सहजः सहजं तातः सुतञ्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति।
2 तीमुथियु 3:3 - सत्यवेदः। Sanskrit NT in Devanagari प्रीतिवर्जिता असन्धेया मृषापवादिनो ऽजितेन्द्रियाः प्रचण्डा भद्रद्वेषिणो अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰীতিৱৰ্জিতা অসন্ধেযা মৃষাপৱাদিনো ঽজিতেন্দ্ৰিযাঃ প্ৰচণ্ডা ভদ্ৰদ্ৱেষিণো সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রীতিৱর্জিতা অসন্ধেযা মৃষাপৱাদিনো ঽজিতেন্দ্রিযাঃ প্রচণ্ডা ভদ্রদ্ৱেষিণো သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြီတိဝရ္ဇိတာ အသန္ဓေယာ မၖၐာပဝါဒိနော 'ဇိတေန္ဒြိယား ပြစဏ္ဍာ ဘဒြဒွေၐိဏော satyavEdaH| Sanskrit Bible (NT) in Cologne Script prItivarjitA asandhEyA mRSApavAdinO 'jitEndriyAH pracaNPA bhadradvESiNO સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રીતિવર્જિતા અસન્ધેયા મૃષાપવાદિનો ઽજિતેન્દ્રિયાઃ પ્રચણ્ડા ભદ્રદ્વેષિણો satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script prItivarjitA asandheyA mRSApavAdino 'jitendriyAH pracaNDA bhadradveSiNo |
सहजः सहजं तातः सुतञ्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति।
यो जनो युष्माकं वाक्यं गृह्लाति स ममैव वाक्यं गृह्लाति; किञ्च यो जनो युष्माकम् अवज्ञां करोति स ममैवावज्ञां करोति; यो जनो ममावज्ञां करोति च स मत्प्रेरकस्यैवावज्ञां करोति।
तदा यीशुरवदत् किमहं युष्माकं द्वादशजनान् मनोनीतान् न कृतवान्? किन्तु युष्माकं मध्येपि कश्चिदेको विघ्नकारी विद्यते।
अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः
उपोषणप्रार्थनयोः सेवनार्थम् एकमन्त्रणानां युष्माकं कियत्कालं यावद् या पृथक्स्थिति र्भवति तदन्यो विच्छेदो युष्मन्मध्ये न भवतु, ततः परम् इन्द्रियाणाम् अधैर्य्यात् शयतान् यद् युष्मान् परीक्षां न नयेत् तदर्थं पुनरेकत्र मिलत।
किञ्च यदि तैरिन्द्रियाणि नियन्तुं न शक्यन्ते तर्हि विवाहः क्रियतां यतः कामदहनाद् व्यूढत्वं भद्रं।
अतो हेतो र्यः कश्चिद् वाक्यमेतन्न गृह्लाति स मनुष्यम् अवजानातीति नहि येन स्वकीयात्मा युष्मदन्तरे समर्पितस्तम् ईश्वरम् एवावजानाति।
अपरं योषिद्भिरपि विनीताभिरनपवादिकाभिः सतर्काभिः सर्व्वत्र विश्वास्याभिश्च भवितव्यं।
किन्त्वतिथिसेवकेन सल्लोकानुरागिणा विनीतेन न्याय्येन धार्म्मिकेण जितेन्द्रियेण च भवितव्यं,
प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः
तेषां लोचनानि परदाराकाङ्क्षीणि पापे चाश्रान्तानि ते चञ्चलानि मनांसि मोहयन्ति लोभे तत्परमनसः सन्ति च।
तेभ्यः स्वाधीनतां प्रतिज्ञाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य किङ्करः।
ते वाक्कलहकारिणः स्वभाग्यनिन्दकाः स्वेच्छाचारिणो दर्पवादिमुखविशिष्टा लाभार्थं मनुष्यस्तावकाश्च सन्ति।
अपरं तस्य पशोः प्रतिमा यथा भाषते यावन्तश्च मानवास्तां पशुप्रतिमां न पूजयन्ति ते यथा हन्यन्ते तथा पशुप्रतिमायाः प्राणप्रतिष्ठार्थं सामर्थ्यं तस्मा अदायि।
तस्माद् ये तं कलङ्कमर्थतः पशो र्नाम तस्य नाम्नः संख्याङ्कं वा धारयन्ति तान् विना परेण केनापि क्रयविक्रये कर्त्तुं न शक्येते।
भविष्यद्वादिसाधूनां रक्तं तैरेव पातितं। शोणितं त्वन्तु तेभ्यो ऽदास्तत्पानं तेषु युज्यते॥
मम दृष्टिगोचरस्था सा नारी पवित्रलोकानां रुधिरेण यीशोः साक्षिणां रुधिरेण च मत्तासीत् तस्या दर्शनात् ममातिशयम् आश्चर्य्यज्ञानं जातं।