ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 तीमुथियु 3:16 - सत्यवेदः। Sanskrit NT in Devanagari

तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তৎ সৰ্ৱ্ৱং শাস্ত্ৰম্ ঈশ্ৱৰস্যাত্মনা দত্তং শিক্ষাযৈ দোষবোধায শোধনায ধৰ্ম্মৱিনযায চ ফলযূক্তং ভৱতি

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তৎ সর্ৱ্ৱং শাস্ত্রম্ ঈশ্ৱরস্যাত্মনা দত্তং শিক্ষাযৈ দোষবোধায শোধনায ধর্ম্মৱিনযায চ ফলযূক্তং ভৱতি

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတ် သရွွံ ၑာသ္တြမ် ဤၑွရသျာတ္မနာ ဒတ္တံ ၑိက္ၐာယဲ ဒေါၐဗောဓာယ ၑောဓနာယ ဓရ္မ္မဝိနယာယ စ ဖလယူက္တံ ဘဝတိ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tat sarvvaM zAstram IzvarasyAtmanA dattaM zikSAyai dOSabOdhAya zOdhanAya dharmmavinayAya ca phalayUktaM bhavati

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તત્ સર્વ્વં શાસ્ત્રમ્ ઈશ્વરસ્યાત્મના દત્તં શિક્ષાયૈ દોષબોધાય શોધનાય ધર્મ્મવિનયાય ચ ફલયૂક્તં ભવતિ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tat sarvvaM zAstram IzvarasyAtmanA dattaM zikSAyai doSabodhAya zodhanAya dharmmavinayAya ca phalayUktaM bhavati

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 तीमुथियु 3:16
43 अन्तरसन्दर्भाः  

तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।


तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?


तदा स उक्तवान्, तर्हि दायूद् कथम् आत्माधिष्ठानेन तं प्रभुं वदति ?


तथा सतीत्थं घटिष्यते धर्म्मपुस्तकस्य यदिदं वाक्यं तत् कथं सिध्येत्?


किन्तु भविष्यद्वादिनां वाक्यानां संसिद्धये सर्व्वमेतदभूत्।तदा सर्व्वे शिष्यास्तं विहाय पलायन्त।


ततो यीशुः प्रत्युवाच शास्त्रम् ईश्वरशक्तिञ्च यूयमज्ञात्वा किमभ्राम्यत न?


स्वयं दायूद् पवित्रस्यात्मन आवेशेनेदं कथयामास। यथा। "मम प्रभुमिदं वाक्यवदत् परमेश्वरः। तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षपार्श्व् उपाविश।"


तस्माद् येषाम् उद्देशे ईश्वरस्य कथा कथिता ते यदीश्वरगणा उच्यन्ते धर्म्मग्रन्थस्याप्यन्यथा भवितुं न शक्यं,


यः कुकर्म्म करोति तस्याचारस्य दृष्टत्वात् स ज्योतिर्ॠतीयित्वा तन्निकटं नायाति;


हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।


स शिक्षितप्रभुमार्गो मनसोद्योगी च सन् योहनो मज्जनमात्रं ज्ञात्वा यथार्थतया प्रभोः कथां कथयन् समुपादिशत्।


कामपि हितकथाां न गोपायितवान् तां प्रचार्य्य सप्रकाशं गृहे गृहे समुपदिश्येश्वरं प्रति मनः परावर्त्तनीयं प्रभौ यीशुख्रीष्टे विश्वसनीयं


अहं सर्व्वेषां लोकानां रक्तपातदोषाद् यन्निर्दोष आसे तस्याद्य युष्मान् साक्षिणः करोमि।


एतत्कारणात् तेषां परस्परम् अनैक्यात् सर्व्वे चलितवन्तः; तथापि पौल एतां कथामेकां कथितवान् पवित्र आत्मा यिशयियस्य भविष्यद्वक्तु र्वदनाद् अस्माकं पितृपुरुषेभ्य एतां कथां भद्रं कथयामास, यथा,


अपरञ्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे।


तिमिरस्थितलोकानां मध्ये दीप्तिस्वरूपोऽज्ञानलोकेभ्यो ज्ञानदाता शिशूनां शिक्षयिताहमेवेति मन्यसे।


सर्व्वथा बहूनि फलानि सन्ति, विशेषत ईश्वरस्य शास्त्रं तेभ्योऽदीयत।


पुण्यमिवागण्यत तत् केवलस्य तस्य निमित्तं लिखितं नहि, अस्माकं निमित्तमपि,


एकैकस्मै तस्यात्मनो दर्शनं परहितार्थं दीयते।


ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।


तथा कृते यदीश्वरः सत्यमतस्य ज्ञानार्थं तेभ्यो मनःपरिवर्त्तनरूपं वरं दद्यात्,


त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।


विश्वास आशंसितानां निश्चयः, अदृश्यानां विषयाणां दर्शनं भवति।


अतो हेतोः पवित्रेणात्मना यद्वत् कथितं, तद्वत्, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ।


ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।