सा वाग् इफिषनगरनिवासिनसं सर्व्वेषां यिहूदीयानां भिन्नदेशीयानां लोकानाञ्च श्रवोगोचरीभूता; ततः सर्व्वे भयं गताः प्रभो र्यीशो र्नाम्नो यशो ऽवर्द्धत।
प्रेरिता 5:11 - सत्यवेदः। Sanskrit NT in Devanagari तस्मात् मण्डल्याः सर्व्वे लोका अन्यलोकाश्च तां वार्त्तां श्रुत्वा साध्वसं गताः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ মণ্ডল্যাঃ সৰ্ৱ্ৱে লোকা অন্যলোকাশ্চ তাং ৱাৰ্ত্তাং শ্ৰুৎৱা সাধ্ৱসং গতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ মণ্ডল্যাঃ সর্ৱ্ৱে লোকা অন্যলোকাশ্চ তাং ৱার্ত্তাং শ্রুৎৱা সাধ্ৱসং গতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် မဏ္ဍလျား သရွွေ လောကာ အနျလောကာၑ္စ တာံ ဝါရ္တ္တာံ ၑြုတွာ သာဓွသံ ဂတား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt maNPalyAH sarvvE lOkA anyalOkAzca tAM vArttAM zrutvA sAdhvasaM gatAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ મણ્ડલ્યાઃ સર્વ્વે લોકા અન્યલોકાશ્ચ તાં વાર્ત્તાં શ્રુત્વા સાધ્વસં ગતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt maNDalyAH sarvve lokA anyalokAzca tAM vArttAM zrutvA sAdhvasaM gatAH| |
सा वाग् इफिषनगरनिवासिनसं सर्व्वेषां यिहूदीयानां भिन्नदेशीयानां लोकानाञ्च श्रवोगोचरीभूता; ततः सर्व्वे भयं गताः प्रभो र्यीशो र्नाम्नो यशो ऽवर्द्धत।
प्रेरितै र्नानाप्रकारलक्षणेषु महाश्चर्य्यकर्ममसु च दर्शितेषु सर्व्वलोकानां भयमुपस्थितं।
एतां कथां श्रुत्वैव सोऽनानियो भूमौ पतन् प्राणान् अत्यजत्, तद्वृत्तान्तं यावन्तो लोका अशृण्वन् तेषां सर्व्वेषां महाभयम् अजायत्।
इत्थं सति यिहूदियागालील्शोमिरोणदेशीयाः सर्व्वा मण्डल्यो विश्रामं प्राप्तास्ततस्तासां निष्ठाभवत् प्रभो र्भिया पवित्रस्यात्मनः सान्त्वनया च कालं क्षेपयित्वा बहुसंख्या अभवन्।
अतो हे प्रियतमाः, युष्माभि र्यद्वत् सर्व्वदा क्रियते तद्वत् केवले ममोपस्थितिकाले तन्नहि किन्त्विदानीम् अनुपस्थितेऽपि मयि बहुतरयत्नेनाज्ञां गृहीत्वा भयकम्पाभ्यां स्वस्वपरित्राणं साध्यतां।
अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।
यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,
अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।
अपरं तद्विश्रामप्राप्तेः प्रतिज्ञा यदि तिष्ठति तर्ह्यस्माकं कश्चित् चेत् तस्याः फलेन वञ्चितो भवेत् वयम् एतस्माद् बिभीमः।
अपरञ्च यो विनापक्षपातम् एकैकमानुषस्य कर्म्मानुसाराद् विचारं करोति स यदि युष्माभिस्तात आख्यायते तर्हि स्वप्रवासस्य कालो युष्माभि र्भीत्या याप्यतां।
हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥