किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।
याकूब 1:26 - सत्यवेदः। Sanskrit NT in Devanagari अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনাযত্তৰসনঃ সন্ যঃ কশ্চিৎ স্ৱমনো ৱঞ্চযিৎৱা স্ৱং ভক্তং মন্যতে তস্য ভক্তি ৰ্মুধা ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনাযত্তরসনঃ সন্ যঃ কশ্চিৎ স্ৱমনো ৱঞ্চযিৎৱা স্ৱং ভক্তং মন্যতে তস্য ভক্তি র্মুধা ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနာယတ္တရသနး သန် ယး ကၑ္စိတ် သွမနော ဝဉ္စယိတွာ သွံ ဘက္တံ မနျတေ တသျ ဘက္တိ ရ္မုဓာ ဘဝတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anAyattarasanaH san yaH kazcit svamanO vanjcayitvA svaM bhaktaM manyatE tasya bhakti rmudhA bhavati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનાયત્તરસનઃ સન્ યઃ કશ્ચિત્ સ્વમનો વઞ્ચયિત્વા સ્વં ભક્તં મન્યતે તસ્ય ભક્તિ ર્મુધા ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anAyattarasanaH san yaH kazcit svamano vaJcayitvA svaM bhaktaM manyate tasya bhakti rmudhA bhavati| |
किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।
अतो यूयं केन प्रकारेण शृणुथ तत्र सावधाना भवत, यस्य समीपे बर्द्धते तस्मै पुनर्दास्यते किन्तु यस्याश्रये न बर्द्धते तस्य यद्यदस्ति तदपि तस्मात् नेष्यते।
वयञ्चेश्वरस्य मृषासाक्षिणो भवामः, यतः ख्रीष्ट स्तेनोत्थापितः इति साक्ष्यम् अस्माभिरीश्वरमधि दत्तं किन्तु मृतानामुत्थिति र्यदि न भवेत् तर्हि स तेन नोत्थापितः।
युष्माकं विश्वासो यदि वितथो न भवेत् तर्हि सुसंवादयुक्तानि मम वाक्यानि स्मरतां युष्माकं तेन सुसंवादेन परित्राणं जायते।
कोपि स्वं न वञ्चयतां। युष्माकं कश्चन चेदिहलोकस्य ज्ञानेन ज्ञानवानहमिति बुध्यते तर्हि स यत् ज्ञानी भवेत् तदर्थं मूढो भवतु।
परन्तु ये लोका मान्यास्ते ये केचिद् भवेयुस्तानहं न गणयामि यत ईश्वरः कस्यापि मानवस्य पक्षपातं न करोति, ये च मान्यास्ते मां किमपि नवीनं नाज्ञापयन्।
अतो मह्यं दत्तम् अनुग्रहं प्रतिज्ञाय स्तम्भा इव गणिता ये याकूब् कैफा योहन् चैते सहायतासूचकं दक्षिणहस्तग्रहंण विधाय मां बर्णब्बाञ्च जगदुः, युवां भिन्नजातीयानां सन्निधिं गच्छतं वयं छिन्नत्वचा सन्निधिं गच्छामः,
तर्हि युष्माकं गुरुतरो दुःखभोगः किं निष्फलो भविष्यति? कुफलयुक्तो वा किं भविष्यति?
अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
अपरं कुत्सितालापः प्रलापः श्लेषोक्तिश्च न भवतु यत एतान्यनुचितानि किन्त्वीश्वरस्य धन्यवादो भवतु।
युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।
अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।
अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।
किन्तु हे निर्ब्बोधमानव, कर्म्महीनः प्रत्ययो मृत एवास्त्येतद् अवगन्तुं किम् इच्छसि?
अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्।