प्रेरिता 26:16 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु समुत्तिष्ठ त्वं यद् दृष्टवान् इतः पुनञ्च यद्यत् त्वां दर्शयिष्यामि तेषां सर्व्वेषां कार्य्याणां त्वां साक्षिणं मम सेवकञ्च कर्त्तुम् दर्शनम् अदाम्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু সমুত্তিষ্ঠ ৎৱং যদ্ দৃষ্টৱান্ ইতঃ পুনঞ্চ যদ্যৎ ৎৱাং দৰ্শযিষ্যামি তেষাং সৰ্ৱ্ৱেষাং কাৰ্য্যাণাং ৎৱাং সাক্ষিণং মম সেৱকঞ্চ কৰ্ত্তুম্ দৰ্শনম্ অদাম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু সমুত্তিষ্ঠ ৎৱং যদ্ দৃষ্টৱান্ ইতঃ পুনঞ্চ যদ্যৎ ৎৱাং দর্শযিষ্যামি তেষাং সর্ৱ্ৱেষাং কার্য্যাণাং ৎৱাং সাক্ষিণং মম সেৱকঞ্চ কর্ত্তুম্ দর্শনম্ অদাম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သမုတ္တိၐ္ဌ တွံ ယဒ် ဒၖၐ္ဋဝါန် ဣတး ပုနဉ္စ ယဒျတ် တွာံ ဒရ္ၑယိၐျာမိ တေၐာံ သရွွေၐာံ ကာရျျာဏာံ တွာံ သာက္ၐိဏံ မမ သေဝကဉ္စ ကရ္တ္တုမ် ဒရ္ၑနမ် အဒါမ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu samuttiSTha tvaM yad dRSTavAn itaH punanjca yadyat tvAM darzayiSyAmi tESAM sarvvESAM kAryyANAM tvAM sAkSiNaM mama sEvakanjca karttum darzanam adAm| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સમુત્તિષ્ઠ ત્વં યદ્ દૃષ્ટવાન્ ઇતઃ પુનઞ્ચ યદ્યત્ ત્વાં દર્શયિષ્યામિ તેષાં સર્વ્વેષાં કાર્ય્યાણાં ત્વાં સાક્ષિણં મમ સેવકઞ્ચ કર્ત્તુમ્ દર્શનમ્ અદામ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu samuttiSTha tvaM yad dRSTavAn itaH punaJca yadyat tvAM darzayiSyAmi teSAM sarvveSAM kAryyANAM tvAM sAkSiNaM mama sevakaJca karttum darzanam adAm| |
सन् निजस्थानम् अगच्छत्, तत्पदं लब्धुम् एनयो र्जनयो र्मध्ये भवता कोऽभिरुचितस्तदस्मान् दर्श्यतां।
तथापि तं क्लेशमहं तृणाय न मन्ये; ईश्वरस्यानुग्रहविषयकस्य सुसंवादस्य प्रमाणं दातुं, प्रभो र्यीशोः सकाशाद यस्याः सेवायाः भारं प्राप्नवं तां सेवां साधयितुं सानन्दं स्वमार्गं समापयितुुञ्च निजप्राणानपि प्रियान् न मन्ये।
अनन्तरं स तान् नत्वा स्वीयप्रचारणेन भिन्नदेशीयान् प्रतीश्वरो यानि कर्म्माणि साधितवान् तदीयां कथाम् अनुक्रमात् कथितवान्।
ततः परं पृष्टवानहं, हे प्रभो मया किं कर्त्तव्यं? ततः प्रभुरकथयत्, उत्थाय दम्मेषकनगरं याहि त्वया यद्यत् कर्त्तव्यं निरूपितमास्ते तत् तत्र त्वं ज्ञापयिष्यसे।
रात्रो प्रभुस्तस्य समीपे तिष्ठन् कथितवान् हे पौल निर्भयो भव यथा यिरूशालम्नगरे मयि साक्ष्यं दत्तवान् तथा रोमानगरेपि त्वया दातव्यम्।
अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते ऽन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति
भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि।
सर्व्वञ्चैतद् ईश्वरस्य कर्म्म यतो यीशुख्रीष्टेन स एवास्मान् स्वेन सार्द्धं संहितवान् सन्धानसम्बन्धीयां परिचर्य्याम् अस्मासु समर्पितवांश्च।
अहं कस्माच्चित् मनुष्यात् तं न गृहीतवान् न वा शिक्षितवान् केवलं यीशोः ख्रीष्टस्य प्रकाशनादेव।
तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत।
अर्थतः पूर्व्वं मया संक्षेपेण यथा लिखितं तथाहं प्रकाशितवाक्येनेश्वरस्य निगूढं भावं ज्ञापितोऽभवं।
किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।
यत ईश्वरस्य मन्त्रणया युष्मदर्थम् ईश्वरीयवाक्यस्य प्रचारस्य भारो मयि समपितस्तस्माद् अहं तस्याः समितेः परिचारकोऽभवं।
अस्माकं प्रियः सहदासो युष्माकं कृते च ख्रीष्टस्य विश्वस्तपरिचारको य इपफ्रास्तद् वाक्यं
स्वभ्रातरं ख्रीष्टस्य सुसंवादे सहकारिणञ्चेश्वरस्य परिचारकं तीमथियं युष्मत्समीपम् अप्रेषयं।
एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।
किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च।