तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
प्रेरिता 16:2 - सत्यवेदः। Sanskrit NT in Devanagari स जनो लुस्त्रा-इकनियनगरस्थानां भ्रातृणां समीपेपि सुख्यातिमान् आसीत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স জনো লুস্ত্ৰা-ইকনিযনগৰস্থানাং ভ্ৰাতৃণাং সমীপেপি সুখ্যাতিমান্ আসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স জনো লুস্ত্রা-ইকনিযনগরস্থানাং ভ্রাতৃণাং সমীপেপি সুখ্যাতিমান্ আসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဇနော လုသ္တြာ-ဣကနိယနဂရသ္ထာနာံ ဘြာတၖဏာံ သမီပေပိ သုချာတိမာန် အာသီတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa janO lustrA-ikaniyanagarasthAnAM bhrAtRNAM samIpEpi sukhyAtimAn AsIt| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ જનો લુસ્ત્રા-ઇકનિયનગરસ્થાનાં ભ્રાતૃણાં સમીપેપિ સુખ્યાતિમાન્ આસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa jano lustrA-ikaniyanagarasthAnAM bhrAtRNAM samIpepi sukhyAtimAn AsIt| |
तस्मिन् समये तत्र स्थाने साकल्येन विंशत्यधिकशतं शिष्या आसन्। ततः पितरस्तेषां मध्ये तिष्ठन् उक्तवान्
तौ द्वौ जनौ युगपद् इकनियनगरस्थयिहूदीयानां भजनभवनं गत्वा यथा बहवो यिहूदीया अन्यदेेशीयलोकाश्च व्यश्वसन् तादृशीं कथां कथितवन्तौ।
तत्र सुसंवादं प्रचार्य्य बहुलोकान् शिष्यान् कृत्वा तौ लुस्त्राम् इकनियम् आन्तियखियाञ्च परावृत्य गतौ।
ततस्तौ काराया निर्गत्य लुदियाया गृहं गतवन्तौ तत्र भ्रातृगणं साक्षात्कृत्य तान् सान्त्वयित्वा तस्मात् स्थानात् प्रस्थितौ।
अतो हे भ्रातृगण वयम् एतत्कर्म्मणो भारं येभ्यो दातुं शक्नुम एतादृशान् सुख्यात्यापन्नान् पवित्रेणात्मना ज्ञानेन च पूर्णान् सप्प्रजनान् यूयं स्वेषां मध्ये मनोनीतान् कुरुत,
किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।
यच्च निन्दायां शयतानस्य जाले च न पतेत् तदर्थं तेन बहिःस्थलोकानामपि मध्ये सुख्यातियुक्तेन भवितव्यं।
सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।
आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्।
यानि च धर्म्मशास्त्राणि ख्रीष्टे यीशौ विश्वासेन परित्राणप्राप्तये त्वां ज्ञानिनं कर्त्तुं शक्नुवन्ति तानि त्वं शैशवकालाद् अवगतोऽसि।