমীপং গচ্ছামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အဟံ ယုၐ္မာနတိယထာရ္ထံ ဝဒါမိ, ယော ဇနော မယိ ဝိၑွသိတိ သောဟမိဝ ကရ္မ္မာဏိ ကရိၐျတိ ဝရံ တတောပိ မဟာကရ္မ္မာဏိ ကရိၐျတိ ယတော ဟေတောရဟံ ပိတုး သမီပံ ဂစ္ဆာမိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ahaM yuSmAnatiyathArthaM vadAmi, yO janO mayi vizvasiti sOhamiva karmmANi kariSyati varaM tatOpi mahAkarmmANi kariSyati yatO hEtOrahaM pituH samIpaM gacchAmi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અહં યુષ્માનતિયથાર્થં વદામિ, યો જનો મયિ વિશ્વસિતિ સોહમિવ કર્મ્માણિ કરિષ્યતિ વરં તતોપિ મહાકર્મ્માણિ કરિષ્યતિ યતો હેતોરહં પિતુઃ સમીપં ગચ્છામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ahaM yuSmAnatiyathArthaM vadAmi, yo jano mayi vizvasiti sohamiva karmmANi kariSyati varaM tatopi mahAkarmmANi kariSyati yato hetorahaM pituH samIpaM gacchAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 14:12
28 अन्तरसन्दर्भाः  

ततो यीशुस्तानुवाच, युष्मानहं सत्यं वदामि, यदि यूयमसन्दिग्धाः प्रतीथ, तर्हि यूयमपि केवलोडुम्वरपादपं प्रतीत्थं कर्त्तुं शक्ष्यथ, तन्न, त्वं चलित्वा सागरे पतेति वाक्यं युष्माभिरस्मिन शैले प्रोक्तेपि तदैव तद् घटिष्यते।


ततो दूरे सपत्रमुडुम्बरपादपं विलोक्य तत्र किञ्चित् फलं प्राप्तुं तस्य सन्निकृष्टं ययौ, तदानीं फलपातनस्य समयो नागच्छति। ततस्तत्रोपस्थितः पत्राणि विना किमप्यपरं न प्राप्य स कथितवान्,


किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति।


अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।


तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।


इत्थं सति वपत्येकश्छिनत्यन्य इति वचनं सिद्ध्यति।


पिता पुत्रे स्नेहं करोति तस्मात् स्वयं यद्यत् कर्म्म करोति तत्सर्व्वं पुत्रं दर्शयति ; यथा च युष्माकं आश्चर्य्यज्ञानं जनिष्यते तदर्थम् इतोपि महाकर्म्म तं दर्शयिष्यति।


ततो यीशुरवदद् अहम् अल्पदिनानि युष्माभिः सार्द्धं स्थित्वा मत्प्रेरयितुः समीपं यास्यामि।


ये तस्मिन् विश्वसन्ति त आत्मानं प्राप्स्यन्तीत्यर्थे स इदं वाक्यं व्याहृतवान् एतत्कालं यावद् यीशु र्विभवं न प्राप्तस्तस्मात् पवित्र आत्मा नादीयत।


ते नानाजातीयभाषाभिः कथां कथयन्त ईश्वरं प्रशंसन्ति, इति दृष्ट्वा श्रुत्वा च विस्मयम् आपद्यन्त।


सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।


यत् परिधेये गात्रमार्जनवस्त्रे वा तस्य देहात् पीडितलोकानाम् समीपम् आनीते ते निरामया जाता अपवित्रा भूताश्च तेभ्यो बहिर्गतवन्तः।


स ईश्वरस्य दक्षिणकरेणोन्नतिं प्राप्य पवित्र आत्मिन पिता यमङ्गीकारं कृतवान् तस्य फलं प्राप्य यत् पश्यथ शृणुथ च तदवर्षत्।


ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः


तौ मानवौ प्रति किं कर्त्तव्यं? तावेकं प्रसिद्धम् आश्चर्य्यं कर्म्म कृतवन्तौ तद् यिरूशालम्निवासिनां सर्व्वेषां लोकानां समीपे प्राकाशत तच्च वयमपह्नोतुं न शक्नुमः।


अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च।


तथापि ये लोकास्तयोरुपदेशम् अशृण्वन् तेषां प्रायेण पञ्चसहस्राणि जना व्यश्वसन्।


पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः।


अपरञ्च ईश्वरस्य कथा देशं व्याप्नोत् विशेषतो यिरूशालमि नगरे शिष्याणां संख्या प्रभूतरूपेणावर्द्धत याजकानां मध्येपि बहवः ख्रीष्टमतग्राहिणोऽभवन्।


तस्मात् लाका ईदृशं तस्याश्चर्य्यं कर्म्म विलोक्य निशम्य च सर्व्व एकचित्तीभूय तेनोक्ताख्याने मनांसि न्यदधुः।


हे ऐनेय यीशुख्रीष्टस्त्वां स्वस्थम् अकार्षीत्, त्वमुत्थाय स्वशय्यां निक्षिप, इत्युक्तमात्रे स उदतिष्ठत्।


किन्तु पितरस्ताः सर्व्वा बहिः कृत्वा जानुनी पातयित्वा प्रार्थितवान्; पश्चात् शवं प्रति दृष्टिं कृत्वा कथितवान्, हे टाबीथे त्वमुत्तिष्ठ, इति वाक्य उक्ते सा स्त्री चक्षुषी प्रोन्मील्य पितरम् अवलोक्योत्थायोपाविशत्।


केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं।