2 तीमुथियु 2:3 - सत्यवेदः। Sanskrit NT in Devanagari त्वं यीशुख्रीष्टस्योत्तमो योद्धेव क्लेशं सहस्व। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱং যীশুখ্ৰীষ্টস্যোত্তমো যোদ্ধেৱ ক্লেশং সহস্ৱ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱং যীশুখ্রীষ্টস্যোত্তমো যোদ্ধেৱ ক্লেশং সহস্ৱ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွံ ယီၑုခြီၐ္ဋသျောတ္တမော ယောဒ္ဓေဝ က္လေၑံ သဟသွ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvaM yIzukhrISTasyOttamO yOddhEva klEzaM sahasva| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વં યીશુખ્રીષ્ટસ્યોત્તમો યોદ્ધેવ ક્લેશં સહસ્વ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvaM yIzukhrISTasyottamo yoddheva klezaM sahasva| |
तत् सर्व्वं तितिक्षते सर्व्वत्र विश्वसिति सर्व्वत्र भद्रं प्रतीक्षते सर्व्वं सहते च।
निजधनव्ययेन कः संग्रामं करोति? को वा द्राक्षाक्षेत्रं कृत्वा तत्फलानि न भुङ्क्ते? को वा पशुव्रजं पालयन् तत्पयो न पिवति?
वयं यदि क्लिश्यामहे तर्हि युष्माकं सान्त्वनापरित्राणयोः कृते क्लिश्यामहे यतोऽस्माभि र्यादृशानि दुःखानि सह्यन्ते युष्माकं तादृशदुःखानां सहनेन तौ साधयिष्येते इत्यस्मिन् युष्मानधि मम दृढा प्रत्याशा भवति।
हे पुत्र तीमथिय त्वयि यानि भविष्यद्वाक्यानि पुरा कथितानि तदनुसाराद् अहम् एनमादेशं त्वयि समर्पयामि, तस्याभिप्रायोऽयं यत्त्वं तै र्वाक्यैरुत्तमयुद्धं करोषि
ख्रीष्टेन यीशुना या जीवनस्य प्रतिज्ञा तामधीश्वरस्येच्छया यीशोः ख्रीष्टस्यैकः प्रेरितः पौलोऽहं स्वकीयं प्रियं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखामि।
अतएवास्माकं प्रभुमधि तस्य वन्दिदासं मामधि च प्रमाणं दातुं न त्रपस्व किन्त्वीश्वरीयशक्त्या सुसंवादस्य कृते दुःखस्य सहभागी भव।
ख्रीष्टेन यीशुना यद् अनन्तगौरवसहितं परित्राणं जायते तदभिरुचितै र्लोकैरपि यत् लभ्येत तदर्थमहं तेषां निमित्तं सर्व्वाण्येतानि सहे।
तत्सुसंवादकारणाद् अहं दुष्कर्म्मेव बन्धनदशापर्य्यन्तं क्लेशं भुञ्जे किन्त्वीश्वरस्य वाक्यम् अबद्धं तिष्ठति।
आन्तियखियायाम् इकनिये लूस्त्रायाञ्च मां प्रति यद्यद् अघटत यांश्चोपद्रवान् अहम् असहे सर्व्वमेतत् त्वम् अवगतोऽसि किन्तु तत्सर्व्वतः प्रभु र्माम् उद्धृतवान्।
किन्तु त्वं सर्व्वविषये प्रबुद्धो भव दुःखभोगं स्वीकुरु सुसंवादप्रचारकस्य कर्म्म साधय निजपरिचर्य्यां पूर्णत्वेन कुरु च।
प्रियाम् आप्पियां सहसेनाम् आर्खिप्पं फिलीमोनस्य गृहे स्थितां समितिञ्च प्रति पत्रं लिखतः।
हे भ्रातरः, पूर्व्वदिनानि स्मरत यतस्तदानीं यूयं दीप्तिं प्राप्य बहुदुर्गतिरूपं संग्रामं सहमाना एकतो निन्दाक्लेशैः कौतुकीकृता अभवत,
अपरं स विश्वासेन राज्ञः क्रोधात् न भीत्वा मिसरदेशं परितत्याज, यतस्तेनादृश्यं वीक्षमाणेनेव धैर्य्यम् आलम्बि।
यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।