हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पानपात्राणां भोजनपात्राणाञ्च बहिः परिष्कुरुथ; किन्तु तदभ्यन्तरं दुरात्मतया कलुषेण च परिपूर्णमास्ते।
इफिसियों 5:18 - सत्यवेदः। Sanskrit NT in Devanagari सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সৰ্ৱ্ৱনাশজনকেন সুৰাপানেন মত্তা মা ভৱত কিন্ত্ৱাত্মনা পূৰ্য্যধ্ৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সর্ৱ্ৱনাশজনকেন সুরাপানেন মত্তা মা ভৱত কিন্ত্ৱাত্মনা পূর্য্যধ্ৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သရွွနာၑဇနကေန သုရာပါနေန မတ္တာ မာ ဘဝတ ကိန္တွာတ္မနာ ပူရျျဓွံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સર્વ્વનાશજનકેન સુરાપાનેન મત્તા મા ભવત કિન્ત્વાત્મના પૂર્ય્યધ્વં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sarvvanAzajanakena surApAnena mattA mA bhavata kintvAtmanA pUryyadhvaM| |
हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पानपात्राणां भोजनपात्राणाञ्च बहिः परिष्कुरुथ; किन्तु तदभ्यन्तरं दुरात्मतया कलुषेण च परिपूर्णमास्ते।
यतो हेतोः स परमेश्वरस्य गोचरे महान् भविष्यति तथा द्राक्षारसं सुरां वा किमपि न पास्यति, अपरं जन्मारभ्य पवित्रेणात्मना परिपूर्णः
तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?
किन्तु प्रभुर्विलम्बेनागमिष्यति, इति विचिन्त्य स दासो यदि तदन्यदासीदासान् प्रहर्त्तुम् भोक्तुं पातुं मदितुञ्च प्रारभते,
अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
लोकाः प्रथमं उत्तमद्राक्षारसं ददति तषु यथेष्टं पितवत्सु तस्मा किञ्चिदनुत्तमञ्च ददति किन्तु त्वमिदानीं यावत् उत्तमद्राक्षारसं स्थापयसि।
स स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः।
अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः।
यतो भोजनकाले युष्माकमेकैकेन स्वकीयं भक्ष्यं तूर्णं ग्रस्यते तस्माद् एको जनो बुभुक्षितस्तिष्ठति, अन्यश्च परितृप्तो भवति।
किन्तु भ्रातृत्वेन विख्यातः कश्चिज्जनो यदि व्यभिचारी लोभी देवपूजको निन्दको मद्यप उपद्रावी वा भवेत् तर्हि तादृशेन मानवेन सह भोजनपानेऽपि युष्माभि र्न कर्त्तव्ये इत्यधुना मया लिखितं।
ये निद्रान्ति ते निशायामेव निद्रान्ति ते च मत्ता भवन्ति ते रजन्यामेव मत्ता भवन्ति।
तस्माद् यो नरो ऽनिन्दित एकस्या योषितः स्वामी विश्वासिनाम् अपचयस्यावाध्यत्वस्य वा दोषेणालिप्तानाञ्च सन्तानानां जनको भवति स एव योग्यः।